तौ तथान्योऽन्यमुदितौ मनोहरतराकृती । तस्थतुस् स्वाश्रमे मौने सरोज इव षट्पदौ
प्रापतुर् यौवनं बाल्यम् उत्सृज्य जनवल्लभौ । कालेनाल्पतरेणैव चन्द्रसूर्याव् इवोदितौ
जग्मतुर् देहम् उत्सृज्य ततस् तौ पितरौ तयोः । स्वर्गं जरार्ताव् उड्डीय नीडाद् इव विहङ्गमौ
पञ्चत्वं गतयोः पित्रोर् दीनवक्त्रौ बभूवतुः । सन्नाङ्गौ विगतोत्साहौ पद्माव् इव जलोद्धृतौ
तत्रौर्ध्वदैहिकं कृत्वा चक्राते परिदेवनम् । लोकस्थितिर् अलङ्घ्या हि महताम् अपि मानद
कृत्वौर्ध्वदैहिकम् अथो व्यथयाभिभूतौ शोकोत्थया करुणम् आर्तगिरा विलप्य । चित्रार्पिताव् इव निरस्तसमस्तचेष्टौ तौ संस्थितौ सुसमशून्यहृदादिनान्तम्
अथ शोकपराभूतौ तस्थतुर् दृढतापसौ । तापसंशुष्कसर्वाङ्गौ ताव् अरण्यद्रुमाव् इव
विरक्तौ विपिने कालं क्षपयाम् आसतुर् द्विजौ । वियूथाव् इव सारङ्गाव् अनास्थाम् आगतौ पराम्
जग्मुर् दिनानि मासाश् च वर्षाण्य् अथ तयोस् तदा । क्रमात् ताव् अपि संयातौ जरां श्वभ्रद्रुमाव् इव
अप्राप्तविमलज्ञानौ चिराज् जरढतापसौ । ताव् एकदा सङ्घटिताव् इदम् अन्योऽन्यम् ऊचतुः
जीवितोग्रद्रुमफल मदाश्वासामृताम्बुधे । जगत्य् अस्मिन् महाबन्धो भास स्वागतम् अस्तु ते
एतावत्यो दिनावल्यो मद्वियोगवता त्वया । वद क्व क्षपितास् साधो कच्चित् ते विमलं तपः
कच्चित् ते विज्वरा बुद्धिः कच्चिज् जातस् त्वम् आत्मवान् । कच्चित् फलितविद्यस् त्वं कच्चित् कुशलवान् असि
इत्य् उक्तवन्तं संसारसमुद्विग्नम् अलं तदा । प्राहाप्राप्तमहाज्ञानं सुहृत् सुहृदम् आदरात्
साधो स्वागतम् अद्याङ्ग दिष्ट्या दृष्टो ऽसि मानद । कुशलं तु कुतो ऽस्माकं संसारे तिष्ठताम् इह
यावन् नाधिगतं ज्ञेयं यावत् क्षीणा न चित्तभूः । यावत् तीर्णं न संसारात् तावन् मे कुशलं कुतः
यावन् नाधिगतं ज्ञानं यावन् न समतोदिता । यावन् नाभ्युदितो बोधस् तावन् नः कुशलं कुतः
आशा यावद् अशेषेण न लूनाश् चित्तसम्भवाः । वीरुधो दात्रकेणेव तावन् नः कुशलं कुतः
आत्मलाभं विना साधो विना ज्ञानमहौषधम् । उदेति पुनर् एवेयं दुस्संसृतिविषूचिका
शैशवाङ्कुरितारम्भो नवयौवनपल्लवः । जराकुसुमितो ऽभ्येति पुनस् संसारदुर्द्रुमः
कायजीर्णतरोर् अस्माद् बान्धवाक्रन्दषट्पदात् । जरापुष्पसितोदेति पुनर् मरणमञ्जरी
भुक्तशुक्तर्तुविरसा पुराणदिवसोम्भिता । नीयते नीरसप्राया पुनस् संवत्सरावली
महादरीषु देहाद्रेस् तृष्णाकण्टकितास्व् अति । हेलाव्यालासु च पुनः क्रियासु परिलुप्यते
दुःखैस् सुखलवाकारैर् दीर्घदीर्घैश् शुभाशुभैः । अपर्यस्तागमप्रायाः प्रयान्त्य् आयान्ति रात्रयः
अयथार्थक्रियारम्भैः कदाशावेशपल्लवैः । क्षीयते कर्मभिस् तुच्छैर् आयुर् आहतकर्तृभिः
उन्मूलिताशयालानो मनोमत्तमतङ्गजः । तृष्णाकरेणुकोत्तब्धो दूरं विपरिधावति
जिह्वादललतालग्नः कायद्रुमगुहालये । यत्रचिन्तामणौ वृद्धो गर्धगृध्रो विवर्धते
नीरसा निस्सुखा लघ्वी पतत्पेलवगात्रिका । जीर्णपर्णसवर्णेयं क्षीयते दिवसावली
अपमानरजोध्वस्तम् अस्तङ्गतवपुश्श्रि च । मुखं धूसरताम् एति हिमैः पद्मम् इवाहतम्
शुष्यतः कायसरसः प्रगलद्यौवनाम्भसः । राजहंसः क्षणाद् आयुर् अनावर्ति पलायते