कष्टं मुधैव मे चिन्ता निग्रहानुग्रहस्थितौ । बभूव देहनिष्ठैव न किञ्चिद् अपि देहकः
नन्व् अहो सम्प्रबुद्धो ऽस्मि गतं दुर्दर्शनं मम । दृष्टं द्रष्टव्यं अखिलं प्राप्तं प्राप्यम् इदं मया
सर्वं किञ्चित् इदं दृश्यं दृश्यते यज् जगद्गतम् । चिन्निष्ष्यन्दांशमात्रं तन् नान्यत् किञ्चन शाश्वतम्
क्व तौ कीदृग्विधौ वापि किंनिष्ठौ वा किमात्मकौ । निग्रहानुग्रहौ लोके हर्षामर्षक्रमौ तथा
किं सुखं किं च वा दुःखं सर्वं ब्रह्मेदम् आततम् । अहम् आसं मुधा मूढो दिष्ट्यामूढो ऽस्म्य् अहं स्थितः
किम् अस्मिन्न् एवम् आलोके शोच्यते किं विमुह्यते । किं प्रेक्ष्यते किम् क्रियते स्थीयते क्व क्व गम्यते
किञ्चित् इत्थम् इदं नाम चिदाभासं विराजते । नमो नमस् ते निस्तत्त्व दृष्टदृश्यो ऽसि सुन्दर
अहो नु सम्प्रबुद्धो ऽस्मि सम्यग् ज्ञातम् अलं मया । नमो मह्यम् अनन्ताय सम्यग्ज्ञानोदयाय च
विगतरञ्जननिर्विषयस्थितिर् गतभवभ्रम ईहितवर्जितः । स्थिरसुषुप्तकलातिगतस् ततस् समसमं निवसाम्य् अहम् आत्मनि
इति हेमजटाधीशो लेभे पदम् अनुत्तमम् । विवेकाध्यवसायेन ब्राह्मण्यम् इव गाधिजः
अनन्ताकारकार्यासु नासीच् चेष्टासु खेदवान् । भूयो भूयः प्रयुक्तासु दिनमालास्व् इवेश्वरः
ततः प्रभृति सो ऽतिष्ठत् सर्वेहाविगतज्वरम् । समासमे स्वके कार्ये जलौघो ऽग्र इवानते
हर्षामर्षविनिर्मुक्तः प्रकृतं कार्यम् आचरन् । उदारगम्भीरवपुर् जहाराम्बुनिधेश् श्रियम्
सुषुप्तसमधर्मिण्या चित्तवृत्त्या व्यराजत । निष्कम्पया प्रकाशिन्या दीपस् स्वशिखयेव सः
न निर्घृणो दयावान् नो न द्वन्द्वी नाप्य् अमत्सरः । न सुखी नासुखी नार्थी नानर्थी स बभूव ह
समदर्शनया नित्यं वृत्त्या चामलधीरया । अन्तश्शीतलया रेजे परिपूर्णेन्दुबिम्बवत्
सर्वं चित्तत्त्वकचनं जगद् इत्य् अवलोक्य सा । प्रशान्तसुखदुःखश्रीस् तस्य पूर्णा मतिर् बभौ
उल्लसन् विलसन् घूर्णंस् तिष्ठन् गच्छञ् श्वसन् स्वपन् । अभूत् स स्वसमाधिस्थः प्रबुद्धश् चिल्लयं गतः
स कुर्वन् विगतासङ्गं राज्यं राजीवलोचनः । अतिष्ठद् अक्षताकारो भूरिवर्षशतान्य् अथ
सन्निवेशम् इमं देहनामकं तदनु स्वयम् । स जहौ तेजसाक्रान्तो रूपं हिमकणो यथा
विवेश परम् आद्यं तत् कारणं कारणेश्वरम् । प्रज्ञया सरिता वारिपूरः पूर्णम् इवाम्बुधिम्
अधिगतविमलैकरूपतेजा गगनदशां समुपेत्य शान्तशोकः । अलम् अभवद् असौ परं स्वरूपं घटखम् इवाम्बरसंयुतं महात्मा
एतां दृष्टिम् अवष्टभ्य न मनः परितप्यते । घोरे तमसि निर्मग्नं लब्धदीपश् शिशुर् यथा
विवेकावस्थया चेतस् तन्व्यैवायाति निर्वृतिम् । पतञ् श्वभ्रे दृढतृणप्रचयालम्बनाद् इव
बुद्ध्वैतां पावनीं दृष्टिं भावयित्वाप्य् उदाहरन् । नित्यम् एकसमाधानो भव भूषितभूतलः
कथम् एकसमाधानं कीदृशं वा मुनीश्वर । वाताहतमयूराङ्गरुहलोलं मनो भवेत्
शृणु तस्यैव सुरघोः प्रबुद्धस्य सतस् तदा । पर्णादस्य च राजर्षेस् संवादम् इमम् अद्भुतम्
राघवैकसमाधानबोधितायोदितात्मनोः । परस्परसमालापम् इमं प्रकटयामि ते
बभूव पारसीकानां पार्थिवः परवीरहा । परिघो नाम विख्यातः परिघस् स्यन्दने यथा
स बभूव परं मित्रं सुरघो रघुनन्दन । नन्दनोद्यानसंस्थस्य मदनस्येव माधवः