चिरं शोचन्ति ते दीना जन्मजङ्गलवीरुधः । आत्मावलोकने हेला येषाम् अधिगतैनसाम्
आशापाशशतैर् बद्धं भोगोलपसुलालसम् । जराजर्जरिताकारं शोकोच्छ्वासकदर्थितम्
व्यूढदुःखमहाभारं जन्मजङ्गलजीविनम् । कुकर्मकर्दमालिप्तं मोहपल्वलशायिनम्
रोगदंशावलीदष्टं कृष्टं तृष्णावरत्रया । मनोवाजिनकोत्तब्धं बन्धुबन्धननिश्चलम्
पुत्रदारदरीजीर्णं मग्नोन्मग्नं कुकर्दमे । श्रान्तं विगतविश्रामं भग्नम् आदीर्घवर्त्मनि
गमागमपरिक्षीणं संसारारण्यचारिणम् । अलब्धशीतलच्छायं तीव्रतापोपतापितम्
आकारभासुरं दीनं वाहैर् आक्रान्तम् इन्द्रियैः । कर्मकर्णीरथाक्रान्तं तान्तं दुष्कृतताडनैः
आविर्भावतिरोभावचक्रावर्तदुरुद्वहम् । अज्ञानविकटाटव्यां लुठन्तं भग्नगात्रकम्
निजानर्थस्खदामग्नं सीदमानम् अकिञ्चनम् । सन्नाङ्गं कर्मभारेण करुणाक्रन्दकारिणम्
राम जीवबलीवर्दम् इमं संसारपल्वलात् । परमं यत्नम् आस्थाय चिरम् उत्तारयेद् बलात्
तत्त्वावलोकनात् क्षीणे चित्ते नो जायते पुनः । जीवः कदाचन तदा भवेत् तीर्णभवार्णवः
महानुभावसम्पर्कात् संसारार्णवलङ्घने । युक्तिस् सम्प्राप्यते राम दृढा नौर् इव नाविकात्
यस्मिन् देशमरौ राम नास्ति सज्जनपादपः । सफलश् शीतलच्छायो न तत्र निवसेद् बुधः
स्निग्धशीतवचःपत्त्रे सच्छाये स्मितपुष्पिते । क्षणाद् विश्रम्यते राम भृशं सुजनषण्डके
तदभावे महामोहदाहसन्ततिदायिनि । किञ्चिज्जातविवेकेन स्वप्तव्यं नेह धीमता
आत्मैव ह्य् आत्मनो बन्धुर् आत्मनात्मानम् उद्धरेत् । नात्मानम् अवलेपेन जन्मपङ्कार्णवे क्षिपेत्
किम् इदं कथम् आयातं किम्मूलं किमपक्षयम् । देहदुःखम् इति प्राज्ञैः प्रेक्षणीयं प्रयत्नतः
न धनानि न मित्राणि न शास्त्राणि न बन्धवः । नराणाम् उपकुर्वन्ति मग्नस्वात्मसमुद्धृतौ
मनोमात्रेण सुहृदा सदैव सहवासिना । सह किञ्चित् परामृश्य भवत्य् आत्मा समुद्धृतः
वैराग्याभ्यासयत्नाभ्यां स्वपरामर्शजन्मना । तत्त्वालोकेन पोतेन तीर्यते भवसागरः
शोच्यमानं जनैर् नित्यं दह्यमानं दुराशया । नात्मानम् अवमन्येत प्रोद्धरेद् एनम् आदरात्
अहङ्कारमहालानं तृष्णारज्जुं मनोमदम् । जन्मजम्बालनिर्मग्नं जीवदन्तिनम् उद्धरेत्
अयम् एतावतैवात्मा त्रातो भवति राघव । यद् अपास्य विमूढत्वम् अहङ्कारः प्रमार्ज्यते
एतावतैव सन्मार्गो याति प्रकटताम् अलम् । यद् अपास्य मनोमोहम् अहम्भावो विलीयते
एतावतैव देवेशः परमात्मावगम्यते । काष्ठलोष्टसमत्वेन देहो यद् अवलोक्यते
अहङ्काराम्बुदे क्षीणे दृश्यते चिद्दिवाकरः । ततस् तत्परिणामेन तत् पदं समवाप्यते
यथा ध्वान्तसमुच्छेदे स्वयम् आलोकवेदनम् । तथाहङ्कारविच्छेदे स्वयम् आत्मावलोकनम्
अहङ्कारसमुच्छेदे यावस्था सुसमोदया । सा परा भरिताकारा सा सर्वव्यापिनी चितिः
परिपूर्णार्णवप्रख्या न वाग्गोचरम् एति नः । नोपमानम् उपादत्ते नानुधावति रञ्जनम्
केवलं चित्प्रकाशांशकलिता स्थिरतां गता । तुर्या चेत् प्राप्यते दृष्टिस् तत् तया सोपमीयते