वासनाहीनम् अप्य् एतच् चक्षुरादीन्द्रियं स्वतः । प्रवर्तते बहिस् स्वार्थे वासना नात्र कारणम्
वासनारहितं कर्म क्रियते ननु चित्त हे । केवलं नानुभूयन्ते सुखदुःखदृशो ऽत्र ताः
तस्मान् मूर्खाणीन्द्रियाणि त्यक्त्वान्तर्वासनां निजाम् । कुरुध्वं कर्म हे सर्वं न दुःखं समवाप्स्यथ
भवद्भिर् एव दुःखाय वासना वासिता मुधा । बालैः पङ्कक्रीडनकविनाशेनेव खिन्नता
वासनाद्या दृशस् सर्वा व्यतिरिक्तास् तु नात्मनः । जलाद् इव तरङ्गाल्यो ज्ञस्यैवाज्ञस्य नानघ
तृष्णयैव विनष्टास् स्थ व्यर्थम् इन्द्रियचारकाः । कोशकाराः कुक्रिमयस् तन्तुनेव स्वयम्भुवा
तृष्णयैवेह लुठथ जरामरणसङ्कटे । भ्रमदृष्ट्येव शिखरिपथिकाश् श्वभ्रभूमिषु
वासनैवेह भवतां हेतुर् एकत्र बन्धने । रज्जुश् शून्याशयप्रोता मुक्तानाम् आतता यथा
कल्पनामात्रकलिता न सत्यैषा हि वस्तुतः । असङ्कल्पनमात्रेण दात्रेणेव विलूयते
एषा हि भवताम् एव विमोहाय क्षयाय च । वातलेखेव दीपानां स्फुरताम् अपि तेजसा
हे चित्त सर्वेन्द्रियकोश तस्मात् सर्वेन्द्रियैर् ऐक्यम् उपेत्य नूनम् । आलोक्य चात्मानम् असत्स्वरूपं निर्वाणम् एकामलबोधम् आस्स्व
विषयविषविषूचिकाम् अनन्तां निपुणम् अहंस्थितिवासनाम् अपास्य । अभिमतपरिहारकार्ययुक्त्या भव विभयो भगवान् भियाम् अभूमिः
अपारपर्यन्तवपुः परमाण्वणुर् एव वा । चिद् अचेत्या तदाक्रान्तौ न शक्ता वासनादयः
मनश्शेमुष्यहङ्कारप्रतिबिम्बैश् शठेन्द्रियैः । वासनोत्थापिता शून्यवेताली त्रासनोद्यता
तत्कृतेभ्यो विकारेभ्यो भीतिं तान्य् एव भूरिशः । भूयो ऽप्य् अनुभवन्त्व् अन्तर् अहं हि चिद् अलेपिका
चितो न जन्ममरणे सर्वगायाश् चितः किल । किं नाम म्रियते ब्रूत मार्यते केन वापि किम्
चितो न जीवितेनार्थस् सर्वात्मा सैव जीवितम् । किं प्राप्स्यति कदात्मैष प्राङ्मृतो यदि जीवति
जीव्यते म्रियते चेति कुविकल्पकलापिनाम् । कलना मनसाम् एव नात्मनो विततात्मनः
यो ह्य् अहम्भावतां प्राप्तो भावाभावैस् स गृह्यते । आत्मनो नास्त्य् अहम्भावो भावाभावाः कुतो ऽस्य ते
अहम्भावो मुधा मोहो मनश् च मृगतृष्णिका । जडः पदार्थसम्भारः कस्याहम्भावभावना
रक्तमांसमयो देहो मनो नष्टं विचारणात् । जडाश् चित्तादयस् सर्वे कुतो ऽहम्भावभावना
आत्मम्भरितया नित्यम् इन्द्रियाणि स्थितान्य् अलम् । पदार्थाश् च पदार्थत्वे कुतो ऽहम्भावभावना
गुणा गुणेषु वर्तन्ते प्रकृतिः प्रकृतौ स्थिता । सद् एव सति विश्रान्तं कुतो ऽहम्भावभावना
सर्वगं सर्वदेहस्थं सर्वकालमयं महत् । केवलं परमाभानं चिदात्मैव हि संस्थितम्
एवं किमाकृतिः को वा किमादेयश् च किङ्कृतः । किंरूपः किम्मयः को ऽहं किं गृह्णामि त्यजामि किम्
तेनाहं नाम नेहास्ति भावाभावोपपत्तिमान् । अनहङ्काररूपस्य सम्बन्धः केन मे कथम्
असत्य् अलम् अहङ्कारे सम्बन्धः केन कस्य कः । सम्बन्धाभावसंसिद्धौ विलीना द्वित्वकल्पना
एवं ब्रह्मात्मकम् इदं यत् किञ्चिज् जगति स्थितम् । ब्रह्मैवास्ति तद् एवास्मि परिशोचामि किं मुधा
एकस्मिन्न् एव विमले पदे सर्वगते स्थिते । अहङ्कारकलङ्कस्य कथं नामोदयः कुतः
नास्त्य् एव हि पदार्थश्रीर् आत्मैवास्तीह सर्वगः । पदार्थलक्ष्म्यां सत्यां च सम्बन्धो ऽस्ति न कस्यचित्