कालानिलबलोद्धूताज् जर्जराज् जीवितद्रुमात् । भोगपुष्पाणि दिवसपर्णानि निपतन्त्य् अधः
भोगभोगिश्रितेष्व् अन्तर् दुःखदर्दुरवारिषु । मनो मोहान्धकूपेषु दूरेषु विनिमज्जति
नानानुरञ्जना स्पष्टा तृष्णा तरलपेलवा । चैत्यमग्नपताकेव दूरं समधिरोहति
अस्य संसारतन्त्रस्य बृहत्कालबिलास्पदः । जीविताशामयांस् तन्तून् अन्तकाखुर् निकृन्तति
यौवनोत्फालकल्लोला बहलोल्लासफेनिला । परावर्तमहावर्ता याति जीवितदुर्नदी
कलाकुलकलत्कार्यकल्लोलकुलसङ्कुला । क्रियासरिद् अपर्यन्ता वहत्य् आकुलकोटरा
अनन्ता बन्धुजनतानद्यो गम्भीरकोटरे । अजस्रं निपतन्त्य् एता वितते कालसागरे
देहरत्नशलाकेयं नाशपङ्कार्णवोदरे । न ज्ञायते क्व मग्नेति तात जन्मनि जन्मनि
चिन्ताचक्रे चिरं चञ्चच्चक्रिकाचारचञ्चुरे । चेतो भ्रमति सामुद्रे गर्तावर्ते तृणं यथा
उह्यमानम् अनन्तेषु चेतः कार्यमहोर्मिषु । क्षणम् एति न विश्रामं चिन्ताताण्डविताशयम्
इदं कृतं करोमीदं करिष्यामीदम् इत्य् अलम् । कलनाजालवलिता मूर्छिता मतिपक्षिणी
अयं सुहृद् अयं शत्रुर् इति द्वन्द्वमहामयः । विनिकृन्तति मर्माणि नवानीवोत्पलानि मे
चिन्तातुण्ड्या मदावर्तवीच्यैकनिचयं चरन् । क्षणाद् उच्छूनताम् एति मानमीनः क्षणात् क्षतिम्
अनात्मीयानि दुःखानि बहून्य् एवंविधान्य् अलम् । आत्मबुद्ध्या विचिन्वानो जनो गच्छति दीनताम्
बहुविधसुखदुःखमध्यपाती विततजरामरणप्रपातभग्नः । जगदुदरगिरौ लुठञ् जनो ऽयं गतरसपर्णवद् एति जर्जरत्वम्
एवं तौ कुशलप्रश्नं कृतवन्तौ परस्परम् । कालेनासाद्य विमलं ज्ञानं मोक्षं ततो गतौ
अतो वच्मि महाबाहो यथा ज्ञानेतरा गतिः । नास्ति संसारतरणे पाशबद्धस्य चेतसः
इदं भव्यमतेर् दुःखम् अनन्तम् अपि पेलवम् । कुखगस्यातरो ऽम्भोधिस् सर्पारेर् गोष्पदायते
देहातीता महात्मानश् चिन्मात्रे स्वात्मनि स्थिताः । दूरद् देहं हसन्ति स्वं प्रेक्ष्यार्को जनताम् इव
देहे दुःखिनि सङ्क्षुब्धे का नः क्षतिर् उपस्थिता । रथे विधुरिते भग्ने सारथेः केव खण्डना
मनसि क्षुब्धतां याते चित्त्वस्याङ्ग किम् आगतम् । तरङ्गे रजसा म्लाने वैपरीत्यं किम् अम्बुधेः
के भवन्त्य् अयसां हंसाः पयसाम् उपलाश् च के । काश् शिलाः किल दारूणां के भोगाः परमात्मनः
सम्बन्धः क इवाग्राशाशैलापरसमुद्रयोः । अन्तरे दूरसम्बाधे कश् च चित्तत्त्वबन्धयोः
अप्य् उत्सङ्गोह्यमानानि काष्ठानि सरिदम्भसाम् । कानि नाम भवन्तीह शरीराणि तथात्मनः
सङ्घट्टात् काष्ठपयसां यथोत्तुङ्गाः कणादयः । देहात्मनोस् समायोगात् तथैताश् चित्तवृत्तयः
सम्बन्धाद् दारुपयसां प्रतिबिम्बानि दारुतः । यथा पयसि लक्ष्यन्ते शरीराणि तथात्मनि
यथा दर्पणवार्यादौ प्रतिबिम्बानि वस्तुतः । नासत्यानि न सत्यानि शरीराणि तथात्मनि
दारुवार्युपलास्फोटे दुःखिता न यथा क्वचित् । संयुक्तेषु वियुक्तेषु न तथा पञ्चसु क्षतिः
दारुसंवेल्लितात् तोयात् कम्पशब्दादयो यथा । प्रजायन्ते तथैवास्माद् देहाच् चित्परिबोधितात्
न बुद्धजडयोर् एतास् संविदश् चिच्छरीरयोः । एता ह्य् अज्ञानमात्रस्य तस्मिन् नष्टे तद् एव ताः