आत्मवत् सर्वभूतानि परद्रव्याणि लोष्टवत् । स्वभावाद् एव न भयाद् यः पश्यति स पश्यति
अर्थो ऽतनुस् तनुर् वापि नासद्रूपेण चेत्यते । न सद्रूपेणानुभूतो ज्ञेनाज्ञेनेव तत्तया
ईदृशाशयसम्पन्नो महासत्त्वपदं गतः । तिष्ठतूदेतु वा यातु मृतिम् एतु निहन्तु वा
वसतूत्तमभोगाढ्ये स्वगृहे वा जनाकुले । सर्वभोगोज्झिताभोगे सुमहत्य् अथ वा वने
उद्दाममर्दलं पानतत्परो वापि नृत्यतु । सर्वसङ्गपरित्यागी शमम् आयातु वा गिरौ
चन्दनागुरुकर्पूरैर् वपुर् वा परिलिम्पतु । ज्वालाजटिलविस्तारे निपतत्व् अथ वानले
पापं करोतु सुमहद् बहलं पुण्यम् एव वा । अद्यैव मृतिम् आयातु कल्पान्तनिचयेन वा
नासौ किञ्चिन् न तत् किञ्चित् कृतं तेन महात्मना । नासौ कलङ्कम् आप्नोति हेम पङ्कगतं यथा
संवित्पुरुषशब्दार्थैस् सकलङ्कैः कलङ्क्यते । अहन्त्ववासनारूपैश् शुक्तिकारजतोपमैः
समस्तवस्तुप्रशमस् सम्यग्ज्ञानाद् यथास्थितेः । स एवास्योपशान्तो ऽन्तः कलङ्को ऽसत्तया यतः
अहन्त्ववासनानर्थः प्रसूते संविदात्मनः । पुरुषस्य विचित्राणि सुखदुःखानि जन्मभूः
रज्ज्वां सर्पभ्रमे शान्ते गेहिनो निर्वृतिर् यथा । अहन्त्वभावसंशान्तौ तथान्तस्समता मता
यत् करोति यद् अश्नाति यद् ददाति जुहोति वा । न तज् ज्ञस्य न तत्र ज्ञो मा करोतु करोतु वा
कर्मणास्ति न तस्यार्थो नार्थस् तस्यास्त्य् अकर्मणा । यथास्वभावं भगवान् स आत्मन्य् एव संस्थितः
इच्छास् ततस् समुद्यन्ति न मञ्जर्य इवोपलात् । याश् चोद्यन्ति च तास् सर्वास् स एवाम्ब्व् इव वीचयः
सकलम् इदम् असाव् असौ च सर्वं जगद् अखिलं न विभागितात्र काचित् । परमपुरुषपावनैकरूपी स सद् इति तत् सद् अकिञ्चिद् एव वासौ
यद् आत्ममरिचस्यान्तश् चित्त्वात् तीक्ष्णत्ववेदनम् । तद् अहन्त्वादि भेदादि देशकालादि वेत्त्य् अदः
यद् आत्मलवणस्यान्तश् चित्त्वाल् लावण्यवेदनम् । तद् अहन्त्वादिभेदादिदेशकालादिमत् स्थितम्
स्वतो यद् अन्तर् आत्मेक्षोश् चित्त्वान् माधुर्यवेदनम् । तद् अहन्त्वादि भेदादि जगत्तादीति जृम्भितम्
स्वतो यद् आत्मदृषदश् चित्त्वात् काठिन्यवेदनम् । तद् अहन्त्वादिभेदादिदेशकालादितां गतम्
स्वतो यद् आत्मशैलादिज्ञतया जाड्यवेदनम् । तद् अहन्त्वादि भेदादि भुवनादीति संस्थितम्
स्वतो यद् आत्मतोयस्य चिद्द्रवत्वाद् विवर्तनम् । तद् आवर्ताद्य् अहन्तादि भेदाद्य् आकारितादि च
स्वतो य आत्मवृक्षस्य शाखादिस् तस्य वेदनम् । तद् अहन्तादि भेदादि भुवनादीव संस्फुटम्
यद् आत्मगगनस्यान्तश् चित्त्वाच् छून्यत्ववेदनम् । तद् अहन्तादि भेदादि भावनादीति भावितम्
यद् आत्मगगनस्यान्तश् चित्त्वात् सौषिर्यवेदनम् । तद् अहन्तादि चित्तादि शरीरादीव दीपितम्
स्वतो यद् आत्मकुड्यस्य नैरन्तर्यं निरन्तरम् । तद् अहन्तादिभेदेन चित्त्वाद् बहिर् इव स्थितम्
स्वतो यद् आत्मसत्ताया वित्त्वात् सत्त्वैकवेदनम् । तद् अहन्त्वादि भेदादि चेतनादीति वा स्थितम्
अन्तर् आत्मप्रकाशस्य स्वतो यद् अवभासनम् । तद् अहन्त्वादि वित्त्वादि जीव इत्य् एव वेत्त्य् असौ
अन्तर् अस्ति यद् आत्मेन्दोश् चिद्रूपं चिद्रसायनम् । स्वत आस्वाद्यते तेन तद् अहन्तादिनोदितम्
परमात्मगुडस्यान्तर् यच् चित्स्वादूदयात्मकम् । तद् एवास्वाद्यते तेन स्वतो ऽहन्तादिनान्तरे