जीवस्य जीवितं ज्ञानं ज्ञतायां जीवजीवने । अणुर् अप्य् अस्ति नो भेदो विरूपत्वे ज्ञजीवयोः
यथा ज्ञजीवयोर् नास्ति भेदो राम तथैतयोः । भेदो ऽस्ति न ज्ञजगतोर् विद्धि शान्तम् अखण्डितम्
सर्वं प्रशान्तम् अजम् एकम् अनादिमध्यम् आभासनं स्वदनमात्रम् अचेत्यचिह्नम् । सर्वं प्रशान्तम् अति शब्दमयी तु दृष्टिर् बोधार्थम् एव हि मुधैव तद् ॐ इतीदम्
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् । किरातेशस्य सुरघोर् वृत्तान्तं विस्मयप्रदम्
उत्तरस्या दिशो मेदः कर्पूरपटलं भुवः । सम्भृतं हसनं शार्वं शुक्लो वा चान्द्र आतपः
हिमाद्रेश् शृङ्गम् अस्तीह कैलासो नाम पर्वतः । शैलजालस्य सन्मुक्ताकलापस्येव नायकः
विष्णोः क्षीरोदक इव स्वर्गस् सुरपतेर् इव । अब्जजस्येव नाभ्यब्जं गृहं यश् शशिमौलिनः
रुद्राक्षवृन्ददोलाभिस् साप्सरोभिर् विभाति यः । लोलरत्नशलाकाभिर् लहरीभिर् इवार्णवः
गणाङ्गनानाम् अनिशं मत्तानां चरणैर् हताः । अशोका इव राजन्ते यत्राशोका विकासिनः
सञ्चरच्छङ्करे दिक्षु भृगुष्व् इन्दुमणिद्रवैः । निवर्तन्ते प्रवर्तन्ते यत्राजस्रं च निर्झराः
यो लतागुल्मवृक्षौघवापीह्रदनदीनदैः । मृगपक्षिगणैर् भीतैर् ब्रह्माण्डवद् इहावृतः
तस्य हेमजटा नाम किरातास् संस्थितास् तले । पिपीलका वरतरोर् मूलकोशगता इव
कैलासपादारण्यान्यां जटालायां सुगुल्मकैः । वसन्ति यौकवत् क्षुद्रास् ते तन्निकटजीविनः
आसीत् तेषाम् उदारात्मा राजा परपुरञ्जयः । जयलक्ष्म्या भुज इव यः प्रजायाश् च दक्षिणः
सुरघुर् नाम बलवान् सुरघोरारिदर्पहा । मूर्तः पराक्रम इव मूर्तिमान् इव मारुतः
जिनो वैराग्यविभवैर् धनैर् गुह्यकनायकः । शतक्रतुगुरुर् बोधैः काव्यैर् असुरदैशिकः
स चक्रे राजकार्याणि निग्रहानुग्रहक्रमैः । यथाप्राप्तान्य् अखिन्नात्मा दिनानीव दिवाकरः
तज्जाभ्यां सुखदुःखाभ्याम् अथ तस्याभ्यभूयत । सुमतिर् वागुराबन्धैश् श्लिष्टैर् ग्रीवेव पक्षिणः
किम् आर्तं पीडयाम्य् एनं तिलयन्त्रम् इवौजसा । सर्वेषाम् एव भूतानां ममेवार्तिः प्रजायते
धनम् अस्मै प्रयच्छामि धनेनानन्दवाञ् जनः । भवत्य् अहम् इवाशेषस् तद् अलं मे विनिग्रहैः
अथ वा निग्रहं प्राप्तं करोम्य् एतेन वै विना । वर्तते न प्रजैवेयं विना वारि सरिद् यथा
हा कष्टम् एष निग्राह्यो दिष्ट्यानुग्राह्य एष मे । दिष्ट्याद्य सुखवान् अस्मि कष्टम् अद्यास्मि दुःखवान्
इति दोलायितं चेतो न विशश्राम भूपतेः । एकत्राम्बुमहावर्ते चिरं तृणम् इव भ्रमत्
अथैकदा गृहं तस्य माण्डव्यो मुनिर् आययौ । भ्रान्ताशेषककुप्कुञ्जो वासवस्येव नारदः
तम् असौ पूजयाम् आस पप्रच्छ च महामुनिम् । सन्देहदुर्द्रूमस्तम्भपरशुं सर्वकोविदम्
भवदागमनेनास्मि मुने निर्वृतिम् आगतः । परमां वसुधापीठं सम्प्राप्त इव माधवे
अद्य तिष्ठाम्य् अहं नाथ धन्यानां धुरि धर्मतः । विकासि रविणेवाब्जं यत् त्वयास्मि विलोकितः
भगवन् सर्वधर्मज्ञ चिरं विश्रान्तवान् असि । तद् इमं संशयं छिन्द्धि ममार्कस् तिमिरं यथा
महतां सङ्गमेनार्तिः कस्य नाम न नश्यति । सन्देहं तु पराम् आर्तिम् आहुर् आर्तिविदो जनाः
मन्निग्रहानुग्रहजा मद्भृत्यवपुषि स्थिताः । कषन्ति माम् अलं चिन्ता गजं हरिनखा इव