कदाचिद् अह्ना मासेन कदाचिद् वत्सरेण च । कदाचिद् वत्सरौघेन ध्यानासक्तो व्यबुध्यत
उद्दालकस् तद् आरभ्य व्यवहारपरो ऽपि सन् । सुसमाहित एवासीच् चित्तत्त्वैकत्वम् आगतः
चित्तत्त्वैकघनाभ्यासान् महाचित्त्वम् उपेत्य सः । दृश्ये ऽस्मिंश् चित्ररविवन् नास्तम् आयान् न चोदयम्
समपरपदलाभप्राप्तिसंशान्तचेता दलितजननपाशः क्षीणसन्देहदोलः । शरदि खम् इव कान्तं व्याततं चोर्जितं च स्फुटम् अमलम् अलेखं तत् वपुस् स्वं बभार
आत्मज्ञानदिनैकार्क मत्संशयतृणानल । अज्ञानदाहशीतांशो सत्तासामान्यम् ईश किम्
यदा सङ्क्षीयते चित्तम् अभावात्यन्तभावनात् । चित्सामान्यस्वरूपस्य सत्तासामान्यता तदा
नूनं चेत्यांशरहिता चिद् यदात्मनि लीयते । असद्रूपवद् अत्यच्छं सत्तासामान्यता तदा
यदा सर्वाणि दृश्यानि संशान्तान्योऽन्यवेदनम् । स्वरूपेण स्वरूपाभं भाव्यन्ते समता तदा
कूर्माङ्गानीव दृश्यानि लीयन्ते स्वात्मनात्मनि । अभावितान्य् एव यदा सत्तासामान्यता तदा
दृष्टिर् एषा हि परमा सदेहादेहयोस् सदा । मुक्तयोस् सम्भवत्य् एव तुर्यातीतपदोपमा
व्युत्थितस्य भवत्य् एषा समाधिस्थस्य चानघ । ज्ञस्य केवलम् अज्ञस्य न भवत्य् एव बोधजा
अस्यां दृशि स्थितास् सर्वे जीवन्मुक्ता महाशयाः । सिद्धा रसा इव भुवि व्योमवीथ्याम् इवानिलाः
अस्मत्प्रभृतयस् सर्वे नारदाद्याश् च राघव । ब्रह्मविष्ण्वीश्वराद्याश् च दृष्टाव् अस्यां व्यवस्थिताः
एताम् आलम्ब्य पदवीं समस्तभयनाशिनीम् । उद्दालको ऽसाव् अवसद् यावदिच्छं जगद्गृहे
अथ कालेन महता बुद्धिस् तस्य बभूव ह । विदेहमुक्तस् तिष्ठामि देहं त्यक्त्वेति निश्चला
एवं निश्चयवान् अद्रेर् गुहायां पल्लवासने । बद्धपद्मासनस् तस्थाव् आमीलितविलोचनः
संयम्य गुदसंरोधाद् द्वाराणि नव चेतसः । मात्रास्पर्शान् अचिन्वानो भावितस्वाङ्गचिद्घनः
संरुद्धप्राणपवनस् समसंस्थानकन्धरः । तालुमूलतलालग्नजिह्वामूलोल्लसन्मुखः
न बहिर् नान्तरे नाधो नोर्ध्वे नार्थे न शून्यके । संयोजितमनोदृष्टिर् दन्तैर् दन्तान् असंस्पृशन्
प्राणप्रवाहसंरोधसमस् स्वच्छाननच्छविः । अङ्गचित्संविदुत्तानरोमकण्टकिताङ्गभूः
अङ्गचित्संविदभ्यासाच् चित्सामान्यम् उपाददे । तदभ्यासाद् अवापान्तर् आनन्दस्यन्दम् उत्तमम्
तदास्वादनतो लीनचित्सामान्यदशाक्रमः । विश्वम्भरम् अनन्तात्म सत्तासामान्यम् आययौ
तत्स्थस् समसमाभोगः परां विश्रान्तिम् आगतः । अनानन्दसमानन्दमुग्धमुग्धमुखद्युतिः
संशान्तानन्दपुलकः पदं प्राप्याप्य् अलं गतः । चिरकालपरिक्षीणमननादिभवभ्रमः
बभूव स महासत्त्वो लिपिकर्मार्पितोपमः । समः कलावपूर्णेन शरदच्छाम्बरेन्दुना
उपशशाम शनैर् दिवसैर् असौ कतिपयैस् स्वपदे विमलात्मनि । तरुरसश् शरदन्त इवामले रविकरौजसि जन्मदशातिगः
गतसकलविकल्पो निर्विकारो ऽभिरामस् सकलमलविलासोपाधिनिर्मुक्तमूर्तिः । विगलितसुखम् आद्यं तत् सुखं प्राप यस्मिंस् तृणम् इव जलराशाव् उह्यते शक्रलक्ष्मीः
अपरिमितनभोऽन्तर्व्यापिदिग्व्यापि पूर्णं भुवनभरणशीलं भूरिभाग्योपसेव्यम् । कथनगुणम् अतीतं सत्यम् आनन्दम् आद्यं सुखम् असुखम् अनन्तं ब्राह्मणो ऽसौ बभूव
गतवति पदम् आद्यं चेतसि स्वस्वभावं द्विजतनुर् अथ मासैस् सोपविष्टा च षड्भिः । रविकरपरितप्ता वातझाङ्काररम्या तनुतरबहुतन्त्री शैलवीणा बभूव
अथ बहुतरकालेनैनम् अद्रेर् भुवं ताम् उपययुर् अगकन्यासंयुता मातरः खात् । अभिमतफलसिद्ध्यै संयुता एव सर्वा अनलम् इव शिखानां पङ्क्तयः पिङ्गकेश्यः