देहम् अन्यतया दृष्ट्वा त्यक्त्वा विषयवासनाम् । विनाशम् उररीकृत्य मनो जयति वीरवत्
मनश् शत्रुश् शरीरस्य शरीरं मनसो रिपुः । एकभावेन नश्येते आधाराधेयकार्यवत्
रागद्वेषवतोर् नित्यम् अन्योऽन्यातिविरुद्धयोः । एतयोर् मूलकाषेण विनाशः परमं सुखम्
एतयोर् एकसंस्थाने रतिर् इत्य् एव या कथा । सा व्योम्न्य् अयस्स्त्रिया भुक्ता धरेति कथया समा
अकृत्रिमविरोधस्थौ यत्र सङ्घटिताव् उभौ । धारा इव पतन्त्य् एव तत्रानर्थपरम्पराः
मिथोविरुद्धसंसर्गे रतिम् एत्य् अधमो हि यः । त्यक्तव्यस् स पतद्वाराव् अग्निराशाव् अपेलवे
सङ्कल्पेन मनस् स्पृष्ट्वा शरीरं बालयक्षवत् । पात्रायेव धनान्य् अस्मै स्वदुःखानि प्रयच्छति
तैर् दुःखैस् तापितो देहो मनो हन्तुम् अथेच्छति । पुत्रो ऽपि हन्ति पितरम् आततायिपदं गतम्
नास्ति शत्रुः प्रकृत्यैव न च मित्रं कदाचन । सुखदं मित्रम् इत्य् उक्तं दुःखदाश् शत्रवस् स्मृताः
देहो दुःखान्य् अनुभवन् स्वमनो हन्तुम् इच्छति । देहं मनस् स्वदुःखानां सत्कोशं कुरुते क्षणात्
एवं मिथो दुःखदयोश् श्लिष्टयोः कस् सुखागमः । एतयोर् देहमनसोर् जात्यैवान्योऽन्यविद्धयोः
मनस्य् एव परिक्षीणे न देहो दुःखभाजनम् । तत्क्षयोत्कतया नित्यं देहो ऽपि परिधावति
नष्टं नष्टम् अनर्थाय शरीरं पदम् आपदाम् । अलब्धात्मविवेकेन मनसाशु विनिन्द्यते
एते मनश्शरीरे हि मिथः पीवरतां गते । जडरूपे हि वर्षासु पयोदसरसी यथा
मिथो दुःखाय सम्पन्ने एकरूपे द्विधा स्थिते । व्यवहारपरे सार्धं लोके वाय्वनलाव् इव
चित्ते क्षयिणि सङ्क्षीणो देह आ मूलतो भवेत् । वर्धमाने तरुर् इव शतशाखः प्रवर्धते
क्षीयते मनसि क्षीणे देहः प्रक्षीणवासनः । मनो न क्षीयते क्षीणे देहे तत् क्षपयेन् मनः
सङ्कल्पपादपं तृष्णालतं छित्त्वा मनोवनम् । वितताम् भुवम् आसाद्य विहरामि यथासुखम्
प्रक्षीयमाणम् एवेदं मम मन्ये मनस् स्थितम् । प्रशाम्यद्वासनाजालं प्रावृडन्त इवाम्बुदः
धातूनां सन्निवेशो ऽयं देहनामा वपुर् मम । प्रक्षीयमाणे मनसि गलन्न् एवावतिष्ठतु
यदर्थं किल भोगश्रीर् वाञ्छ्यते तत् कलेवरम् । न मे नापि च तस्याहं को ऽर्थस् सुखलवेन मे
नाहं देह इति त्व् अस्मिन् युक्तिम् आकर्णय क्रमे । सर्वाङ्गेष्व् अपि सत्स्व् एव शवः कस्मान् न वल्गति
तस्माद् देहाद् अतीतो ऽहं नित्यो ऽनस्तमितद्युतिः । यस् सङ्गं भास्वता प्राप्य वेद्मि व्योमनि भास्करम्
ज्ञो ऽहं मे न सुखेनार्थो नानर्थेन च दुःखिता । शरीरम् अस्तु वा मास्तु स्थितो ऽस्मि विगतज्वरः
यत्रात्मा तत्र न मनो नेन्द्रियाणि न वासनाः । पामराः परितिष्ठन्ति निकटे न महीभृतः
पदं तद् अनुयातो ऽस्मि केवलो ऽस्मि जयाम्य् अहम् । निस्स्पृहो ऽस्मि निरंशो ऽस्मि निरीहो ऽस्मि निरीप्सितः
नेदानीं मम सम्बन्धो मनोदेहेन्द्रियादिभिः । पृथक्कृतस्य तैलस्य तिलैर् विदलितैर् यथा
स्वस्मात् पदवराद् अस्माल् लीलया चलितस्य मे । अध आक्रमतः किञ्चित् परिवारो ह्य् अयं शुभः
स्वस्थतोर्जितता सत्ता हृद्यता सत्यता ज्ञता । आनन्दितोपशमिता मता च मुदितोदिता
पूर्णतोदारता सत्या कान्तिमत्तैकतानता । सर्वैकता निर्भयता क्षीणद्वित्वविकल्पता