तनुवासनम् अप्य् उच्चैःपदायोद्यतम् उच्यते । अवासनं मनो ऽकर्तृपदं तस्माद् अवाप्यते
घनवासनम् एतत् तु चेतः कर्तृत्वभावनम् । सर्वदुःखप्रदं तस्माद् वासनास् तनुताम् नयेत्
प्रशान्तजगदास्थो ऽन्तर् वीतशोकभयैषणः । स्वस्थो भवति येनात्मा स समाधिर् इति स्मृतः
चेतसा सम्परित्यज्य सर्वभावान् सभावनान् । यथा तिष्ठसि तिष्ठ त्वं तथा शैले गृहे ऽथ वा
गृहम् एव गृहस्थानां सुसमाहितचेतसाम् । शान्ताहङ्कृतिदोषाणां विजना वनभूमयः
अरण्यसदने तुल्ये समाहितमनोदृशाम् । महताम् इह भूतानां भूतानां महताम् इव
शाम्यच्चित्तमहाभ्रस्य जनजालोज्ज्वलान्य् अपि । नगराण्य् एव शून्यानि वनान्य् अवनिपात्मज
वृत्तिमच्चित्तमत्तस्य निर्जनानि वनान्य् अपि । नगराणि महालोकपूर्णानि परवीरहन्
व्युत्थितं चित्तम् अभ्येति भ्रमे शान्ते सुषुप्तताम् । निर्वाणम् एति निर्वाणं यथेच्छसि तथा कुरु
सर्वभावपदातीतं सर्वभावात्मकं च वा । यः पश्यति सदात्मानं स समाहित उच्यते
सहात्मना सदैवेदं जगत् पश्यति नो मनः । यथा स्वप्ने तथैवास्मिञ् जाग्रत्य् अपि जनेश्वर
यथा विपिनगा लोका विहरन्तो ऽप्य् असत्समाः । असम्बन्धात् तथा ज्ञस्य ग्रामो ऽपि विपिनोपमः
अन्तर्मुखमना नित्यं सुप्तो बुद्धो व्रजन् पठन् । पुरं जनपदं ग्रामम् अरण्यम् इव पश्यति
सर्वम् आकाशताम् एति नित्यम् अन्तर्मुखस्थितेः । सर्वथानुपयोगित्वाद् भूताकुलम् इदं जगत्
अन्तश्शीतलतायां तु लब्धायां शीतलं जगत् । विज्वराणाम् इव नृणां भवत्य् आ जीवितस्थितेः
अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् । भवत्य् अखिलजन्तूनां यद् अन्तस् तद् बहिस् स्थितम्
द्यौः क्षमा वायुर् आकाशं पर्वतास् सरितो दिशः । अन्तःकरणतत्त्वस्य भागा बहिर् अवस्थिताः
वटधानावट इव अन्तर् अस्य यद् आत्मनः । तद् बहिर् भासते भास्वद् विकसत्पुष्पगन्धवत्
न बहिष्ट्वं न चान्तस्त्वं क्वचित् किञ्चन विद्यते । यद् यथा कचितं चित्त्वात् तत् तथा तथ्यम् उत्थितम्
आत्मतत्त्वोदरं भाति बहिष्ट्वेन जगत्तया । कर्पूरम् इव गन्धेन सङ्कोचि प्रविकासि च
आत्मेदं स्फुरति स्फारं जगत्त्वेनाप्य् अहन्तया । बाह्यत्वेनान्तरत्वेन स च नासन् न सद्विभुः
बहिष्ट्वेनाश्रितं बाह्यम् अन्तस्त्वेनान्तरं स्थितम् । यथाविदितम् आत्मायं स्वचित्त्वम् अनुपश्यति
सबाह्याभ्यन्तरं शान्तम् आत्मनो ऽभेदनं जगत् । अहन्तादौ स्थिते देहे भूरिभङ्गं भयं तु सत्
द्यौः क्षमा वायुर् आकाशं पर्वतास् सरितो दिशः । कल्पाग्निनेव ज्वलितं सर्वम् आधिहतात्मनः
यस् त्व् आत्मरतिर् एवान्तः कुर्वन् कर्मेन्द्रियैः क्रियाः । न वशो हर्षशोकाभ्यां स समाहित उच्यते
यस् सर्वगतम् आत्मानं पश्यन् समुपशान्तधीः । न शोचति ध्यायति वा स समाहित उच्यते
सपूर्वापरपर्यन्ता यः पश्यञ् जागतीर् गतीः । दृष्टिष्व् एतासु हसति स समाहित उच्यते
समे परे ऽस्ति नाहन्ता न जगज्जन्मनी मयि । वीचिवृन्देष्व् इवानप्त्वं न नाशे फेनधातवः
यस्यान्तर् अस्ति नाहन्त्वं न विभागादि नो मम । न चेतनाचेतनते सो ऽस्ति नास्तीतरो जनः
व्योमस्वच्छो भवन् स्वेहां सम्यग् आचरतीह यः । हर्षामर्षविकारेषु काष्ठलोष्टसमस् स सन्