तत्र प्राप महानन्दं दृश्यदर्शनवर्जितम् । अनन्तम् उत्तमास्वादं रसायनम् इवार्णवम्
शरीरात् समतीतो ऽसौ काम् अप्य् अवनिम् आगतः । सत्तासामान्यरूपात्मा बभूवानन्दसागरः
द्विजचेतनहंसो ऽसाव् आनन्दसरसि स्थिरे । अतिष्ठच् छरदच्छे खे कलापूर्ण इवोडुपः
बभूवावातदीपाभो लिपिकर्मार्पितोपमः । वीतवेलाम्बुधिप्रख्यो वृष्टमूकाम्बुदस्थितिः
अथैतस्मिन् महालोके तिष्ठन्न् उद्दालकश् चिरम् । अपश्यद् व्योमगान् सिद्धान् अमरान् इव भूरिशः
आगतानि विचित्राणि सिद्धजालानि चाभितः । शक्रार्कपददातॄणि नीरन्ध्राण्य् अप्सरोगणैः
तानि नादरयां चक्रे सिद्धवृन्दानि स द्विजः । गम्भीरमतिर् अक्षुब्धो विलासान् इव शैशवान्
सिद्धसार्थम् अनादृत्य तस्मिन् स्वानन्दमन्दिरे । अतिष्ठद् अथ षण्मासान् दिक्तटे ऽर्क इवोत्तरे
जीवन्मुक्तपदं तत् तद् यत् स सम्प्राप्तवान् द्विजः । तत्र सिद्धास् सुरास् साध्यास् स्थिता ब्रह्महरादयः
आनन्दपरिणामित्वाद् अनानन्दपदं गताः । नानन्दे न निरानन्दे ततस् तत्संविद् आबभौ
क्षणं वर्षसहस्रं वा तत्र लब्ध्वा स्थितिं मनः । रतिम् एति न भोगौघे दृष्टस्वर्ग इवावनौ
तत् पदं सा गतिश् शान्ता तच् छ्रेयश् शाश्वतं शिवम् । तत्र विश्रान्तिम् आप्तस्य न भूयो जायते श्रमः
तत् पदं साधवः प्राप्य दृश्यदृष्टिम् इमां पुनः । न यान्ति खदिरोद्यानं लब्धचैत्ररथा इव
तां महानन्दपदवीं चित्तान्य् आसाद्य देहिनाम् । दृश्यं न बहु मन्यन्ते राजानो दीनताम् इव
चेतस् तत्पदविश्रान्तं बुद्धं दृश्यदशां प्रति । कदर्थाद् बोधम् आयाति न यात्य् एवाथ वानघ
उद्दालको ऽथ षण्मासान् दूरोत्सारितसिद्धभूः । उषित्वोन्मिषतो ऽम्भोदकोशाद् अर्को मधाव् इव
ददर्श सम्प्रबुद्धात्मा पुनः परमतेजसः । प्रणामलालसान् सिद्धांश् चन्द्रबिम्बवपुर्धरान्
रमणीर् गौरमन्दाररेण्वभ्रामलचामराः । स्फुरत्पताकापटला द्युविमानपरम्पराः
अस्मदादीन् मुनीन् दर्भपवित्राङ्ककराम्बुजान् । विद्याधरीभिर् वलितान् विद्याधरपतीन् अपि
ते तम् ऊचुर् महात्मानम् उद्दालकमुनिं तदा । प्रसादेन प्रणामान् नो भगवन्न् अवलोकय
आरुह्येमं विमानं त्वम् एहि त्रैविष्टपं पुरं । स्वर्ग एव हि सीमान्तो जगत्सम्भोगसम्पदाम्
आकल्पम् उचितान् भुङ्क्ष्व भोगान् अभिमतान् विभो । स्वर्गादिफलभोगार्थम् एवाशेषतपःक्रियाः
हारचामरधारिण्यो विद्याधरवराङ्गनाः । पश्येमास् त्वाम् उपासीनाः करिण्यः करिणं यथा
कामो धर्मार्थयोस् सारः कामसाराश् शुचिस्मिताः । वसन्त इव मञ्जर्यस् स्वर्ग एव भवन्ति ताः
एवं कथयतस् सिद्धान् अतिथीन् इत्य् असौ मुनिः । परिपूज्य यथान्यायम् अतिष्ठद् गतसम्भ्रमम्
नाभ्यनन्दन् न तत्याज तां विभूतिं स धीरधीः । भोस् सिद्धा व्रजतेत्य् उक्त्वा स्वव्यापारपरो ऽभवत्
अथ स्वकर्मनिरतं भोगेष्व् अरतिम् आगतम् । तम् उपास्य ययुस् सिद्धा दिनैः कतिपयैस् स्वयम्
जीवन्मुक्तस् स च मुनिर् विजहार यथासुखम् । यावदिच्छं वनान्तेषु मुनीनाम् आश्रमेषु च
मेरुमन्दरकैलासहिमवद्विन्ध्यसानुषु । द्वीपोपवनदिक्कुञ्जजङ्गलारण्यभूमिषु
ततः प्रभृति सम्प्राप्तपद उद्दालको द्विजः । गुहासु गिरिकुक्षीणां न्यवसद् ध्यानलीलया