योगवासिष्ठः
एवं मिथो दुःखदयोश् श्लिष्टयोः कस् सुखागमः । एतयोर् देहमनसोर् जात्यैवान्योऽन्यविद्धयोः
मनस्य् एव परिक्षीणे न देहो दुःखभाजनम् । तत्क्षयोत्कतया नित्यं देहो ऽपि परिधावति
नष्टं नष्टम् अनर्थाय शरीरं पदम् आपदाम् । अलब्धात्मविवेकेन मनसाशु विनिन्द्यते
एते मनश्शरीरे हि मिथः पीवरतां गते । जडरूपे हि वर्षासु पयोदसरसी यथा
मिथो दुःखाय सम्पन्ने एकरूपे द्विधा स्थिते । व्यवहारपरे सार्धं लोके वाय्वनलाव् इव
चित्ते क्षयिणि सङ्क्षीणो देह आ मूलतो भवेत् । वर्धमाने तरुर् इव शतशाखः प्रवर्धते
क्षीयते मनसि क्षीणे देहः प्रक्षीणवासनः । मनो न क्षीयते क्षीणे देहे तत् क्षपयेन् मनः
सङ्कल्पपादपं तृष्णालतं छित्त्वा मनोवनम् । वितताम् भुवम् आसाद्य विहरामि यथासुखम्
प्रक्षीयमाणम् एवेदं मम मन्ये मनस् स्थितम् । प्रशाम्यद्वासनाजालं प्रावृडन्त इवाम्बुदः
धातूनां सन्निवेशो ऽयं देहनामा वपुर् मम । प्रक्षीयमाणे मनसि गलन्न् एवावतिष्ठतु
यदर्थं किल भोगश्रीर् वाञ्छ्यते तत् कलेवरम् । न मे नापि च तस्याहं को ऽर्थस् सुखलवेन मे
नाहं देह इति त्व् अस्मिन् युक्तिम् आकर्णय क्रमे । सर्वाङ्गेष्व् अपि सत्स्व् एव शवः कस्मान् न वल्गति
तस्माद् देहाद् अतीतो ऽहं नित्यो ऽनस्तमितद्युतिः । यस् सङ्गं भास्वता प्राप्य वेद्मि व्योमनि भास्करम्
ज्ञो ऽहं मे न सुखेनार्थो नानर्थेन च दुःखिता । शरीरम् अस्तु वा मास्तु स्थितो ऽस्मि विगतज्वरः
यत्रात्मा तत्र न मनो नेन्द्रियाणि न वासनाः । पामराः परितिष्ठन्ति निकटे न महीभृतः
पदं तद् अनुयातो ऽस्मि केवलो ऽस्मि जयाम्य् अहम् । निस्स्पृहो ऽस्मि निरंशो ऽस्मि निरीहो ऽस्मि निरीप्सितः
नेदानीं मम सम्बन्धो मनोदेहेन्द्रियादिभिः । पृथक्कृतस्य तैलस्य तिलैर् विदलितैर् यथा
स्वस्मात् पदवराद् अस्माल् लीलया चलितस्य मे । अध आक्रमतः किञ्चित् परिवारो ह्य् अयं शुभः
स्वस्थतोर्जितता सत्ता हृद्यता सत्यता ज्ञता । आनन्दितोपशमिता मता च मुदितोदिता
पूर्णतोदारता सत्या कान्तिमत्तैकतानता । सर्वैकता निर्भयता क्षीणद्वित्वविकल्पता
एता नित्योदितास् स्वस्थास् सुन्दर्यस् सुभगोदयाः । ममैकात्मरतेः कान्ता नित्यं हृदयवल्लभाः
सर्वथा सर्वदा सर्वं सर्वस्मिन् सम्भवत्य् अतः । सर्वं प्रति मम क्षीणे वाञ्छावाञ्छे सुखासुखम्
विगतमोहतया विमनस्तया गतविकल्पनचित्ततया स्फुटम् । उपरमाम्य् अहम् आत्मनि शीतले घनलवश् शरदीव नभस्तले
इति निर्णीय ततया धिया धवलया मुनिः । बद्धपद्मासनस् तस्थाव् अर्धोन्मीलितलोचनः
ओङ्कारम् अकरोत् तारस्वरम् ऊर्ध्वगतध्वनिम् । सम्यगाहतलाङ्गूलं घण्टाकुम्भम् इवारवम्
ओमुच्चारयतस् तस्य संवित्तत्त्वे तदुन्मुखे । यावदोङ्कारम् ऊर्ध्वस्थे वितते विमलात्मनि
सार्धत्र्यंशात्ममात्रस्य प्रथमे ऽंशे स्फुटारवे । प्रणवस्य मनाक्क्षुब्धप्राणारणितदेहके
रेचकाख्यो ऽखिलं कायं प्राणनिष्क्रमणक्रमः । रिक्तीचकार पीताम्बुर् अगस्त्य इव सागरम्
अतिष्ठत् प्राणपवनश् चिद्रसापूरिते ऽम्बरे । त्यक्तदेहः परित्यक्तनीडः खग इवाम्बरे
हृदयाग्निर् ज्वलञ् ज्वाली ददाह मलिनं वपुः । उत्पातपवनोच्छूनो दावश् शुष्कम् इव द्रुमम्