कदाचित् परिघस्याभूद् अकाण्डं मण्डले महत् । कल्पान्त इव संसारे प्रजादुष्कृतदोषजम्
विनेशुर् जनतास् तत्र बह्व्यः क्षुत्क्षतजीविताः । ज्वलिते विपिने वह्नौ यथा भूतपरम्पराः
तद्दुःखं परिघो दृष्ट्वा विषादम् अतुलं ययौ । तत्याज चाखिलं राज्यं दग्धं ग्रामम् इवाध्वगः
प्रजानाशप्रतीकारेष्व् असमर्थो विरागवान् । जगाम विपिनं कर्तुं तपो जिनमुनीन्द्रवत्
पौराणाम् अपरिज्ञातः कस्मिंश्चिद् दूरकानने । स उवास विरक्तात्मा लोकान्तर इवापरे
तपश् चरञ् शान्तमतिर् दान्तः कन्दरमन्दिरः । स्वयं शीर्णानि शुष्काणि तत्र पर्णान्य् अभक्षयत्
चिरं हुताशवच् छुष्कपर्णान्य् एवाथ भक्षयन् । पर्णाद इति नामासौ प्राप मध्ये तपस्विनाम्
ततः प्रभृति पर्णादनामा राजर्षिसत्तमः । जम्बुद्वीपे बभूवासौ विख्यातो मुनिसद्मसु
ततो वर्षसहस्रेण तपसा दारुणात्मना । प्रापद् अभ्यासवशतो ज्ञानम् आत्मप्रसादजम्
बभूव विगतद्वन्द्वो नीरागस् समदर्शनः । निरीहो निरनुक्रोशो जीवन्मुक्तः प्रबुद्धधीः
विजहार यथाकामं त्रिलोकीमठिकाम् इमाम् । सिद्धसाध्यैस् समं साधो सहंसो ऽलिर् इवाब्जिनीम्
एकदा तस्य सदनं हेमचूडमहीपतेः । प्राप रत्नविनिर्माणं मेरोश् शृङ्गम् इवापरम्
ते तत्र प्राक्तने मित्रे पूजाम् अकुरुतां मिथः । पूर्णां विज्ञातविज्ञेयौ मौर्ख्यगर्ताद् विनिर्गते
अहो नु मम कल्याणैः फलितं बत पावनैः । सम्प्राप्तवान् अहं यत् त्वाम् इत्य् अन्योऽन्यम् अथोचतुः
आलिङ्गितशरीरौ ताव् अन्योऽन्यानिन्दिताकृती । एकासने विविशतुश् चन्द्रार्काव् इव भूधरे
परमानन्दम् आयातं चेतस् त्वद्दर्शनेन मे । चन्द्रबिम्ब इवोन्मग्नम् अन्तश्शीतलतां गतम्
अकृत्रिमं सुहृत्प्रेम वियोगे शतशाखताम् । प्रयाति पल्वलतटे छिन्नरूढ इव द्रुमः
विस्रब्धांस् तान् कथालापांस् ता लीलास् तच् च चेष्टितम् । संस्मृत्य प्राक्तनं साधो हृष्याम्य् एव पुनः पुनः
ज्ञानम् एतन् मया प्राप्तं त्वया ज्ञानं यथानघ । माण्डव्यस्य प्रसादेन परमात्मप्रसादजम्
अद्य कच्चिद् अदुःखस् त्वं कच्चिद् विश्रान्तवान् असि । परमे कारणे मेराव् इव भूमण्डलाधिप
कच्चित् परमकल्याण स्वात्मारामतया तव । प्रसादो जायते चित्ते शरदीव सरोऽम्भसि
कच्चित् करोषि समया सुप्रसन्नगभीरया । दृष्ट्या सुभग कार्याणि कार्याण्य् एव नराधिप
निराधिव्याधयो धीराः कच्चित् सम्पन्नशालयः । जनतास् तव देशेषु तिष्ठन्ति विगतज्वरम्
कच्चिद् उद्दामफलिनी फलिनीव लतानता । धरा तव फलापूरैर् भृशं धारयति प्रजाः
कच्चित् तव दिगन्तेषु चन्द्रस्येवांशुपञ्जरम् । तुषारनिकराकारं प्रसृतं पावनं यशः
कच्चिद् गुणशतैर् एता दिशो निर्विवरीकृताः । त्वया सरोऽम्भसा बन्धो बिसानाम् इव भित्तयः
कच्चित् कलमकेदारकोणस्थाणुषु हर्षुलाः । प्रतिग्रामं कुमार्यस् ते गायन्त्य् आनन्ददं यशः
कुशलं तव धान्येषु धनेषु विभवेषु च । भृत्येष्व् अथ कलत्रेषु पुत्रेषु नगरेषु च
आधिव्याधिविहीनेयं कच्चित् कायलता तव । फलं फलति पुण्याख्यं यद् इहामुत्र चोदितम्
आपातरमणीयेषु पर्यन्तात्यन्तवैरिषु । कच्चिद् विषयसर्पेषु सविरागं मनस् तव