दृश्यैर् मम न सम्बन्ध इति निश्चित्य शीतलः । कश्चित् संव्यवहारस्थः कश्चिद् ध्यानव्यवस्थितः
द्वाव् एतौ राम सुसमाव् अन्तश् चेत् परिशीतलौ । अन्तश्शीतलता या स्यात् तद् धनं तत् तपःफलम्
समाधिस्थानकस्थस्य चेतश् चेद् वृत्तिचञ्चलम् । तत् तस्य तत् समाधानं समम् उन्मत्तताण्डवैः
उन्मत्तताण्डवस्थस्य चेतश् चेत् क्षीणवासनम् । तद् अस्योन्मत्तनृत्तं तत् समं बुद्धसमाधिना
व्यवहारी प्रबुद्धो यः प्रबुद्धो यो वने स्थितः । द्वाव् एतौ पुरुषौ नूनम् असन्देहपदं गतौ
अकर्तृ कुर्वद् अप्य् एतच् चेतः प्रतनुवासनम् । दूरे गतमना जन्तुः कथासंश्रवणे यथा
अकुर्वद् अपि कर्त्र् एव चेतः प्रघनवासनम् । निस्स्पन्दाङ्गम् अपि स्वप्ने श्वभ्रपातस्थिताव् इव
चेतसो यद् अकर्तृत्वं तत् समाधानम् उत्तमम् । तं विद्धि केवलीभावं सा शुभा निर्वृतिः परा
चेतश्चलाचलत्वं हि परमं कारणं स्मृतेः । ध्यानाध्यानदृशोस् तेन तद् एवानङ्कुरं कुरु
अवासनं स्थिरं प्रोक्तं मनो ध्यानं तद् एव च । स एव केवलीभावश् शान्तं तत्रैव तत् सदा
तनुवासनम् अप्य् उच्चैःपदायोद्यतम् उच्यते । अवासनं मनो ऽकर्तृपदं तस्माद् अवाप्यते
घनवासनम् एतत् तु चेतः कर्तृत्वभावनम् । सर्वदुःखप्रदं तस्माद् वासनास् तनुताम् नयेत्
प्रशान्तजगदास्थो ऽन्तर् वीतशोकभयैषणः । स्वस्थो भवति येनात्मा स समाधिर् इति स्मृतः
चेतसा सम्परित्यज्य सर्वभावान् सभावनान् । यथा तिष्ठसि तिष्ठ त्वं तथा शैले गृहे ऽथ वा
गृहम् एव गृहस्थानां सुसमाहितचेतसाम् । शान्ताहङ्कृतिदोषाणां विजना वनभूमयः
अरण्यसदने तुल्ये समाहितमनोदृशाम् । महताम् इह भूतानां भूतानां महताम् इव
शाम्यच्चित्तमहाभ्रस्य जनजालोज्ज्वलान्य् अपि । नगराण्य् एव शून्यानि वनान्य् अवनिपात्मज
वृत्तिमच्चित्तमत्तस्य निर्जनानि वनान्य् अपि । नगराणि महालोकपूर्णानि परवीरहन्
व्युत्थितं चित्तम् अभ्येति भ्रमे शान्ते सुषुप्तताम् । निर्वाणम् एति निर्वाणं यथेच्छसि तथा कुरु
सर्वभावपदातीतं सर्वभावात्मकं च वा । यः पश्यति सदात्मानं स समाहित उच्यते
सहात्मना सदैवेदं जगत् पश्यति नो मनः । यथा स्वप्ने तथैवास्मिञ् जाग्रत्य् अपि जनेश्वर
यथा विपिनगा लोका विहरन्तो ऽप्य् असत्समाः । असम्बन्धात् तथा ज्ञस्य ग्रामो ऽपि विपिनोपमः
अन्तर्मुखमना नित्यं सुप्तो बुद्धो व्रजन् पठन् । पुरं जनपदं ग्रामम् अरण्यम् इव पश्यति
सर्वम् आकाशताम् एति नित्यम् अन्तर्मुखस्थितेः । सर्वथानुपयोगित्वाद् भूताकुलम् इदं जगत्
अन्तश्शीतलतायां तु लब्धायां शीतलं जगत् । विज्वराणाम् इव नृणां भवत्य् आ जीवितस्थितेः
अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् । भवत्य् अखिलजन्तूनां यद् अन्तस् तद् बहिस् स्थितम्
द्यौः क्षमा वायुर् आकाशं पर्वतास् सरितो दिशः । अन्तःकरणतत्त्वस्य भागा बहिर् अवस्थिताः
वटधानावट इव अन्तर् अस्य यद् आत्मनः । तद् बहिर् भासते भास्वद् विकसत्पुष्पगन्धवत्
न बहिष्ट्वं न चान्तस्त्वं क्वचित् किञ्चन विद्यते । यद् यथा कचितं चित्त्वात् तत् तथा तथ्यम् उत्थितम्
आत्मतत्त्वोदरं भाति बहिष्ट्वेन जगत्तया । कर्पूरम् इव गन्धेन सङ्कोचि प्रविकासि च