अङ्गचित्संविदभ्यासाच् चित्सामान्यम् उपाददे । तदभ्यासाद् अवापान्तर् आनन्दस्यन्दम् उत्तमम्
तदास्वादनतो लीनचित्सामान्यदशाक्रमः । विश्वम्भरम् अनन्तात्म सत्तासामान्यम् आययौ
तत्स्थस् समसमाभोगः परां विश्रान्तिम् आगतः । अनानन्दसमानन्दमुग्धमुग्धमुखद्युतिः
संशान्तानन्दपुलकः पदं प्राप्याप्य् अलं गतः । चिरकालपरिक्षीणमननादिभवभ्रमः
बभूव स महासत्त्वो लिपिकर्मार्पितोपमः । समः कलावपूर्णेन शरदच्छाम्बरेन्दुना
उपशशाम शनैर् दिवसैर् असौ कतिपयैस् स्वपदे विमलात्मनि । तरुरसश् शरदन्त इवामले रविकरौजसि जन्मदशातिगः
गतसकलविकल्पो निर्विकारो ऽभिरामस् सकलमलविलासोपाधिनिर्मुक्तमूर्तिः । विगलितसुखम् आद्यं तत् सुखं प्राप यस्मिंस् तृणम् इव जलराशाव् उह्यते शक्रलक्ष्मीः
अपरिमितनभोऽन्तर्व्यापिदिग्व्यापि पूर्णं भुवनभरणशीलं भूरिभाग्योपसेव्यम् । कथनगुणम् अतीतं सत्यम् आनन्दम् आद्यं सुखम् असुखम् अनन्तं ब्राह्मणो ऽसौ बभूव
गतवति पदम् आद्यं चेतसि स्वस्वभावं द्विजतनुर् अथ मासैस् सोपविष्टा च षड्भिः । रविकरपरितप्ता वातझाङ्काररम्या तनुतरबहुतन्त्री शैलवीणा बभूव
अथ बहुतरकालेनैनम् अद्रेर् भुवं ताम् उपययुर् अगकन्यासंयुता मातरः खात् । अभिमतफलसिद्ध्यै संयुता एव सर्वा अनलम् इव शिखानां पङ्क्तयः पिङ्गकेश्यः
दिनकरकरशुष्कं विप्रकङ्कालकं तज् झगिति च करकोटौ बद्धखट्वाङ्गसङ्गा । सकलविबुधवन्द्या खिङ्खिनी देवदेवी निशि नवरतनृत्ता काचकान्तिं चकार
इत्य् उद्दालकदेहको ऽद्य विलसन्मायूरबर्हव्रजव्यालोलाब्दलवे नवे विवलिते मन्दारमालागणैः । शेते खिङ्खिनिकामहाभगवतीलीलाललामे लताजाले भृङ्ग इवान्तपुष्पपटले पश्चाद् उपागच्छति
एषोद्दालकचित्तवृत्तिकलनावल्ली विवेकस्फुरत्स्वानन्दप्रविकासभासिकुसुमा हृत्कानने विस्तृते । रूढा यस्य कदाचिद् एव विलसद्रम्येव सच्छायया नासाव् एति वियोगम् एति च फलेनोच्चैस्तरां सङ्गमम्
क्रमेणानेन रिपुहन् विचार्यात्मानम् आत्मना । विश्रान्तिम् एति वितते पदे पद्मदलेक्षण
शास्त्रार्थगुरुचेतोभिस् तावत् तावद् विचार्यते । सर्वदृश्यक्षयाभ्यासाद् यावद् आसाद्यते परम्
वैराग्याभ्यासशास्त्रार्थप्रज्ञागुरुयमक्रमैः । पदम् आसाद्यते पुण्यं प्रज्ञयैवैकयाथ वा
सम्प्रबोधवती तीक्ष्णा कलङ्करहिता मतिः । सर्वसामग्र्यहीनापि प्राप्यं प्राप्नोति शाश्वतम्
भगवन् भूतभव्येश कश्चिज् ज्ञातसमाधिकः । प्रबुद्ध इति विश्रान्तो व्यवहारपरो ऽपि सन्
कश्चिद् एकान्तम् आश्रित्य समाधिनियतस् स्थितः । तयोस् तु कतरश् श्रेयान् इति मे भगवन् वद
इमं गुणसमाहारम् अनात्मत्वेन पश्यतः । अन्तश्शीतलता यासौ समाधिर् इति कथ्यते
दृश्यैर् मम न सम्बन्ध इति निश्चित्य शीतलः । कश्चित् संव्यवहारस्थः कश्चिद् ध्यानव्यवस्थितः
द्वाव् एतौ राम सुसमाव् अन्तश् चेत् परिशीतलौ । अन्तश्शीतलता या स्यात् तद् धनं तत् तपःफलम्
समाधिस्थानकस्थस्य चेतश् चेद् वृत्तिचञ्चलम् । तत् तस्य तत् समाधानं समम् उन्मत्तताण्डवैः
उन्मत्तताण्डवस्थस्य चेतश् चेत् क्षीणवासनम् । तद् अस्योन्मत्तनृत्तं तत् समं बुद्धसमाधिना
व्यवहारी प्रबुद्धो यः प्रबुद्धो यो वने स्थितः । द्वाव् एतौ पुरुषौ नूनम् असन्देहपदं गतौ
अकर्तृ कुर्वद् अप्य् एतच् चेतः प्रतनुवासनम् । दूरे गतमना जन्तुः कथासंश्रवणे यथा
अकुर्वद् अपि कर्त्र् एव चेतः प्रघनवासनम् । निस्स्पन्दाङ्गम् अपि स्वप्ने श्वभ्रपातस्थिताव् इव
चेतसो यद् अकर्तृत्वं तत् समाधानम् उत्तमम् । तं विद्धि केवलीभावं सा शुभा निर्वृतिः परा
चेतश्चलाचलत्वं हि परमं कारणं स्मृतेः । ध्यानाध्यानदृशोस् तेन तद् एवानङ्कुरं कुरु
अवासनं स्थिरं प्रोक्तं मनो ध्यानं तद् एव च । स एव केवलीभावश् शान्तं तत्रैव तत् सदा