तत्त्वावलोकनात् क्षीणे चित्ते नो जायते पुनः । जीवः कदाचन तदा भवेत् तीर्णभवार्णवः
महानुभावसम्पर्कात् संसारार्णवलङ्घने । युक्तिस् सम्प्राप्यते राम दृढा नौर् इव नाविकात्
यस्मिन् देशमरौ राम नास्ति सज्जनपादपः । सफलश् शीतलच्छायो न तत्र निवसेद् बुधः
स्निग्धशीतवचःपत्त्रे सच्छाये स्मितपुष्पिते । क्षणाद् विश्रम्यते राम भृशं सुजनषण्डके
तदभावे महामोहदाहसन्ततिदायिनि । किञ्चिज्जातविवेकेन स्वप्तव्यं नेह धीमता
आत्मैव ह्य् आत्मनो बन्धुर् आत्मनात्मानम् उद्धरेत् । नात्मानम् अवलेपेन जन्मपङ्कार्णवे क्षिपेत्
किम् इदं कथम् आयातं किम्मूलं किमपक्षयम् । देहदुःखम् इति प्राज्ञैः प्रेक्षणीयं प्रयत्नतः
न धनानि न मित्राणि न शास्त्राणि न बन्धवः । नराणाम् उपकुर्वन्ति मग्नस्वात्मसमुद्धृतौ
मनोमात्रेण सुहृदा सदैव सहवासिना । सह किञ्चित् परामृश्य भवत्य् आत्मा समुद्धृतः
वैराग्याभ्यासयत्नाभ्यां स्वपरामर्शजन्मना । तत्त्वालोकेन पोतेन तीर्यते भवसागरः
शोच्यमानं जनैर् नित्यं दह्यमानं दुराशया । नात्मानम् अवमन्येत प्रोद्धरेद् एनम् आदरात्
अहङ्कारमहालानं तृष्णारज्जुं मनोमदम् । जन्मजम्बालनिर्मग्नं जीवदन्तिनम् उद्धरेत्
अयम् एतावतैवात्मा त्रातो भवति राघव । यद् अपास्य विमूढत्वम् अहङ्कारः प्रमार्ज्यते
एतावतैव सन्मार्गो याति प्रकटताम् अलम् । यद् अपास्य मनोमोहम् अहम्भावो विलीयते
एतावतैव देवेशः परमात्मावगम्यते । काष्ठलोष्टसमत्वेन देहो यद् अवलोक्यते
अहङ्काराम्बुदे क्षीणे दृश्यते चिद्दिवाकरः । ततस् तत्परिणामेन तत् पदं समवाप्यते
यथा ध्वान्तसमुच्छेदे स्वयम् आलोकवेदनम् । तथाहङ्कारविच्छेदे स्वयम् आत्मावलोकनम्
अहङ्कारसमुच्छेदे यावस्था सुसमोदया । सा परा भरिताकारा सा सर्वव्यापिनी चितिः
परिपूर्णार्णवप्रख्या न वाग्गोचरम् एति नः । नोपमानम् उपादत्ते नानुधावति रञ्जनम्
केवलं चित्प्रकाशांशकलिता स्थिरतां गता । तुर्या चेत् प्राप्यते दृष्टिस् तत् तया सोपमीयते
अदूरगतसादृश्या सुषुप्तस्योपलक्ष्यते । सावस्था भरिताकारा गगनश्रीर् इवाम्बुधेः
मनोऽहङ्कारविलये सर्वभावान्तरस्थिता । समुदेति परानन्दा या तनुः पारमेश्वरी
सा स्वयं योगसंसिद्ध्या सुषुप्तादूरभाविनी । न गम्या वचसां राम हृद्य् एवेहानुभूयते
अखिलम् इदम् अनन्तम् आत्मतत्त्वं दृढपरिणामिनि चेतसि स्थिते ऽन्तः । बहिर् उपशमिते चराचरात्मा स्वयम् अनुभूयत एव देवदेवः
तदनु विषयवासनाविनाशस् तदनु शुभः परमस्फुटः प्रकाशः । तदनु च समतावशात् स्वरूपे परिणमनं महताम् अचिन्त्यरूपे
मनसैव मनश् छित्त्वा यद्य् आत्मा नावलोक्यते । ममेत्य् अहम् इति त्यक्त्वा तत् तामरसलोचन
नास्तम् एति जगद्दुःखं यथा चित्रगतो रविः । आपद् आयात्य् अनन्तत्वं महार्णववद् आतता
पुनः पुनर् उपायाति जडकल्लोलकारिणी । मेघनीलतरुश्यामा संसृतिप्रावृड् आकुला
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् । संवादं सुहृदोस् सह्यसानौ भासविलासयोः
अस्त्य् उत्सेधजिताकाशः पीठेन जितभूतलः । तलेन जितपातालस् त्रिलोकविजयी गिरिः