विरक्तजायामरणे यथा दुःखी न मानवः । परिज्ञाताखिलाविद्यं तथा चित्तं न दुःखदम्
परिज्ञातमनोमोहो जगद्भानोद्भवात्मना । स्पृश्यते नैनसा साधू रजसेव नभस्तलम्
अविद्यासम्परिज्ञानमात्रम् एव महौषधम् । अविद्याविततव्याधेस् तिमिरस्येव दीपकः
अविद्या सम्परिज्ञाता यदैव हि तदैव हि । सा परिक्षीयते भूयस् स्वदते च न भोगभूः
व्यवहारपरो ऽप्य् अन्तर् असक्तमतिर् एकधीः । स्पृश्यते नैनसा साधुर् मत्स्येक्षणम् इवाम्भसा
प्राप्ते चिद्भास्करालोके प्रक्षीणाज्ञानयामिनी । चित्तभूः परमानन्दम् आगता ज्ञस्य राजते
अज्ञाननिद्रोपशमे जनो ज्ञानार्कबोधितः । तं प्रबोधम् अवाप्नोति पुनर् येन न मुह्यति
दिनानि जीव्यते तानि सानन्दास् ते क्रियाक्रमाः । आत्मचिन्तोदिता येषु चिज्ज्योत्स्ना हृदयाम्बरे
नरो मोहसमुत्तीर्णस् सततस्वात्मचिन्तया । अन्तश्शीतलताम् एति स्वामृतेनेव चन्द्रमाः
तानि मित्राणि शास्त्राणि तानि तानि दिनानि च । विरागोल्लासवान् यैस् स्याद् आत्मचिन्तोदयस् स्फुटम्
चिरं शोचन्ति ते दीना जन्मजङ्गलवीरुधः । आत्मावलोकने हेला येषाम् अधिगतैनसाम्
आशापाशशतैर् बद्धं भोगोलपसुलालसम् । जराजर्जरिताकारं शोकोच्छ्वासकदर्थितम्
व्यूढदुःखमहाभारं जन्मजङ्गलजीविनम् । कुकर्मकर्दमालिप्तं मोहपल्वलशायिनम्
रोगदंशावलीदष्टं कृष्टं तृष्णावरत्रया । मनोवाजिनकोत्तब्धं बन्धुबन्धननिश्चलम्
पुत्रदारदरीजीर्णं मग्नोन्मग्नं कुकर्दमे । श्रान्तं विगतविश्रामं भग्नम् आदीर्घवर्त्मनि
गमागमपरिक्षीणं संसारारण्यचारिणम् । अलब्धशीतलच्छायं तीव्रतापोपतापितम्
आकारभासुरं दीनं वाहैर् आक्रान्तम् इन्द्रियैः । कर्मकर्णीरथाक्रान्तं तान्तं दुष्कृतताडनैः
आविर्भावतिरोभावचक्रावर्तदुरुद्वहम् । अज्ञानविकटाटव्यां लुठन्तं भग्नगात्रकम्
निजानर्थस्खदामग्नं सीदमानम् अकिञ्चनम् । सन्नाङ्गं कर्मभारेण करुणाक्रन्दकारिणम्
राम जीवबलीवर्दम् इमं संसारपल्वलात् । परमं यत्नम् आस्थाय चिरम् उत्तारयेद् बलात्
तत्त्वावलोकनात् क्षीणे चित्ते नो जायते पुनः । जीवः कदाचन तदा भवेत् तीर्णभवार्णवः
महानुभावसम्पर्कात् संसारार्णवलङ्घने । युक्तिस् सम्प्राप्यते राम दृढा नौर् इव नाविकात्
यस्मिन् देशमरौ राम नास्ति सज्जनपादपः । सफलश् शीतलच्छायो न तत्र निवसेद् बुधः
स्निग्धशीतवचःपत्त्रे सच्छाये स्मितपुष्पिते । क्षणाद् विश्रम्यते राम भृशं सुजनषण्डके
तदभावे महामोहदाहसन्ततिदायिनि । किञ्चिज्जातविवेकेन स्वप्तव्यं नेह धीमता
आत्मैव ह्य् आत्मनो बन्धुर् आत्मनात्मानम् उद्धरेत् । नात्मानम् अवलेपेन जन्मपङ्कार्णवे क्षिपेत्
किम् इदं कथम् आयातं किम्मूलं किमपक्षयम् । देहदुःखम् इति प्राज्ञैः प्रेक्षणीयं प्रयत्नतः
न धनानि न मित्राणि न शास्त्राणि न बन्धवः । नराणाम् उपकुर्वन्ति मग्नस्वात्मसमुद्धृतौ
मनोमात्रेण सुहृदा सदैव सहवासिना । सह किञ्चित् परामृश्य भवत्य् आत्मा समुद्धृतः
वैराग्याभ्यासयत्नाभ्यां स्वपरामर्शजन्मना । तत्त्वालोकेन पोतेन तीर्यते भवसागरः