असह्यकुसुमापूरो ऽसह्यनिर्मलनिर्झरः । गुह्यकारक्षितनिधिस् सह्यनामाविषह्यभाः
मुक्तापटलसम्पूर्णैर् धातुपाटलभित्तिभिः । भासुरः काञ्चनतटैः कटैर् इव सुरद्विपः
क्वचित् पुष्पभराशारो धातुशारतरः क्वचित् । क्वचित् फुल्लसरश्शारो रत्नशारशिराः क्वचित्
इतो रटन्निर्झरवान् इतः क्वणितकीचकः । इतो रटद्गुहावात इतष् षट्पदघुङ्घुमी
सानौ गीताप्सरोवृन्दो वने मृदुखगारवः । अधित्यकायां मत्ताभ्रो गहनेषु मृगारवी
विद्याधरोद्गीतगुहो भृङ्गगीताम्बुजाकरः । किरातागीतपर्यन्तः खगागीतवनद्रुमः
स्कन्धेषु देवैर् वलितः पादेषु वलितो नरैः । पाताले वलितो नागैर् जगद्गेहम् इवापरम्
कन्दरेषु श्रितस् सिद्धैर् निधानैर् अन्तर् आश्रितः । चन्दनेषु श्रितो नागैस् सिंहैश् शृङ्गशिखासु च
पुष्पाभ्रसंवीतवपुः पुष्परेण्वभ्रपांसुलः । पुष्पपत्त्राभ्रभृद्वातः पुष्पपादपपाण्डुरः
धातुधूल्यभ्रकपिलो रत्नोपलतलस्थितिः । स दारुजैर् इव सुरस्त्रीगणैर् अलम् आश्रितः
अभ्रनीलांशुकच्छन्ना मूकरत्नविभूषणाः । शिलाकनकसुन्दर्यो यत्र शृङ्गाभिसारिकाः
तत्रोत्तरतटे सानाव् आनमत्फलपादपे । रत्नपुष्करिणीजालवहन्निर्झरवारिणि
चूतद्रुमलतोन्मुक्तपुष्पस्तबकदन्तुरे । विदुलाङ्कोल्लपुन्नागनीपनीरन्ध्रदिक्तटे
लतावितानच्छन्नार्के रत्नांशुभरभासुरे । स्रवज्जम्बूरसक्नूते स्वर्लोकाह्लादकारिणि
ब्रह्मलोकसमस् स्वर्गरम्यश् शिवपुरोपमः । अत्रेर् अस्त्य् आश्रमश् श्रीमान् सिद्धश्रमहरो महान्
महत्य् अत्र्याश्रमे तस्मिंस् तापसौ द्वौ बभूवतुः । कौचिद् एव नभोमार्ग इव शुक्रबृहस्पती
तयोर् अथैकास्पदयोस् तत्राभूतां सुताव् उभौ । कुलाङ्कुरौ शुद्धतनू सरस्वत्य् अम्बुजाव् इव
विलासभासनामानौ वृद्धिम् आययतुः क्रमात् । तौ पित्रोः पल्लवौ शीघ्रं लतापादपयोर् इव
आस्ताम् अन्योऽन्यसुहृदौ सुस्निग्धौ वल्लभौ मिथः । तिलतैलवद् आश्लिष्टौ तौ पुष्पामोदवत् स्थितौ
नाभूतां विप्रयुक्तौ तौ सुरक्ताव् इव दम्पती । एकं द्वित्वम् इवापन्नं समम् आसीत् तयोर् मनः
तौ तथान्योऽन्यमुदितौ मनोहरतराकृती । तस्थतुस् स्वाश्रमे मौने सरोज इव षट्पदौ
प्रापतुर् यौवनं बाल्यम् उत्सृज्य जनवल्लभौ । कालेनाल्पतरेणैव चन्द्रसूर्याव् इवोदितौ
जग्मतुर् देहम् उत्सृज्य ततस् तौ पितरौ तयोः । स्वर्गं जरार्ताव् उड्डीय नीडाद् इव विहङ्गमौ
पञ्चत्वं गतयोः पित्रोर् दीनवक्त्रौ बभूवतुः । सन्नाङ्गौ विगतोत्साहौ पद्माव् इव जलोद्धृतौ
तत्रौर्ध्वदैहिकं कृत्वा चक्राते परिदेवनम् । लोकस्थितिर् अलङ्घ्या हि महताम् अपि मानद
कृत्वौर्ध्वदैहिकम् अथो व्यथयाभिभूतौ शोकोत्थया करुणम् आर्तगिरा विलप्य । चित्रार्पिताव् इव निरस्तसमस्तचेष्टौ तौ संस्थितौ सुसमशून्यहृदादिनान्तम्
अथ शोकपराभूतौ तस्थतुर् दृढतापसौ । तापसंशुष्कसर्वाङ्गौ ताव् अरण्यद्रुमाव् इव
विरक्तौ विपिने कालं क्षपयाम् आसतुर् द्विजौ । वियूथाव् इव सारङ्गाव् अनास्थाम् आगतौ पराम्
जग्मुर् दिनानि मासाश् च वर्षाण्य् अथ तयोस् तदा । क्रमात् ताव् अपि संयातौ जरां श्वभ्रद्रुमाव् इव
अप्राप्तविमलज्ञानौ चिराज् जरढतापसौ । ताव् एकदा सङ्घटिताव् इदम् अन्योऽन्यम् ऊचतुः