न लोचनाहितालोकां नात्युष्णां नातिशीतलाम् । शारदस्योदितार्कस्य हेमगौरीं प्रभाम् इव
नाल्पालोकपरिम्लानां कोमलाशब्दमारुताम् । मञ्जरीजटिलोपान्तां बालां मालावतीम् इव
उपशमपदवीम् इवात्तरूपां कमलजविश्रमणाय योग्यरूपाम् । कुसुमनिकरकोमलाभिरामां सरसिजकोटरसुन्दरीं समन्तात्
स तां विवेश धर्मात्मा गन्धमादनकन्दराम् । चिरभ्रमणसम्प्राप्ताम् अलिः पद्मकुटीम् इव
समाधानोन्मुखतया प्रविशन् स व्यराजत । सर्गव्यापारविरताव् आत्मपुर्याम् इवाब्जजः
चकारासनम् आनीलैः पत्त्रैर् अन्तस्स्थगुच्छकम् । मृदु मेघविधिर् वृन्दम् आम्भोदम् इव तत्र सः
तस्य प्रसारयाम् आस पृष्ठे चारु मृगाजिनम् । नीलरत्नतटे मेरोस् ताराशारम् इवाम्बरम्
तत्रोपाविशद् आवेशं चैतसं तनुतां नयन् । अन्तश्शुद्धवपुश् शृङ्गे वृष्टमूक इवाम्बुदः
बुद्धवत् सुदृढाबद्धपद्मासन उदङ्मुखः । पार्ष्णिभ्यां वृषणौ धृत्वा चकार ब्राह्मम् अञ्जलिम्
वासनाभ्यस् समाहृत्य मनोमृगपरिप्लुतम् । निर्विकल्पसमाध्यर्थं चकारेमां विचारणाम्
अयि मूर्ख मनः को ऽर्थस् तव संसारवृत्तिभिः । धीमन्तो न निषेवन्ते पर्यन्ते दुःखदां क्रियाम्
अनुधावति यो भोगांस् त्यक्त्वा शमरसायनम् । स त्यक्तमन्दारवनः प्रयाति विषजङ्गलम्
यदि यासि महीरन्ध्रं ब्रह्मलोकम् अथापि वा । तन् न निर्वृतिम् आयासि त्वं विनोपशमामृतम्
आशाशतावपूर्णत्वं त्वम् इदं सर्वदुःखदम् । त्यज याहि परं श्रेयः पदम् एकान्तसुन्दरम्
इमा विचित्राः कलना भावाभावमयात्मिकाः । दुःखायैव तवोग्राय न सुखाय कदाचन
शब्दादिकाभिर् एताभिः किं मूढ हतवृत्तिभिः । भ्रमस्य् अविरतं व्यर्थम् एव मण्डूकिका यथा
मनोमण्डूकिके व्यर्थम् इयन्तं कालम् अन्धया । भ्रमन्त्या भुवनं विष्वक् किं समासादितं त्वया
यस्मात् किञ्चित् तद् आप्नोषि यस्मिन् भजसि निर्वृतिम् । तस्मिंश् चित्त शमे मूर्ख नानुबध्नासि किं पदम्
आगत्य श्रोत्रतां मूर्ख व्यर्थोत्थानोपबृंहिताम् । धिया शब्दानुसारिण्या मृगवन् मा क्षयं व्रज
त्वक्ताम् आगत्य दुःखाय स्पर्शोन्मुखतयानया । मूर्ख मा बद्धताम् एहि गजीलुब्धगजेन्द्रवत्
रसनाभावम् आगत्य गर्धेनान्ध दुरन्धसाम् । मा नाशम् एहि बडिशपिण्डीलम्पटमत्स्यवत्
चाक्षुषीं वृत्तिम् आश्रित्य स्त्र्यादिरूपामयोन्मुखीम् । मा गच्छ दग्धतां मुग्ध कान्तिलुब्धपतङ्गवत्
घ्राणमार्गम् उपाश्रित्य शरीराम्भोजकोटरे । गन्धोन्मुखतया बन्धं मा समाश्रय भृङ्गवत्
कुरङ्गालिपतङ्गेभमीनास् त्व् एकैकशो हताः । सर्वैर् एतैर् अनर्थैस् तु व्याप्तस्याज्ञ कुतस् सुखम्
हे चित्त वासनाजालं बन्धाय भवतोम्भितम् । स्वात्मनस् सहजः फेनस् तान्तवः क्रिमिणा यथा
शरदभ्रवद् आगत्य शुद्धिं त्यक्तमलामयाम् । यदि शाम्यसि निर्मूलं तद् अनन्ता जयास् तव
क्षयोदयदशादात्रीः पर्यन्तपरितापिनीः । जानन्न् अपि जगद्दृष्टीर् न त्यक्ष्यसि विनङ्क्ष्यसि
करोम्य् अथ किमर्थं वा तवैतद् अनुशासनम् । विचारणवतः पुंसश् चित्तम् अस्ति हि नानघ
यावद् अज्ञानघनता तावत् प्रघनचित्तता । यावत् प्रावृट्प्रबलता तावन् नीहारभूरिता
यावद् अज्ञानतनुता तावच् चित्तस्य तानवम् । प्रावृट्परिक्षयो यावत् तावन् नीहारसङ्क्षयः