अनन्तजीवितदशासखीम् एकाम् अनिन्दिताम् । धारयन्तं करे श्लक्ष्णां वीणाम् अम्लानमानसम्
करुणाक्रान्तचेतस्त्वात् प्रसन्नमधुरेक्षितैः । ईक्षणैर् अमृतेनेव संसिञ्चन्तम् इमाः प्रजाः
सितासितततापाङ्गं धवलप्रोन्नतभ्रुवम् । आनन्दं च भयं चान्तः प्रयच्छन्तम् अवेक्षितुः
मुनिम् आलोक्य भूपालो दूराद् एवानताकृतिः । प्रणनाम गलन्मौलिमणिमालितभूतलम्
मुनिर् अप्य् अवनेर् ईशं भास्वान् इव शतक्रतुम् । तत्राभिवादयां चक्रे मधुरोदारया गिरा
ततो वसिष्ठप्रमुखास् सर्व एव द्विजातयः । स्वागतादिक्रमेणैनं पूजयाम् आसुर् आदृताः
अशङ्कितोपनीतेन भास्वता दर्शनेन ते । साधो स्वनुगृहीतास् स्मो रविणेवाम्बुजाकराः
यद् अनादि यद् अक्षुब्धं यद् अपायविवर्जितम् । तद् आनन्दसुखं प्राप्ता अद्य त्वद्दर्शनान् मुने
अद्य वर्तामहे नूनं धर्म्याणां धुरि धर्मतः । भवदागमनस्येमे यद् वयं लक्ष्यतां गताः
एवं प्रकथयन्तो ऽत्र राजानो ऽथ महर्षयः । आसनेषु सभास्थानम् आस्थाय समुपाविशन्
स दृष्ट्वा ज्वलितं लक्ष्म्या भीतस् तम् ऋषिम् आगतम् । प्रहृष्टवदनो राजा स्वयम् अर्घ्यं न्यवेदयत्
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा । प्रदक्षिणं प्रकुर्वन्तं राजानं पर्यपूजयत्
स राज्ञा पूजितस् तेन प्रहृष्टवदनस् तदा । कुशलं चाप्ययं चैव पर्यपृच्छन् नराधिपम्
वसिष्ठेन समागम्य प्रहस्य मुनिपुङ्गवः । यथार्हं चार्चयित्वैनं पप्रच्छानामयं ततः
क्षणं यथार्हम् अन्योऽन्यं पूजयित्वा समेत्य च । ते सर्वे हृष्टमनसो महाराजनिवेशने
यथोचितासनगता मिथस् संवृद्धतेजसः । परस्परेण पप्रच्छुस् सर्वे ऽनामयम् आदरात्
उपविष्टाय तस्मै स विश्वामित्राय धीमते । पाद्यम् अर्घ्यं च गाश् चैव भूयो भूयो न्यवेदयत्
अर्चयित्वा च विधिवद् विश्वामित्रम् अभाषत । प्राञ्जलिः प्रयतो वाक्यम् इदं प्रीतमना नृपः
यथामृतस्य सम्प्राप्तिर् यथा वर्षम् अवर्षके । यथान्धस्येक्षणप्राप्तिर् भवदागमनं तथा
यथेष्टधनसम्पर्कः पुत्रजन्माप्रजावतः । स्वप्नदृष्टार्थलाभश् च भवदागमनं तथा
यथेप्सितेन संयोग इष्टस्यागमनं यथा । प्रणष्टस्य यथा लाभो भवदागमनं तथा
यथा हर्षो नभोगत्या मृतस्य पुनर् आगमात् । तथा त्वदागमाद् ब्रह्मन् स्वागतं ते महामुने
ब्रह्मलोकनिवासो हि कस्य न प्रीतिम् आवहेत् । मुने तवागमस् तद्वत् सत्यम् एव ब्रवीमि ते
कश् च ते परमः कामः किं च ते करवाण्य् अहम् । पात्रभूतो ऽसि मे विप्र प्राप्तः परमधार्मिकः
पूज्यो राजर्षिशब्देन तपसा द्योतितप्रजः । ब्रह्मर्षित्वम् अनु प्राप्तः पूज्यो ऽसि भगवन् मम
गङ्गाजलाभिषेकेण यथा प्रीतिर् भवेन् मम । तथा त्वद्दर्शनात् प्रीतिर् अन्तश् शीतयतीव माम्
विगतेच्छाभयक्रोधो वीतरागो निरामयः । इदम् अत्यद्भुतं ब्रह्मन् यद् भवान् माम् उपागतः
शुभक्षेत्रगतं चाहम् आत्मानम् अपकल्मषम् । चन्द्रबिम्ब इवोन्मग्नं वेद्मि वेद्यविदां वर
साक्षाद् इव ब्रह्मणो मे तवाभ्यागमनं मतम् । पूतो ऽस्म्य् अनुगृहीतो ऽस्मि तवाभ्यागमनान् मुने
त्वदागमनपुण्येन साधो यद् अनुरञ्जितम् । अद्य मे सफलं जन्म जीवितं तत् सुजीवितम्