नाहं भूत्वा त्व् अहं हीदं वच्मि तिष्ठामि यामि वा । आत्मावलोकनेनाहम् अनहङ्कारतां गतः
नूनम् एवान्य एवैते मत्तो ऽज्ञाश् चक्षुरादयः । यान्तु तिष्ठन्तु वा देहे ममैते तु न केचन
कष्टं को ऽयम् अहं नाम कथं केनोपकल्पितः । जगद्बालकवेतालस् तालोत्तालातुलाकृतिः
एतावन्तं चिरं कालं व्यर्थम् आलुठितो ऽवटे । अहम् अम्बुतृणोन्मुक्ते दुरद्रौ हरिणो यथा
स्वार्थैकालोकने चक्षुर् यदि तून्मुखतां गतम् । तद् अहं नाम को ऽसौ स्याद् यो ऽस्मि दुःखेन मोहितः
स्पर्शनाम्नि निजे तत्त्वे यदि जाता त्वग् उन्मुखी । तत् को ऽयं स्याद् अहं नाम कुपिशाच इवोदितः
रसेष्व् अभिनिषण्णे ऽस्मिन् स्वे क्रमे रसनेन्द्रिये । अहं मृष्टभुग् इत्य् एष कुतस्त्यः कुत्सितो भ्रमः
शब्दशक्तिं श्रिते श्रोत्रे वराके स्वार्थपण्डिते । तद् अहङ्कारदुःखस्य निर्बीजस्य क आगमः
आत्मम्भरित्वभरिते घ्राणे स्वं गन्धम् आगते । अहं घ्रातेति यो मन्ता तं चौरं नैव वेद्म्य् अहम्
मृगतृष्णाक्रमेणैषा भावनाप्य् अर्थभावनी । भावस् तस्याम् असत्यायां यस्यासाव् अपि सम्भ्रमः
वासनाहीनम् अप्य् एतच् चक्षुरादीन्द्रियं स्वतः । प्रवर्तते बहिस् स्वार्थे वासना नात्र कारणम्
वासनारहितं कर्म क्रियते ननु चित्त हे । केवलं नानुभूयन्ते सुखदुःखदृशो ऽत्र ताः
तस्मान् मूर्खाणीन्द्रियाणि त्यक्त्वान्तर्वासनां निजाम् । कुरुध्वं कर्म हे सर्वं न दुःखं समवाप्स्यथ
भवद्भिर् एव दुःखाय वासना वासिता मुधा । बालैः पङ्कक्रीडनकविनाशेनेव खिन्नता
वासनाद्या दृशस् सर्वा व्यतिरिक्तास् तु नात्मनः । जलाद् इव तरङ्गाल्यो ज्ञस्यैवाज्ञस्य नानघ
तृष्णयैव विनष्टास् स्थ व्यर्थम् इन्द्रियचारकाः । कोशकाराः कुक्रिमयस् तन्तुनेव स्वयम्भुवा
तृष्णयैवेह लुठथ जरामरणसङ्कटे । भ्रमदृष्ट्येव शिखरिपथिकाश् श्वभ्रभूमिषु
वासनैवेह भवतां हेतुर् एकत्र बन्धने । रज्जुश् शून्याशयप्रोता मुक्तानाम् आतता यथा
कल्पनामात्रकलिता न सत्यैषा हि वस्तुतः । असङ्कल्पनमात्रेण दात्रेणेव विलूयते
एषा हि भवताम् एव विमोहाय क्षयाय च । वातलेखेव दीपानां स्फुरताम् अपि तेजसा
हे चित्त सर्वेन्द्रियकोश तस्मात् सर्वेन्द्रियैर् ऐक्यम् उपेत्य नूनम् । आलोक्य चात्मानम् असत्स्वरूपं निर्वाणम् एकामलबोधम् आस्स्व
विषयविषविषूचिकाम् अनन्तां निपुणम् अहंस्थितिवासनाम् अपास्य । अभिमतपरिहारकार्ययुक्त्या भव विभयो भगवान् भियाम् अभूमिः
अपारपर्यन्तवपुः परमाण्वणुर् एव वा । चिद् अचेत्या तदाक्रान्तौ न शक्ता वासनादयः
मनश्शेमुष्यहङ्कारप्रतिबिम्बैश् शठेन्द्रियैः । वासनोत्थापिता शून्यवेताली त्रासनोद्यता
तत्कृतेभ्यो विकारेभ्यो भीतिं तान्य् एव भूरिशः । भूयो ऽप्य् अनुभवन्त्व् अन्तर् अहं हि चिद् अलेपिका
चितो न जन्ममरणे सर्वगायाश् चितः किल । किं नाम म्रियते ब्रूत मार्यते केन वापि किम्
चितो न जीवितेनार्थस् सर्वात्मा सैव जीवितम् । किं प्राप्स्यति कदात्मैष प्राङ्मृतो यदि जीवति
जीव्यते म्रियते चेति कुविकल्पकलापिनाम् । कलना मनसाम् एव नात्मनो विततात्मनः
यो ह्य् अहम्भावतां प्राप्तो भावाभावैस् स गृह्यते । आत्मनो नास्त्य् अहम्भावो भावाभावाः कुतो ऽस्य ते
अहम्भावो मुधा मोहो मनश् च मृगतृष्णिका । जडः पदार्थसम्भारः कस्याहम्भावभावना