कायजीर्णतरोर् अस्माद् बान्धवाक्रन्दषट्पदात् । जरापुष्पसितोदेति पुनर् मरणमञ्जरी
भुक्तशुक्तर्तुविरसा पुराणदिवसोम्भिता । नीयते नीरसप्राया पुनस् संवत्सरावली
महादरीषु देहाद्रेस् तृष्णाकण्टकितास्व् अति । हेलाव्यालासु च पुनः क्रियासु परिलुप्यते
दुःखैस् सुखलवाकारैर् दीर्घदीर्घैश् शुभाशुभैः । अपर्यस्तागमप्रायाः प्रयान्त्य् आयान्ति रात्रयः
अयथार्थक्रियारम्भैः कदाशावेशपल्लवैः । क्षीयते कर्मभिस् तुच्छैर् आयुर् आहतकर्तृभिः
उन्मूलिताशयालानो मनोमत्तमतङ्गजः । तृष्णाकरेणुकोत्तब्धो दूरं विपरिधावति
जिह्वादललतालग्नः कायद्रुमगुहालये । यत्रचिन्तामणौ वृद्धो गर्धगृध्रो विवर्धते
नीरसा निस्सुखा लघ्वी पतत्पेलवगात्रिका । जीर्णपर्णसवर्णेयं क्षीयते दिवसावली
अपमानरजोध्वस्तम् अस्तङ्गतवपुश्श्रि च । मुखं धूसरताम् एति हिमैः पद्मम् इवाहतम्
शुष्यतः कायसरसः प्रगलद्यौवनाम्भसः । राजहंसः क्षणाद् आयुर् अनावर्ति पलायते
कालानिलबलोद्धूताज् जर्जराज् जीवितद्रुमात् । भोगपुष्पाणि दिवसपर्णानि निपतन्त्य् अधः
भोगभोगिश्रितेष्व् अन्तर् दुःखदर्दुरवारिषु । मनो मोहान्धकूपेषु दूरेषु विनिमज्जति
नानानुरञ्जना स्पष्टा तृष्णा तरलपेलवा । चैत्यमग्नपताकेव दूरं समधिरोहति
अस्य संसारतन्त्रस्य बृहत्कालबिलास्पदः । जीविताशामयांस् तन्तून् अन्तकाखुर् निकृन्तति
यौवनोत्फालकल्लोला बहलोल्लासफेनिला । परावर्तमहावर्ता याति जीवितदुर्नदी
कलाकुलकलत्कार्यकल्लोलकुलसङ्कुला । क्रियासरिद् अपर्यन्ता वहत्य् आकुलकोटरा
अनन्ता बन्धुजनतानद्यो गम्भीरकोटरे । अजस्रं निपतन्त्य् एता वितते कालसागरे
देहरत्नशलाकेयं नाशपङ्कार्णवोदरे । न ज्ञायते क्व मग्नेति तात जन्मनि जन्मनि
चिन्ताचक्रे चिरं चञ्चच्चक्रिकाचारचञ्चुरे । चेतो भ्रमति सामुद्रे गर्तावर्ते तृणं यथा
उह्यमानम् अनन्तेषु चेतः कार्यमहोर्मिषु । क्षणम् एति न विश्रामं चिन्ताताण्डविताशयम्
इदं कृतं करोमीदं करिष्यामीदम् इत्य् अलम् । कलनाजालवलिता मूर्छिता मतिपक्षिणी
अयं सुहृद् अयं शत्रुर् इति द्वन्द्वमहामयः । विनिकृन्तति मर्माणि नवानीवोत्पलानि मे
चिन्तातुण्ड्या मदावर्तवीच्यैकनिचयं चरन् । क्षणाद् उच्छूनताम् एति मानमीनः क्षणात् क्षतिम्
अनात्मीयानि दुःखानि बहून्य् एवंविधान्य् अलम् । आत्मबुद्ध्या विचिन्वानो जनो गच्छति दीनताम्
बहुविधसुखदुःखमध्यपाती विततजरामरणप्रपातभग्नः । जगदुदरगिरौ लुठञ् जनो ऽयं गतरसपर्णवद् एति जर्जरत्वम्
एवं तौ कुशलप्रश्नं कृतवन्तौ परस्परम् । कालेनासाद्य विमलं ज्ञानं मोक्षं ततो गतौ
अतो वच्मि महाबाहो यथा ज्ञानेतरा गतिः । नास्ति संसारतरणे पाशबद्धस्य चेतसः
इदं भव्यमतेर् दुःखम् अनन्तम् अपि पेलवम् । कुखगस्यातरो ऽम्भोधिस् सर्पारेर् गोष्पदायते
देहातीता महात्मानश् चिन्मात्रे स्वात्मनि स्थिताः । दूरद् देहं हसन्ति स्वं प्रेक्ष्यार्को जनताम् इव
देहे दुःखिनि सङ्क्षुब्धे का नः क्षतिर् उपस्थिता । रथे विधुरिते भग्ने सारथेः केव खण्डना