इन्द्रियैर् इन्द्रियेष्व् अङ्गैर् मनो मनसि वल्गति । चिद् अलुप्तवपुः केन सम्बद्धं कस्य किं कथम्
उपलायश्शलाकानां सम्बन्धो न यथा मिथः । तथैकत्रापि दृष्टानां देहेन्द्रियमनश्चिताम्
असदभ्युत्थिते व्यर्थम् अहङ्कारमहाभ्रमे । ममेदम् इदम् अस्येति विपर्यस्तम् इदं जगत्
अतत्त्वालोकजातेयम् अहङ्कारचमत्कृतिः । तापेन हिमलेखेव तत्त्वालोकेन लीयते
आत्मनो व्यतिरेकेण न किञ्चिद् अपि विद्यते । शब्दब्रह्मेति तत् तत्त्वम् एतत् तद् भावयाम्य् अलम्
अहङ्कारभ्रमस्यास्य जातस्याकाशवर्णवत् । अपुनस्स्मरणं मन्ये नूनं विस्मरणं वरम्
समूलं परिविस्मृत्य चिरायाहङ्कृतिभ्रमम् । तिष्ठाम्य् आत्मनि सत्यात्मा शरत्खे शरदीव खम्
ददात्य् अनर्थनिचयं विकासयति दुष्कृतम् । विस्तारयति सन्तापम् अहम्भावो ऽनुसंहितः
स्फुरत्य् अहङ्कारघने हृद्व्योम्नि सलिलात्मनि । विकसत्य् अभितः कायकदम्बे दोषमञ्जरी
मरणम् जीवितोपान्तं जीवितं मरणान्तगम् । भावो ऽभावावधिच्छिन्नः कष्टेयं दुःखवेदना
इदं लब्धम् इदं प्राप्स्यामीत्य् अन्तर्दाहकारिणी । न शाम्यत्य् अर्करत्नानां ग्रीष्मे ऽर्चिर् इव दुर्धियाम्
नास्तीदम् इदम् अस्तीति चिन्ता धावत्य् अहङ्कृतिम् । जडाशया जडाम् अभ्रमाला शैलावलीम् इव
अहङ्कारे परिक्षीणे शुष्कस् संसारपादपः । भूयः प्रयच्छत्य् अरसो न पाषाणवद् अङ्कुरम्
सुतृष्णाकृष्णभोगिन्यो देहद्रुमकृतालयाः । क्वापि यान्ति विचारात्मन्य् आगते विनतासुते
असदभ्युत्थिते विश्वे तज्जा वयम् असन्मयाः । असन्मयपरिस्पन्दे त्वम् अहं चेति कः क्रमः
इदं जगद् उदेत्य् आदाव् अकारणम् अकारणात् । यद् अकारणम् उच्छूनं तत् सद् इत्य् उच्यते कथम्
अपर्यन्तं पुरा कालं मृदि कुम्भ इवाकृतः । देहो ऽभवद् इदानीं तु तथैवान्ते भविष्यति
मध्ये नरवयोमात्रं कञ्चित् कालं तु चञ्चलम् । आद्यन्तसोम्यते त्यक्त्वा वारि वीचितया यथा
अस्मिन् क्षणपरिस्पन्दे देहे विशरणोन्मुखे । तरङ्गे च निबद्धास्था ये हतास् ते कुदृष्टयः
प्राक् पुरस्ताच् च सर्वाणि सन्ति वस्तूनि चाभितः । मध्यस्फुटत्व एतेषां केवास्था हतरूपिणि
चित्त पूर्वं पुरस्ताच् च विदेहं शान्तम् इत्य् असि । सद् असद् वा खसंलीनं मध्ये ऽस्मिन् किं तवोग्रता
यथा स्वप्नविकारेषु यथा सम्भ्रमदृष्टिषु । यथा वा मदलीलासु यथा नौयानसम्भ्रमे
यथा धातुविकारेषु यथा वेन्द्रियविप्लवे । यथातिसम्भ्रमानन्ददोषावेशवशेषु च
दृश्यते क्षीयते चैव रूपं सदसतोश् चलम् । तथैवेदम् इयं त्व् एषा काले न्यूनातिरिक्तता
सा च त्वया कृता नित्यं चित्त दुःखसुखोदयैः । यथा वियोगसंयोगयामिन्योर् अनुरागिणाम्
त्वम् अप्य् एवासदाभासं मिथ्या सद् इव लक्ष्यसे । मृगतृष्णेव तेनैतत् त्वत्कृतं सत् कथं भवेत्
यद् इदं किञ्चिद् आभोगि तत् सर्वं दृश्यमण्डलम् । अवस्त्व् इति विनिर्णीय मनो याह्य् अमनःपदम्
अवस्त्व् इदम् इति स्फारे रूढे मनसि निश्चये । हेमन्त इव पद्मिन्यः क्षीयन्ते भोगवासनाः
चिता दृष्टात्मना नूनं सन्त्यक्तमननौजसा । मनसा वीतरागेण स्वयं स्वस्थेन भूयते
परमात्मानले क्षिप्तसंवित्त्यवयवं स्वयम् । दग्धात्मकम् अलं चित्तं शुद्धताम् एति शाश्वतीम्