यावदिच्छम् अवस्थैषा प्रणवप्रथमे क्रमे । बभूव न हठाद् एव हठयोगो हि दुःखदः
अथेतरांशावसरे प्रणवस्य समस्थितौ । निस्स्पन्दकुम्भको नाम प्राणानाम् अभवत् क्रमः
न बहिर् नान्तरे नाधो नोर्ध्वे नाशासु तत्र ते । सङ्क्षोभम् अगमन् प्राणा अर्धसंस्तम्भिता इव
दग्धदेहपुरो वह्निश् शशामाशनिवत् क्षणात् । अदृश्यत सितं भस्म शारीरं हिमपाण्डुरम्
यत्र कर्पूरशय्यायां सुप्तानीव सुखोचितम् । शरीरास्थीनि लक्ष्यन्ते निस्स्पन्दानि सितानि च
तद् भस्म पवनाधूतं सास्थि वायुर् अयोजयत् । स्वदेहे भृशम् उच्छूने त्रिनेत्रव्रतवान् इव
तच् चण्डपवनोद्धूतम् आवृत्य गगनं क्षणात् । शरदीवाभ्रमिहिका क्वापि भस्मास्थिमद् ययौ
यावदिच्छम् अवस्थैषा प्रणवस्यापरे क्रमे । बभूव न हठाद् एव हठयोगो हि दुःखदः
ततस् तृतीयावसरे प्रणवस्योपशान्तिदे । पूरणात् पूरको नाम प्राणानाम् अभवत् क्रमः
अस्मिन्न् अवसरे प्राणाश् चेतनामृतमध्यगाः । व्योम्नि शीतलताम् ईयुर् हिमसंस्पर्शसुन्दरीम्
क्रमाद् गगनमध्यस्थाश् चन्द्रमण्डलतां ययुः । धूमा गगनकोशस्थाश् शीतलाम्बुदताम् इव
कलाकलापसम्पूर्णे ते तस्मिंश् चन्द्रमण्डले । पुण्यराशाव् इवापूर्णे रसायनमहार्णवे
रसायनमहाधारास् सम्पन्नाः प्राणवायवः । मणियष्टिसमाकारा जलेष्व् इन्दोर् इवांशवः
सा पपाताम्बराद् धारा शेषे शारीरभस्मनि । रासायनी हरशिरःपतितेव सुरापगा
उदभूद् इन्दुबिम्बाभं चतुर्बाहुवपुस् तया । प्रस्फुरन्मन्दराद् अब्धेः पारिजात इव द्रुमः
उद्दालकशरीरं तन् नारायणतयोदितम् । प्रफुल्तचूतवत् कान्तम् आबभौ दीप्तिसुन्दरम्
रसायनमयाः प्राणास् तच्छरीरम् अपूरयन् । सरिदोघा इव सरो वृक्षं मधुरसा इव
अन्तः कुण्डलिनीं प्राणाः पूरयाम् आसुर् आदृताः । वक्रानुवक्रप्रसृतास् सरांसीव सरित्स्खदाम्
प्रकृतिस्थं बभूवास्य तच् छरीरं द्विजन्मनः । प्रावृट्संरम्भविगमे धौतं तलम् इवावनेः
अथ पद्मासनगतः कृत्वा देहे स्थितिं दृढाम् । आलान इव मातङ्गं निबध्येन्द्रियपञ्चकम्
निर्विकल्पसमाध्यर्थं व्यवसायम् उपाददे । स्वभावं स्वच्छतां नेतुं शरत्काल इवामलः
स्वस्वान्तवातहरिणम् आशादिग्गणगामिनम् । चिन्तया हृदयं निन्ये दूराद् रज्ज्वेव कीलकम्
धावमानम् अधो मत्तं चित्तम् आबिलम् आकुलम् । बलात् संरोधयाम् आस सेतुर् जलम् इव द्रुतम्
न्यमीमिलद् दृशाव् अर्धं परिपक्ष्मलपक्ष्मके । निस्स्पन्दतारामधुपे सन्ध्याकाल इवाम्बुजे
सोम्यताम् अनयन् मौनी प्राणापानजवं मुखे । श्वसनं श्रेयसे देशे प्रशस्तस् समयो यथा
तिलेभ्य इव तैलानि पृथक् चक्रे प्रयत्नतः । इन्द्रियाणीन्द्रियार्थेभ्यः कूर्मो ऽङ्गानीव गोपयन्
बाह्यान् स्पर्शान् अशेषेण जहौ दूरे शनैर् अरीन् । सहसा कुण्डकच्छन्नो मणिर् दूरं त्विषो यथा
विलीनान् आन्तरांश् चक्रे स्पर्शान् उज्झितदर्शनान् । रसान् विटपकोशस्थान् मार्गशीर्ष इव द्रुमः
रुरोध गुदसङ्कोचान् नवद्वारानिलान् अथ । मुखसंस्थगनात् कुम्भरन्ध्रकोशान् इवेतरान्
आत्मरत्नप्रकाशाढ्यां स्पष्टां कुसुमलाञ्छिताम् । दधार कन्धरां धीरां मेरुश् शृङ्गशिखाम् इव