कदाशाकौशिकीकीर्णा जाड्यजीर्णहृदम्बुजा । क्षयम् एष्यति कृष्णेयं कदा मे मोहयामिनी
कदोपशान्तमननो धरणीधरकन्दरे । समेष्यामि शिलासाम्यं निर्विकल्पसमाधिना
कदा मे चित्तमातङ्गस् स्वाभिमानमहामदः । तत्त्वावबोधहरिणा हतो नाशम् उपैष्यति
निरंशध्यानविश्रान्तिमूकस्य मम मूर्धनि । कदा कर्णे करिष्यन्ति कुलायं वनपुत्तिकाः
कदा निश्शङ्कम् उरसि ध्यानाधीनधियः खगाः । मम विश्रान्तिम् एष्यन्ति शैलस्थाणुतलस्थितेः
तृष्णाकरञ्जजटिलां जन्मजर्जरगुल्मकाम् । संसारारण्यसरणिं त्यक्त्वा यास्याम्य् अहं कदा
इति चिन्तापरवशो वन उद्दालको द्विजः । पुनः पुनस् तूपविश्य ध्यानाभ्यासं चकार सः
विषयैर् नीयमाने तु चित्ते मर्कटचञ्चले । न स लेभे समाधानप्रतिष्ठां प्रीतिदायिनीम्
कदाचिद् बाह्यसंस्पर्शपरित्यागाद् अनन्तरम् । तस्यागच्छच् चित्तकपिः प्रोद्वेगं तत्त्वसंस्थितौ
कदाचिद् आन्तरान् स्पर्शान् परित्यज्य मनःकपिः । लोलत्वात् तस्य संयातो विषयं विषलुब्धवत्
कदाचिद् आन्तरार्काभं तेजो दृष्ट्वान्तरे मनः । विषयोन्मुखतां यातं तस्य तामरसेक्षण
अन्तर् आन्ध्यतमस्त्यागं कृत्वा विषयलम्पटम् । तस्योड्डीय मनो याति कदाचित् त्रस्तपक्षिवत्
बाह्यान् आभ्यन्तरान् स्पर्शांस् त्यक्त्वा निद्रां च तन्मनः । तमस् तेजश् च नो लेभे कदाचिच् छाश्वतीं स्थितिम्
इति पर्याकुलास्व् अन्तस् सो ऽलुठद् ध्यानवृत्तिषु । दरीष्व् अन्वहम् उग्रासु वातभग्न इव द्रुमः
अतिष्ठल् लूनसंरूढमना मननसङ्कटे । यथा दोलायितवपुस् तृणं तीरतरङ्गके
अथ पर्याकुलमतिर् विजहारारतिर् गिरौ । प्रत्यहं दिवसाधीशो महामेराव् इवैककः
समग्रभूतदुष्प्रापाम् एकदा प्राप कन्दराम् । संशान्तसर्वसञ्चारां मुनिर् मोक्षदशाम् इव
अपर्याकुलितां वातैर् अप्राप्तमृगपक्षिणीं । अदृष्टां देवगन्धर्वैः परमाकाशशोभनाम्
पुष्पप्रकरसञ्छन्नां मृदुशाद्वलकोमलाम् । ज्योतीरसाश्मसम्प्रोतैः कृतां मरकतैर् इव
सिद्धगीतलसच्छायां प्रकटां रत्नदीपकैः । सुगुप्तां वनदेवीनाम् अन्तःपुरकुटीम् इव
न लोचनाहितालोकां नात्युष्णां नातिशीतलाम् । शारदस्योदितार्कस्य हेमगौरीं प्रभाम् इव
नाल्पालोकपरिम्लानां कोमलाशब्दमारुताम् । मञ्जरीजटिलोपान्तां बालां मालावतीम् इव
उपशमपदवीम् इवात्तरूपां कमलजविश्रमणाय योग्यरूपाम् । कुसुमनिकरकोमलाभिरामां सरसिजकोटरसुन्दरीं समन्तात्
स तां विवेश धर्मात्मा गन्धमादनकन्दराम् । चिरभ्रमणसम्प्राप्ताम् अलिः पद्मकुटीम् इव
समाधानोन्मुखतया प्रविशन् स व्यराजत । सर्गव्यापारविरताव् आत्मपुर्याम् इवाब्जजः
चकारासनम् आनीलैः पत्त्रैर् अन्तस्स्थगुच्छकम् । मृदु मेघविधिर् वृन्दम् आम्भोदम् इव तत्र सः
तस्य प्रसारयाम् आस पृष्ठे चारु मृगाजिनम् । नीलरत्नतटे मेरोस् ताराशारम् इवाम्बरम्
तत्रोपाविशद् आवेशं चैतसं तनुतां नयन् । अन्तश्शुद्धवपुश् शृङ्गे वृष्टमूक इवाम्बुदः
बुद्धवत् सुदृढाबद्धपद्मासन उदङ्मुखः । पार्ष्णिभ्यां वृषणौ धृत्वा चकार ब्राह्मम् अञ्जलिम्
वासनाभ्यस् समाहृत्य मनोमृगपरिप्लुतम् । निर्विकल्पसमाध्यर्थं चकारेमां विचारणाम्