अहो बत चिरं कालम् आवां विश्लेषम् आगतौ । कालेन श्लेषितौ भूयो वसन्ताद्रितटाव् इव
न ता जगति विद्यन्ते सुखदुःखदशास् सखे । जीवद्भिर् या न दृश्यन्ते संयोगजवियोगजाः
तथैतास्व् अतिदीर्घासु दशास्व् अन्यत्वम् आगताः । भूयो वयम् अपि श्लिष्टाश् चित्रा हि नियतिर् विधेः
भगवन् नियतेर् अस्या गतिं दीपगतेर् इव । दैविक्याः को हि जानाति गम्भीरां विस्मयप्रदाम्
त्वम् अहं च वियोज्यातिदूरे दूरदशासु च । अद्य सङ्घटितौ भूयः किम् असाध्यम् अहो विधेः
वयं त्व् अद्य महासत्त्व भृशं कुशलिनस् स्थिताः । त्वदागमनपुण्येन परां पावनतां गताः
ईषत् त्वदागमक्षीणपापानां पुण्यपादपैः । तथा फलितम् अस्माकं न यथा वयम् आकुलाः
सर्वास् सम्पत्तयो ऽस्माकं राजर्षे संस्थिताः पुरे । भवदागमनेनाद्य प्रयाताश् शतशाखताम्
विकिरति परितो रसायनानाम् इव निकरं मधुरं महानुभाव । तव वचनम् अवेक्षणं च पुण्यं परमपदप्रतिमो हि साधुसङ्गः
अथैवम्प्रायया तत्र विश्रम्भकथया चिरम् । प्राक्तनस्नेहगर्भिण्या स्थित्वोवाचायुधाभिधः
यद् यत् संसारजाले ऽस्मिन् क्रियते कर्म भूमिप । तत् समाहितचित्तस्य सुखायान्यस्य नानघ
कच्चित् सङ्कल्परहितं परं विश्रमणास्पदम् । परमोपशमश्रेयस् समाधिम् अनुतिष्ठसि
एतन् मे ब्रूहि भगवन् सर्वसङ्कल्पवर्जितम् । परमोपशमश्रेयस् समाधिर् हि किम् उच्यते
यो ज्ञो महात्मन् सततं तूष्णीं व्यवहरंश् च वा । असमाहितचित्तो ऽसौ कदा भवति कः किल
नित्यप्रबुद्धचित्तास् तु कुर्वन्तो ऽपि जगत्क्रियाः । आत्मैकतत्त्वतन्निष्ठास् सदैव सुसमाधयः
बद्धपद्मासनस्यापि कृतब्रह्माञ्जलेर् अपि । अविश्रान्तस्वभावस्य कस् समाधिः कथं च वा
तत्त्वावबोधो भगवन् सर्वाशातृणपावकः । प्रोक्तस् समाधिभेदेन न तु तूष्णीम् अवस्थितिः
समाहिता नित्यतृप्ता यथाभूतार्थदर्शिनी । साधो समाधिशब्देन परा प्रज्ञोच्यते बुधैः
अक्षुब्धा निरहङ्कारा द्वन्द्वेष्व् अनभिपातिनी । प्रोक्ता समाधिशब्देन मेरोस् स्थिरतरा स्थितिः
निश्चिन्ता विगताभीष्टा हेयोपादेयवर्जिता । प्रोक्ता समाधिशब्देन परिपूर्णा मनोगतिः
यतः प्रभृति बोधेन युक्तम् आत्यन्तिकं मनः । तद् आरभ्य समाधानम् अव्युच्छिन्नं महात्मनः
न हि प्रबुद्धमनसो भूत्वा विच्छिद्यते पुनः । समाधिर् दूरम् आकृष्टो बिसतन्तुश् शिशोर् इव
समग्रं दिनम् आलोकाद् विरमत्य् अक्षि नो यथा । आजीवितान्तं मे प्रज्ञा तथा तत्त्वावलोकनात्
अजस्रम् अम्बु वहनाद् यथा नद्या न रुध्यते । तथा विज्ञानदृग् बोधात् क्षणमात्रं न रुध्यते
न विस्मरत्य् अविरतं यथा कालकला गतिम् । न विस्मरत्य् अविरतं स्वात्मानं प्राज्ञधीस् तथा
न विस्मरति सर्वत्र यथा सततगो गतिम् । न विस्मरति निश्चेत्यं चिन्मात्रं प्राज्ञधीस् तथा
गतिं कालकला यद्वच् चिन्वाना समवस्थिता । चिच् चिरं चेत्यरहितं चिन्वानाङ्गं तथा स्थिता
यथा सत्ताविहीनात्मा पदार्थो नोपलभ्यते । तथात्मज्ञानहीनात्मा कालो ज्ञस्य न लभ्यते
न सम्भवति संसारे गुणहीनो गुणी यथा । न सम्भवत्य् आत्मसंविद्वर्जितो ह्य् आत्मवांस् तथा
सर्वदैवास्मि सम्बुद्धस् सर्वदैवास्मि निर्मलः । सर्वदैवास्मि शान्तात्मा सर्वदास्मि समाहितः