भेदः केन समाधेर् मे जन्यते कथम् एव वा । आत्मनो व्यतिरिक्तेन नित्यम् एवासदात्मना
तस्मात् कदाचिद् अपि मे न समाधिमयं मनः । न चासमाहितं नित्यम् आत्मतत्त्वैकसम्भवात्
सर्वगस् सर्वदैवात्मा सर्वम् एव च सर्वथा । असमाधिर् हि को ऽसौ स्यात् समाधिर् अपि कस् स्मृतः
नित्यं समाहितधियस् सुशमा महान्तस् तिष्ठन्ति कार्यपरिणामविभागमुक्ताः । तेनासमाहितसमाहितभेदभङ्ग्या मिथ्योदितं न तु मदुत्तमवाक्प्रपञ्चः
राजन् नूनं प्रबुद्धो ऽसि प्राप्तवान् असि तत् पदम् । संशीतलान्तःकरणः पूर्णेन्दुर् इव राजसे
आनन्दमधुसम्पूर्णो लक्ष्म्या च परया श्रितः । शीतलस्निग्धमधुरो राजीवम् इव राजसे
निर्मलो विततः पूर्णो गम्भीरः प्रकटाशयः । वेलानिलबलोल्लासमुक्तो ऽब्धिर् इव राजसे
स्वच्छस् स्वानन्दसम्पूर्णो गताहङ्कारवारिदः । स्फुटं विस्तीर्णगम्भीरश् शरत्खम् इव राजसे
सर्वत्र लक्ष्यसे स्वस्थस् सर्वत्र परितुष्यसि । सर्वत्र वीतरागो ऽसि राजन् सर्वत्र राजसे
सारासारपरिच्छेदपारगस् त्वं महाधिया । जानासि सर्वम् एवेदं यथास्थितम् अखण्डितम्
भावाभावपरिच्छेदतत्त्वज्ञ मुदिताशय । समासमदशालौल्यमुक्तं तव वपुस् स्थितम्
वस्तुनावस्तुनैवान्तर् अमृतेनेव सागरः । अपुनःप्रक्षयायैव परितृप्तो ऽसि सुन्दर
न तद् अस्ति मुने वस्तु यत्रोपादेयतास्ति नः । यावत् किञ्चिद् इदं दृश्यं तावद् एव न किञ्चन
उपादेयस्य चाभावाद् धेयम् अप्य् अस्ति किं किल । प्रतियोगिव्यवच्छेदं विना हेयं किम् उच्यते
तुच्छत्वात् सर्वभावानाम् अतुच्छत्वाच् च कालतः । चिरं मम परिक्षीणे तुच्छातुच्छमनस्स्थिती
देशकालवशाद् दृष्ट्वा तुच्छस्यातुच्छताम् इह । अतुच्छस्य तु तुच्छत्वं वर्ज्ये निन्दास्तुती बुधैः
रागान् निन्दास्तुती लोके रागश् च परिवाञ्छनात् । वाञ्छ्यते च महोदारं वस्तु शोभनबुद्धिना
त्रिलोक्यां च स्त्रियश् शैलास् समुद्रा वनराजयः । भूतानि च सुशून्यानि सारो नास्त्य् उत्तमस् ततः
मांसार्बुदाभमृद्वर्तिमये जगति जर्जरे । वाञ्छनीयविहीने ऽस्मिञ् शून्ये किम् इव वाञ्छ्यते
वाञ्छायां विनिवृत्तायां सङ्क्षयो द्वेषरागयोः । दिनलक्ष्म्यां व्यतीतायाम् आलोकातपयोर् इव
अलम् अतिविततैर् वचःप्रपञ्चैर् इयम् उचितेह सुखाय दृष्टिर् एका । समुपशमितवासनं मनो ऽन्तर् यदि मुदितं हि तद् उत्तमा प्रतिष्ठा
सुरघुः परिघश् चैव विचार्येति जगद्भ्रमम् । मिथः प्रपूजितौ तुष्टौ स्वव्यापारपरौ गतौ
तद् एव राघव श्रुत्वा परमं बोधकारणम् । अनेनैव विबोधेन भव लब्धास्पदस् स्फुटम्
परया प्रज्ञया धीर विचारातततैक्ष्ण्यया । गलत्य् अलम् अहङ्कारकालमेघे हृदम्बरे
समस्तलोकानुमते सफले ह्लादकारिणि । निर्मले वितते चेतश्शरत्काल उपस्थिते
ध्येये शरण्ये सुसमे सकलानन्दसम्पदि । सुप्रशस्ते चिदाकाशे स्थीयते परमात्मनि
यो नित्यम् अध्यात्ममयो नित्यम् अन्तर्मुखस् सुखी । नित्यं चिदनुसन्धानस् स न शोकेन बाध्यते
व्यवहारपरो ऽप्य् उच्चै रागद्वेषमयो ऽपि सन् । नान्तः कलङ्कम् आदत्ते पद्मो जललवं यथा
सम्यग्विज्ञानवान् बुद्ध्वा यो ऽन्तश् शान्तमना मुनिः । न बाध्यते स मनसा करिणेव मृगाधिपः
भोगैकशरणं दीनं न चित्तं ज्ञस्य विद्यते । नन्दने दुर्द्रुम इव ज्ञचित्तं हिमवद्वपुः