सकलकारणकार्यपरम्परामयजगद्गतवस्तुविजृम्भितम् । अलम् अपास्य मनस् स्ववपुस् ततः परिविलूय च यच् छुभम् अस्ति तत्
इत्य् उक्त्वा भगवान् एनं सुरघुं रघुनन्दन । ययौ स्वाम् एव ककुभं माण्डव्यो मौनमण्डनः
गते वरमुनौ राजा गत्वैकान्तम् अनिन्दितम् । धिया सञ्चिन्तयाम् आस को नामाहम् इति स्वयम्
नाहं मेरुर् न मे मेरुर् जगन् नाहं न मे जगत् । नाहं शैला न मे शैला न धराहं न मे धरा
किरातमण्डलं नेदं मम नाहं च मण्डलम् । निजसङ्केतमात्रेण केवलं देश एष मे
त्यक्तो मयैष सङ्केतो नाहं देशो न चैष मे । इदानीं नगरं शिष्टम् एष एवात्र निश्चयः
पताकापुरपट्टाढ्या भृत्योपवनसङ्कुला । गजाश्वसामन्तयुता पुरी नाहं न मे पुरी
व्यर्थसङ्केतसम्बद्धं सङ्केतविगमे क्षतम् । भोगवृन्दं कलत्रं च नाहं नैतन् ममाखिलम्
एवं सभृत्यं सबलं सवाहनपुरान्तरम् । नाहं राज्यं न मे राज्यं सङ्केतो ह्य् अयम् आकुलः
देहमात्रम् अहं मन्ये हस्तपादादिसंयुतम् । तद् एतत् तावद् आश्व् अन्तर् अहम् आलोकयाम्य् अलम्
तद् अत्र तावन् मांसास्थि नाहम् एतद् अचेतनं । न चैतन् मम संश्लेषम् एत्य् अब्जस्य यथा जलम्
मांसं जडं न तद् अहं नैवाहं रक्तम् अप्य् अलम् । जडान्य् अस्थीनि नैवाहं न चैतानि मम क्वचित्
कर्मेन्द्रियाणि नैवाहं न च कर्मेन्द्रियाणि मे । जडं यत् किल देहे ऽस्मिंस् तद् अहं नैव चेतनः
नाहं भोगा न मे भोगा न मे बुद्धीन्द्रियाणि च । जडान्य् असत्स्वरूपाणि न च बुद्धीन्द्रियाण्य् अहम्
मूलं संसृतिदोषस्य मनो नाहं जडं हि तत् । अथ बुद्धिर् अहङ्कार इति दृष्टिर् मनोमयी
मनोबुद्धीन्द्रियाद्यन्तो भूतकोशश् च तद् वपुः । नाहम् एवं शरीरादि शिष्टम् आलोकयाम्य् अहम्
शेषस् तु चेतनाजीवस् स च चेत्येन चेतति । अन्येन बोध्यमानो ऽसौ नात्मतत्त्ववपुर् भवेत्
एवं त्यजामि संवेद्यं चेत्यं नाहं हि तत् किल । शेषो विकल्परहितो विशुद्धा चिद् अहं स्थितः
चित्रम् एषो ऽस्मि लब्धात्मा जातः कालेन कार्यवित् । एष सो ऽहम् अनन्तात्मा क्वान्तो ऽस्य परमात्मनः
ब्रह्मणीन्द्रे यमे वायौ सर्वभूतगणे तथा । स एष भगवान् आत्मा तन्तुर् मुक्तास्व् इव स्थितः
चिच्छक्तिर् अमला सैषा चेत्यामयविवर्जिता । भरिताशेषदिक्कुञ्जा भैरवाकारधारिणी
सर्वभावगता सूक्ष्मा भावाभावविवर्जिता । आब्रह्मभुवनान्तस्था सर्वशक्तिसमुद्गिका
सर्वसौन्दर्यसुभगा सर्वप्राकाश्यदीपिका । सर्वसंसारमुक्तानां तन्तुर् आततरूपिणी
सर्वाकारविकाराढ्या सर्वाकारविवर्जिता । सर्वभूतौघतां याता सर्वदा सर्वतां गता
चतुर्दशविधान्य् एषा भूतानि भुवनोदरे । एतन्मयीयं कलना जागती वेदनात्मिका
मिथ्यावभासमात्रं तु सर्वदुःखदशागतिः । नानाकारमयाभासं सर्वम् आत्मैव चित् परा
सेयम् आत्मा मम व्यापी सेयं मदवबोधनम् । सेयम् आकलिताङ्गेहा करोति नृपतिभ्रमम्
अस्या एव प्रसादेन मनो देहरथस्थितम् । संसारजाललीलासु याति वल्गति नृत्यति
इदं मनश् शरीरादि न किञ्चित् अपि वस्तुतः । नष्टे न किञ्चित् अप्य् अस्मिन् परिनश्यति पेलवे
जगज्जालमयं नृत्तम् इदं चित्तनटैस् ततम् । एतयैवैकया पङ्क्त्या दृश्यते दीपलेखया