परमात्ममणेश् चित्त्वाद् यद् अन्तः कचनं स्वयम् । चेतनात्म तद् एवान्तर् अहम् इत्यादि वेत्त्य् असौ
न च किञ्चन वेत्त्य् अन्तर् वेद्यस्यासम्भवाद् इह । न चास्वादयति स्वादु स्वाद्यस्यासम्भवाद् अलम्
न च किञ्चिच् चिनोत्य् अन्तश् चेत्यस्यासम्भवे सति । वेद्यते न च वा किञ्चिद् वेद्यस्यासम्भवाद् असौ
असदाभास एवात्मा अनन्तो भरिताकृतिः । स्थितस् सदैवैकघनो महाशैल इवात्मनि
अनया तु वचोभङ्ग्या मया वो रघुनन्दन । नाहन्तादिजगत्तादिभेदो ऽस्तीति निदर्शितम्
न चित्तम् अस्ति नो चेत्ता न जगत्तादिविभ्रमः । दृषदीवाम्बरम् अतश् शान्तं शाम्यति केवलम्
यथावर्तादिताम् एति द्रवत्वाद् वारि वारिणि । तथाहन्तादिताम् एति ज्ञत्वाज् ज्ञप्तौ ज्ञ आत्मनि
यथा द्रवत्वं पयसि यथा स्पन्दस् सदागतौ । अहन्तादेशकालादि तथा ज्ञे ज्ञप्तिमात्रके
ज्ञो ज्ञतायां हि यज् ज्ञानं जानाति ज्ञानबृंहया । ज्ञायते तद् अहन्तादि जीवाद्य् अप्य् अभिजीवनैः
यथोदेति यदा ज्ञस्य ज्ञप्तिर् ज्ञानेन यादृशी । अनन्यैवान्यतां बुद्ध्वा सा तदा जृम्भते तथा
जीवस्य जीवितं ज्ञानं ज्ञतायां जीवजीवने । अणुर् अप्य् अस्ति नो भेदो विरूपत्वे ज्ञजीवयोः
यथा ज्ञजीवयोर् नास्ति भेदो राम तथैतयोः । भेदो ऽस्ति न ज्ञजगतोर् विद्धि शान्तम् अखण्डितम्
सर्वं प्रशान्तम् अजम् एकम् अनादिमध्यम् आभासनं स्वदनमात्रम् अचेत्यचिह्नम् । सर्वं प्रशान्तम् अति शब्दमयी तु दृष्टिर् बोधार्थम् एव हि मुधैव तद् ॐ इतीदम्
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् । किरातेशस्य सुरघोर् वृत्तान्तं विस्मयप्रदम्
उत्तरस्या दिशो मेदः कर्पूरपटलं भुवः । सम्भृतं हसनं शार्वं शुक्लो वा चान्द्र आतपः
हिमाद्रेश् शृङ्गम् अस्तीह कैलासो नाम पर्वतः । शैलजालस्य सन्मुक्ताकलापस्येव नायकः
विष्णोः क्षीरोदक इव स्वर्गस् सुरपतेर् इव । अब्जजस्येव नाभ्यब्जं गृहं यश् शशिमौलिनः
रुद्राक्षवृन्ददोलाभिस् साप्सरोभिर् विभाति यः । लोलरत्नशलाकाभिर् लहरीभिर् इवार्णवः
गणाङ्गनानाम् अनिशं मत्तानां चरणैर् हताः । अशोका इव राजन्ते यत्राशोका विकासिनः
सञ्चरच्छङ्करे दिक्षु भृगुष्व् इन्दुमणिद्रवैः । निवर्तन्ते प्रवर्तन्ते यत्राजस्रं च निर्झराः
यो लतागुल्मवृक्षौघवापीह्रदनदीनदैः । मृगपक्षिगणैर् भीतैर् ब्रह्माण्डवद् इहावृतः
तस्य हेमजटा नाम किरातास् संस्थितास् तले । पिपीलका वरतरोर् मूलकोशगता इव
कैलासपादारण्यान्यां जटालायां सुगुल्मकैः । वसन्ति यौकवत् क्षुद्रास् ते तन्निकटजीविनः
आसीत् तेषाम् उदारात्मा राजा परपुरञ्जयः । जयलक्ष्म्या भुज इव यः प्रजायाश् च दक्षिणः
सुरघुर् नाम बलवान् सुरघोरारिदर्पहा । मूर्तः पराक्रम इव मूर्तिमान् इव मारुतः
जिनो वैराग्यविभवैर् धनैर् गुह्यकनायकः । शतक्रतुगुरुर् बोधैः काव्यैर् असुरदैशिकः
स चक्रे राजकार्याणि निग्रहानुग्रहक्रमैः । यथाप्राप्तान्य् अखिन्नात्मा दिनानीव दिवाकरः
तज्जाभ्यां सुखदुःखाभ्याम् अथ तस्याभ्यभूयत । सुमतिर् वागुराबन्धैश् श्लिष्टैर् ग्रीवेव पक्षिणः
किम् आर्तं पीडयाम्य् एनं तिलयन्त्रम् इवौजसा । सर्वेषाम् एव भूतानां ममेवार्तिः प्रजायते
धनम् अस्मै प्रयच्छामि धनेनानन्दवाञ् जनः । भवत्य् अहम् इवाशेषस् तद् अलं मे विनिग्रहैः