आ बाल्याच् चैवम् अभ्यस्तैश् शास्त्रसत्सङ्गमादिभिः । गुणैः पुरुषयत्नेन स्वो ऽर्थस् सम्प्राप्यते हि तैः
इति प्रत्यक्षतो दृष्टम् अनुभूतं श्रुतं कृतम् । दैवोत्थम् इति मन्यन्ते ये हतास् ते कुबुद्धयः
आलस्यं यदि न भवेज् जगत्य् अनर्थः को न स्याद् बहुधनिको बहुश्रुतो वा । आलस्याद् इयम् अवनिस् ससागरान्ता सम्पूर्णा नरपशुभिश् च निर्धनैश् च
बाल्ये गते ऽविरतकल्पितकेलिलोले पौगण्डमण्डनवयःप्रभृति प्रयत्नात् । सत्सङ्गमैः पदपदार्थविबुद्धबुद्धिः कुर्यान् नरस् स्वगुणदोषविचारणानि
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम
तस्मात् प्राक्पौरुषं दैवं नान्यत् तत् प्रोज्झ्य दूरतः । साधुसङ्गमसच्छास्त्रैर् जीवम् उत्तारयेद् बलात्
यथा यथा प्रयत्नस् स्याद् भवेद् आशु फलं तथा । इति पौरुषम् एवास्ति दैवम् अस्तु तद् एव वः
दुःखाद् यथा दुःखकाले हा कष्टम् इति कथ्यते । हाकष्टशब्दपर्यायस् तथा हा दैवम् इत्य् अपि
प्राक्स्वकर्मेतराकारं दैवं नाम न विद्यते । बालः प्रबलपुंसेव तज् जेतुम् इह शक्यते
ह्यस्तनो दुष्ट आचार आचारेणाद्य चारुणा । यथाशु शुभतां याति प्राक्तनं कुकृतं तथा
तज्जयाय यतन्ते ये न लाभलवलम्पटाः । ते मूढाः प्राकृता दीनास् स्थिता दैवपरायणाः
पौरुषेण कृतं कर्म दैवाद् यद् अभिनश्यति । तत्र नाशयितुर् ज्ञेयं पौरुषं बलवत्तरम्
यद् एकवृन्तफलयोर् अप्य् एकं शून्यकोटरम् । तत्र प्रयत्नस् स्फुरितस् तथा तद्रससंविदः
यत् प्रयान्ति जगद्भावास् संसिद्धा अपि सङ्क्षयम् । क्षयकारकयत्नस्य तत्र ज्ञेयं महद् बलम्
भिक्षुको मङ्गलेभेन नृपो यत् क्रियते बलात् । तद् अमात्येभपौराणां प्रयत्नस्य महत् फलम्
पौरुषेणान्नम् आक्रम्य यथा दन्तैर् विचूर्ण्यते । अल्पं पौरुषम् आक्रम्य तथा शूरेण चूर्ण्यते
अनुभूतं हि महतां लाघवं यत्नशालिनाम् । यथेष्टं विनियुज्यन्ते ते तैः कर्मसु लोष्टवत्
शक्तस्य पौरुषं दृश्यम् अदृश्यं वापि यद् भवेत् । तद् दैवम् इत्य् अशक्तेन बुद्धम् आत्मन्य् अबुद्धिना
भूतानां बलवद्भूतयत्नो दैवम् इति स्थितम् । तस्थुषाम् अप्य् अधिष्ठातृवताम् एतत् स्फुटं मिथः
शास्त्रामात्येभपौराणाम् अविकल्प्या स्वभावधीः । सा या भिक्षुकराज्यस्य कर्त्री धर्त्री प्रजास्थितेः
ऐहिकः प्राक्तनं हन्ति प्राक्तनो ऽद्यतनं बलात् । सर्वदा पुरुषस्पन्दस् तत्रानुद्वेगवाञ् जयी
द्वयोर् अद्यतनस्यैव प्रत्यक्षाद् बलिता भवेत् । दैवं जेतुम् अतो यत्नैर् बालो यूनेव शक्यते
मेघेन नीयते यद् वा वत्सरोपार्जिता कृषिः । मेघस्य पुरुषार्थो ऽसौ जयत्य् अधिकयत्नवान्
क्रमेणोपार्जिते ऽप्य् अर्थे नष्टे कार्या न खेदिता । न बलं यत्र मे शक्तं तत्र का परिदेवना
यन् न शक्नोमि तस्यार्थे यदि दुःखं करोम्य् अहम् । तद् अमानितमृत्योर् मे युक्तं प्रत्यहरोदनम्
देशकालक्रियाद्रव्यवशतो विस्फुरन्त्य् अमी । सर्व एव जगद्भावा जयत्य् अधिकयत्नवान्
तस्मात् पौरुषम् आश्रित्य सच्छास्त्रैस् सत्समागमैः । प्रज्ञाम् अमलतां नीत्वा संसाराम्बुनिधिं तर
प्राक्तनश् चैहिकश् चेमौ पुरुषार्थौ फलद्रुमौ । ऐहिकः पुरुषार्थश् च जयत्य् अभ्यधिकस् तयोः
कर्म यः प्राक्तनं तुच्छं न निहन्ति शुभेहितैः । अज्ञो जन्तुर् अनीशो ऽसौ वाङ्मनस्सुखदुःखयोः
यस् तूदारचमत्कारस् सदाचारविहारवान् । स निर्याति जगन्मोहान् मृगेन्द्रः पञ्जराद् इव