निर्विकल्पसमाध्यर्थं व्यवसायम् उपाददे । स्वभावं स्वच्छतां नेतुं शरत्काल इवामलः
स्वस्वान्तवातहरिणम् आशादिग्गणगामिनम् । चिन्तया हृदयं निन्ये दूराद् रज्ज्वेव कीलकम्
धावमानम् अधो मत्तं चित्तम् आबिलम् आकुलम् । बलात् संरोधयाम् आस सेतुर् जलम् इव द्रुतम्
न्यमीमिलद् दृशाव् अर्धं परिपक्ष्मलपक्ष्मके । निस्स्पन्दतारामधुपे सन्ध्याकाल इवाम्बुजे
सोम्यताम् अनयन् मौनी प्राणापानजवं मुखे । श्वसनं श्रेयसे देशे प्रशस्तस् समयो यथा
तिलेभ्य इव तैलानि पृथक् चक्रे प्रयत्नतः । इन्द्रियाणीन्द्रियार्थेभ्यः कूर्मो ऽङ्गानीव गोपयन्
बाह्यान् स्पर्शान् अशेषेण जहौ दूरे शनैर् अरीन् । सहसा कुण्डकच्छन्नो मणिर् दूरं त्विषो यथा
विलीनान् आन्तरांश् चक्रे स्पर्शान् उज्झितदर्शनान् । रसान् विटपकोशस्थान् मार्गशीर्ष इव द्रुमः
रुरोध गुदसङ्कोचान् नवद्वारानिलान् अथ । मुखसंस्थगनात् कुम्भरन्ध्रकोशान् इवेतरान्
आत्मरत्नप्रकाशाढ्यां स्पष्टां कुसुमलाञ्छिताम् । दधार कन्धरां धीरां मेरुश् शृङ्गशिखाम् इव
दधार हृदयाकाशे मनस् संयमम् आगतम् । विन्ध्यखात इवोन्मत्तं गजं युक्तिवशीकृतम्
शरन्नभोवद् आसाद्य निर्मलाम् अतिसोम्यताम् । जहार परिपूर्णाब्धेर् मेरोश् चातरलां श्रियम्
दुधावाथ विकल्पौघान् प्रतिभासम् उपेयुषः । पुरःपरिस्फुरद्रूपान् मषकान् इव मारुतः
आगच्छतो यथाकामं प्रतिभासान् पुनः पुनः । अच्छिनन् मनसा शूरः खड्गेनेव रणे शरान्
विकल्पौघे परालूने सो ऽपश्यद् धृदयाम्बरे । तमश् छन्नविवेकार्कं लोलकज्जलमेचकम्
तद् अप्य् उत्सारयाम् आस सम्यक् स्वान्तविवस्वता । सम्यग्ज्ञानोदितेनाशु पवनेनेव कज्जलम्
तमस्य् उपरते कान्तं तेजःपुञ्जं ददर्श सः । शार्वरे तिमिरे शान्ते प्रातस् सान्ध्यम् इवाम्बुदम्
तं लुलाव स्थलाब्जानां वनं बाल इव द्विपः । अपिबच् चाप्य् असृक्पूरं वेताल इव वेगतः
तेजस्य् उपरते तस्य घूर्णमानं मनो मुनेः । निशाब्जवद् अगान् निद्रां लोलं क्षीववद् एव वा
मेघमालां इव मरुद् बालो नीलाब्जिनीम् इव । यामिनीम् इव तीक्ष्णांशुस् ताम् अप्य् आशु लुलाव सः
निद्राव्युपशमे तस्य भावयाम् आस तन् मनः । व्योम श्यामलदृग् जन्तुर् नभसीव शिखण्डकम्
पयोद इव तापिञ्छं नीहारम् इव मारुतः । तमो दीप इवाच्छात्मा तद् अप्य् आशु ममार्ज सः
व्योमसंविदि भग्नायां मूढं तस्याभवन् मनः । निद्रायां प्रविलीनायां मैरेयमदवान् इव
मोहम् अप्य् एष मनसस् तं ममार्ज महाशयः । यामिनीजनितं जाड्यं भुवनाद् इव भास्करः
ततस् तेजस्तमोनिद्रामोहादिपरिवर्जितम् । काम् अप्य् अवस्थाम् आसाद्य विशश्राम मनः क्षणम्
विश्रम्याशु पपाताङ्गसंविदं चित्स्वरूपिणीम् । सेतुरुद्धं सरोवारि प्रतीपं स्वम् इवास्पदम्
चिरानुसन्धानवशात् स्वदनाच् च स्वसंविदः । ततश् चिन्मयताम् आगाद् धेम नूपुरताम् इव
चित्तत्वम् अथ सन्त्यज्य चित्तं चित्त्वं ततं गतं । अन्यद् एव बभूवाशु पङ्कः कुम्भस्थिताव् इव
चेत्यं सन्त्यज्य चिच् छुद्धा चित्सामान्यम् अथाययौ । त्यक्तवीच्यादिभेदे ऽब्धौ वार्सामान्यम् इवैकधीः
त्यक्तभूतौघमननं ततो विश्वम्भरं बृहत् । चिदाकाशं ततं शुद्धं सो ऽभवद् बोधिम् आगतः