तज्जयाय यतन्ते ये न लाभलवलम्पटाः । ते मूढाः प्राकृता दीनास् स्थिता दैवपरायणाः
पौरुषेण कृतं कर्म दैवाद् यद् अभिनश्यति । तत्र नाशयितुर् ज्ञेयं पौरुषं बलवत्तरम्
यद् एकवृन्तफलयोर् अप्य् एकं शून्यकोटरम् । तत्र प्रयत्नस् स्फुरितस् तथा तद्रससंविदः
यत् प्रयान्ति जगद्भावास् संसिद्धा अपि सङ्क्षयम् । क्षयकारकयत्नस्य तत्र ज्ञेयं महद् बलम्
भिक्षुको मङ्गलेभेन नृपो यत् क्रियते बलात् । तद् अमात्येभपौराणां प्रयत्नस्य महत् फलम्
पौरुषेणान्नम् आक्रम्य यथा दन्तैर् विचूर्ण्यते । अल्पं पौरुषम् आक्रम्य तथा शूरेण चूर्ण्यते
अनुभूतं हि महतां लाघवं यत्नशालिनाम् । यथेष्टं विनियुज्यन्ते ते तैः कर्मसु लोष्टवत्
शक्तस्य पौरुषं दृश्यम् अदृश्यं वापि यद् भवेत् । तद् दैवम् इत्य् अशक्तेन बुद्धम् आत्मन्य् अबुद्धिना
भूतानां बलवद्भूतयत्नो दैवम् इति स्थितम् । तस्थुषाम् अप्य् अधिष्ठातृवताम् एतत् स्फुटं मिथः
शास्त्रामात्येभपौराणाम् अविकल्प्या स्वभावधीः । सा या भिक्षुकराज्यस्य कर्त्री धर्त्री प्रजास्थितेः
ऐहिकः प्राक्तनं हन्ति प्राक्तनो ऽद्यतनं बलात् । सर्वदा पुरुषस्पन्दस् तत्रानुद्वेगवाञ् जयी
द्वयोर् अद्यतनस्यैव प्रत्यक्षाद् बलिता भवेत् । दैवं जेतुम् अतो यत्नैर् बालो यूनेव शक्यते
मेघेन नीयते यद् वा वत्सरोपार्जिता कृषिः । मेघस्य पुरुषार्थो ऽसौ जयत्य् अधिकयत्नवान्
क्रमेणोपार्जिते ऽप्य् अर्थे नष्टे कार्या न खेदिता । न बलं यत्र मे शक्तं तत्र का परिदेवना
यन् न शक्नोमि तस्यार्थे यदि दुःखं करोम्य् अहम् । तद् अमानितमृत्योर् मे युक्तं प्रत्यहरोदनम्
देशकालक्रियाद्रव्यवशतो विस्फुरन्त्य् अमी । सर्व एव जगद्भावा जयत्य् अधिकयत्नवान्
तस्मात् पौरुषम् आश्रित्य सच्छास्त्रैस् सत्समागमैः । प्रज्ञाम् अमलतां नीत्वा संसाराम्बुनिधिं तर
प्राक्तनश् चैहिकश् चेमौ पुरुषार्थौ फलद्रुमौ । ऐहिकः पुरुषार्थश् च जयत्य् अभ्यधिकस् तयोः
कर्म यः प्राक्तनं तुच्छं न निहन्ति शुभेहितैः । अज्ञो जन्तुर् अनीशो ऽसौ वाङ्मनस्सुखदुःखयोः
यस् तूदारचमत्कारस् सदाचारविहारवान् । स निर्याति जगन्मोहान् मृगेन्द्रः पञ्जराद् इव
कश्चिन् मां प्रेरयत्य् एवम् इत्य् अनर्थकुकल्पने । यस् स्थितो दृष्टम् उत्सृज्य त्याज्यो ऽसौ दूरतो ऽधमः
व्यवहारसहस्राणि यान्य् उपायान्ति यान्ति च । यथाशास्त्रं विहर्तव्यं तेषु त्यक्त्वा सुखासुखे
यथाशास्त्रम् अनुच्छिन्नां मर्यादां स्वाम् अनुज्झतः । उपतिष्ठन्ति सर्वाणि रत्नान्य् अम्बुनिधेर् इव
स्वार्थप्रापककार्यैकप्रयत्नपरता बुधैः । प्रोक्ता पौरुषशब्देन सा सिद्ध्यै शास्त्रयन्त्रिता
क्रियायास् स्पन्दधर्मिण्यास् स्वार्थसाधकता स्वयम् । साधुसङ्गमसच्छास्त्रतीक्ष्णयाभ्यूह्यते धिया
अनन्तं समतानन्दं परमार्थं विदुर् बुधाः । स येभ्यः प्राप्यते ऽत्यन्तं ते सेव्याश् शास्त्रसाधवः
प्राक्तनं पौरुषं तच् चेद् दैवशब्देन कथ्यते । तद् युक्तम् एतद् एतस्मिन् नाम्नि नापवदामहे
मूढैः प्रकल्पितं दैवम् अन्यद् यैस् ते क्षयं गताः । नित्यं स्वपौरुषाद् एव लोकद्वयहितं भवेत्
ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा । अद्यैवं प्राक्तनी तस्माद् यत्नात् सत्कार्यवान् भव
करामलकवद् दृष्टं पौरुषाद् एव यत् फलम् । मूढः प्रत्यक्षम् उत्सृज्य दैवमोहे निमज्जति