तद् यथा समतोदेति सूर्यांशुर् इव सर्वगा । मतौ मम मुने मान्य तथा करुणया कुरु
स्वायत्तेन स्वसंस्थेन स्वेनोपायेन भूपते । एषा मनःपेलवता हिमवत् प्रविलीयते
स्वविचारणयैवाशु शाम्यत्य् अन्तर् मनोज्वरः । शरदागममात्रेण मिहिका महती यथा
स्वेनैव मनसा स्वानि स्वशरीरगतानि च । विचारयेन्द्रियाण्य् अन्तः कीदृशान्य् अथ कानि वा
को ऽहं कथम् इदं किं वा कथं मरणजन्मनी । विचारयान्तर् एतत् त्वं महत्ताम् अलम् एष्यसि
विचारेण परिज्ञातस्वभावस्य सतस् तव । हर्षामर्षदृशश् चेतस् तोलयिष्यन्ति नाचलम्
मनस् स्वं रूपम् उत्सृज्य शमम् एष्यति विज्वरम् । भूतपूर्ववपुर् भूत्वा तरङ्गः पयसीव ते
तिष्ठद् एव मनो रूपं परित्यक्ष्यति ते ऽनघ । कलङ्कविकलं काल ऋत्वन्तरगताव् इव
अनुकम्प्या भविष्यन्ति श्रीमन्तस् सर्व एव ते । दृष्टतत्त्वस्य तुष्टस्य जनाः पितुर् इवावनौ
विवेकदीपदृष्टात्मा मेर्वब्धिनभसाम् अपि । अधः करिष्यसि नृप महत्ताम् उत्तमार्थदाम्
महत्ताम् आगतं चेतस् तव संसारवृत्तिषु । न निमङ्क्ष्यति हे साधो गोष्पदेष्व् इव वारणः
कृपणं तु मनो राजन् पेलवे ऽपि निमज्जति । कार्ये गोष्पदतोये ऽपि जीर्णाङ्गो मषको यथा
चेतो वासनया पङ्के कीटवत् परिमज्जति । दृश्यमात्रावलम्बिन्या स्वया दीनतया तया
तावत् तावन् महाबाहो स्वयं सन्त्यज्यते ऽखिलम् । यावद् यावत् परालोकः परमात्मैव शिष्यते
तावत् प्रक्षाल्यते धातुर् यावद् धेमैव शिष्यते । तावद् आलोक्यते सर्वं यावद् आत्मैव लक्ष्यते
सर्वं सर्विकया बुद्ध्या स्वयं सर्वत्र सर्वदा । सर्वथा सम्परित्यज्य स्वात्मनात्मोपलभ्यते
यावत् सर्वं न सन्त्यक्तं तावद् आत्मा न लभ्यते । सर्ववस्तुपरित्यागे शेष आत्मेति कथ्यते
यावद् अन्यन् न सन्त्यक्तं तावत् सामान्यम् एव हि । वस्तु नासाद्यते साधो स्वात्मलाभे तु का कथा
यत्र सर्वात्मना स्वात्मलाभाय पतति स्वयम् । त्यक्तान्यकार्यः प्राप्नोति तन् नाम नृप नेतरत्
आत्मावलोकनार्थं तु तस्मात् सर्वं परित्यजेत् । सर्वं किञ्चित् परित्यज्य यच् छिष्टं तत् परं पदम्
सकलकारणकार्यपरम्परामयजगद्गतवस्तुविजृम्भितम् । अलम् अपास्य मनस् स्ववपुस् ततः परिविलूय च यच् छुभम् अस्ति तत्
इत्य् उक्त्वा भगवान् एनं सुरघुं रघुनन्दन । ययौ स्वाम् एव ककुभं माण्डव्यो मौनमण्डनः
गते वरमुनौ राजा गत्वैकान्तम् अनिन्दितम् । धिया सञ्चिन्तयाम् आस को नामाहम् इति स्वयम्
नाहं मेरुर् न मे मेरुर् जगन् नाहं न मे जगत् । नाहं शैला न मे शैला न धराहं न मे धरा
किरातमण्डलं नेदं मम नाहं च मण्डलम् । निजसङ्केतमात्रेण केवलं देश एष मे
त्यक्तो मयैष सङ्केतो नाहं देशो न चैष मे । इदानीं नगरं शिष्टम् एष एवात्र निश्चयः
पताकापुरपट्टाढ्या भृत्योपवनसङ्कुला । गजाश्वसामन्तयुता पुरी नाहं न मे पुरी
व्यर्थसङ्केतसम्बद्धं सङ्केतविगमे क्षतम् । भोगवृन्दं कलत्रं च नाहं नैतन् ममाखिलम्
एवं सभृत्यं सबलं सवाहनपुरान्तरम् । नाहं राज्यं न मे राज्यं सङ्केतो ह्य् अयम् आकुलः
देहमात्रम् अहं मन्ये हस्तपादादिसंयुतम् । तद् एतत् तावद् आश्व् अन्तर् अहम् आलोकयाम्य् अलम्