रसनाभावम् आगत्य गर्धेनान्ध दुरन्धसाम् । मा नाशम् एहि बडिशपिण्डीलम्पटमत्स्यवत्
चाक्षुषीं वृत्तिम् आश्रित्य स्त्र्यादिरूपामयोन्मुखीम् । मा गच्छ दग्धतां मुग्ध कान्तिलुब्धपतङ्गवत्
घ्राणमार्गम् उपाश्रित्य शरीराम्भोजकोटरे । गन्धोन्मुखतया बन्धं मा समाश्रय भृङ्गवत्
कुरङ्गालिपतङ्गेभमीनास् त्व् एकैकशो हताः । सर्वैर् एतैर् अनर्थैस् तु व्याप्तस्याज्ञ कुतस् सुखम्
हे चित्त वासनाजालं बन्धाय भवतोम्भितम् । स्वात्मनस् सहजः फेनस् तान्तवः क्रिमिणा यथा
शरदभ्रवद् आगत्य शुद्धिं त्यक्तमलामयाम् । यदि शाम्यसि निर्मूलं तद् अनन्ता जयास् तव
क्षयोदयदशादात्रीः पर्यन्तपरितापिनीः । जानन्न् अपि जगद्दृष्टीर् न त्यक्ष्यसि विनङ्क्ष्यसि
करोम्य् अथ किमर्थं वा तवैतद् अनुशासनम् । विचारणवतः पुंसश् चित्तम् अस्ति हि नानघ
यावद् अज्ञानघनता तावत् प्रघनचित्तता । यावत् प्रावृट्प्रबलता तावन् नीहारभूरिता
यावद् अज्ञानतनुता तावच् चित्तस्य तानवम् । प्रावृट्परिक्षयो यावत् तावन् नीहारसङ्क्षयः
यावत् तानवम् आयातं शुद्धं चित्तं विचारवत् । तावत् तत् क्षीणम् एवाहं मन्ये शारदमेघवत्
अनुशासनम् एतद् यद् असतो नश्यतो ऽथ वा । क्रियते तन् नभोवारिपवनाहननैस् समम्
तस्मात् सङ्क्षीयमाणं त्वां त्यजाम्य् अहम् असन्मयम् । मौर्ख्यं परमम् एवाहुः परित्याज्यानुशासनम्
निर्विकल्पो ऽस्मि चिद्दीपो निरहङ्कारवासनः । त्वयाहङ्कारबीजेन न सम्बद्धो ऽस्म्य् असन्मय
अयं सो ऽहम् इति व्यर्थं दुर्दृष्टिर् अवलम्बिता । त्वया मूढ विनाशाय शङ्काविषविषूचिका
अनन्तस्यात्मतत्त्वस्य तन्वी मतिमती स्थितिः । न सम्भवति बिल्वान्तर् वासिता दन्तिनो यथा
महास्खदेव गम्भीरा दुःखदा वासनाश्रिता । त्वयैषा तद् असत्पातिर् नैनाम् अनुसराम्य् अहम्
कः किलायं मुधा मोहो बालस्येवाविचारिणः । अयं सो ऽहम् इति भ्रान्तिसन्दर्भपरिकल्पितः
पादाङ्गुष्ठाच् छिरो यावत् कणशः प्रविचारितम् । न लब्धो ऽसाव् अहं नाम कस् स्याद् अहं इति स्थितः
भरिताशेषदिक्कुञ्जं पश्याम्य् एकं जगत्त्रये । संवेदनम् असंवेद्यं सर्वत्र विततात्मकम्
दृश्यते तस्य नेयत्ता न नाम परिकल्पना । नैकता नान्यता चैव न महत्ता न चाणुता
वेदनं त्वम् असंवेद्यं मयि चेद् दुःखकारणम् । विवेकजेन भेदेन तद् इदं हन्यसे मया
इदं मांसं इदं रक्तम् इमान्य् अस्थीनि देहके । इमे ते श्वासमरुतः को ऽसाव् अहम् इति स्थितः
मांसम् अन्यद् असृक् चान्यद् अस्थीन्य् अन्यानि चित्त हे । बोधो ऽन्यस् स्पन्दनं चान्यत् को ऽसाव् अहम् इति स्थितः
इदं घ्राणम् इयं जिह्वा त्वग् इयं श्रवणे इमे । इदं चक्षुर् अयं स्पन्दः को ऽसाव् अहम् इति स्थितः
यथाभूततया नाहम् अस्मि न त्वं न वासना । आत्मा शुद्धश् चिदाभासः केवलो ऽयं विजृम्भते
अहम् एवेह सर्वत्र नाहं किञ्चिद् अपीह वा । इत्य् एव सन्मयी दृष्टिर् नेतरो विद्यते क्रमः
चिरम् अज्ञानधूर्तेन पोथितो ऽस्म्य् अत्य् अहन्तया । वृकेण दृप्तेनाटव्यां लब्ध्वेव पशुपोतकः
दिष्ट्येदानीं परिज्ञातो मयैषो ऽज्ञानतस्करः । पुनर् न संश्रयाम्य् एनं स्वरूपार्थापहारिणम्
निर्दुःखो दुःखयोग्यस्य नाहम् अस्य न चैष मे । कश्चिद् भवति शैलस्य तत्स्थ एव यथाम्बुदः