वित्तबन्धुवयःकर्मविद्याविज्ञानचेष्टितैः । समानि सन्ति भूतानि सर्गे सर्गे पुनः पुनः
क्वचित् सर्गशतैस् तानि भवन्ति न भवन्ति वा । कदाचिद् अपि मायेयम् इत्थम् अन्तविवर्जिता
गच्छतीयं विपर्यासं भूरिभूतपरम्परा । बीजराशिर् इवाजस्रम् उप्यमानः पुनः पुनः
तेनैव सन्निवेशेन तथान्येन पुनः पुनः । सर्गाकाराः प्रवर्तन्ते तरङ्गाः कालवारिधेः
आश्वस्तान्तःकरणः क्षीणविकल्पस् स्वरूपसारमयः । परमशमामृततृप्तस् तिष्ठति विद्वान् निरावरणः
सौम्याम्बुत्वे तरङ्गत्वे सलिलस्याम्बुता यथा । समैवाब्धौ तथादेहसदेहत्वविमुक्तता
सदेहा वास्त्व् अदेहा वा मुक्तता विषयेन वः । अनास्वादितभोज्यस्य कुतो भोज्यानुभूतयः
जीवन्मुक्तं मुनिश्रेष्ठ केवलं हि पदार्थवत् । पश्यामः पुरतो नास्य पुनर् विद्मो ऽन्तराशयम्
सदेहादेहमुक्तानां भेदः को ऽभेदरूपिणाम् । यद् एवाम्बु तरङ्गत्वे सौम्यत्वे ऽपि तद् एव तत्
न मनाग् अपि भेदो ऽस्ति सदेहादेहमुक्तयोः । सस्पन्दो ऽस्त्व् अथ वास्पन्दो वायुर् एव किलानिलः
सदेहा वा विदेहा वा मुक्तता न प्रमास्पदम् । अस्माकम् अस्यास् तु यदा स्वैकतास्त्य् अविभागिनी
तस्मात् प्रकृतम् एवेदं शृणु श्रवणभूषणम् । मयोपदिश्यमानं त्वं ज्ञानम् अज्ञान्ध्यनाशनम्
सर्वम् एवेह हि सदा संसारे रघुनन्दन । सम्यक्प्रयुक्तात् सर्वेण पौरुषात् समवाप्यते
इह हीन्दोर् इवोदेति शीतलाह्लादनं हृदि । परिस्पन्दफलप्राप्तौ पौरुषाद् एव नान्यतः
पौरुषस्पन्दफलवद् दृष्टं प्रत्यक्षतो न यत् । कल्पितं मोहिभिर् मन्दैर् दैवं किञ्चिन् न विद्यते
साधूपदेशशास्त्रेण यन् मनोऽङ्गविचेष्टितम् । तत् पौरुषं तत् सफलम् अन्यद् उन्मत्तचेष्टितम्
यो यम् अर्थं कामयते तद् अर्थं चेहते क्रमात् । अवश्यं तम् अवाप्नोति न चेद् अर्धान् निवर्तते
पौरुषेण प्रयत्नेन त्रैलोक्यैश्वर्यसुन्दरीम् । कश्चित् प्राणिविशेषो हि शक्रतां समुपागतः
पौरुषेण प्रयत्नेन सहसाम्भोरुहास्पदाम् । कश्चिद् एव चिदुल्लासो ब्रह्मताम् अधिगच्छति
सारेण पुरुषार्थेन स्वेनैव गरुडध्वजाम् । कश्चिद् एव पुमान् एष पुरुषोत्तमतां गतः
पौरुषेणैव यत्नेन ललनावलनाकृतिम् । शरीरी कश्चिद् एवेह गतश् चन्द्रार्धचूडताम्
प्राक्तनं चैहिकं चेति द्विविधं विद्धि पौरुषम् । प्राक्तनो ऽद्यतनेनाशु पुरुषार्थेन जीयते
यत्नवद्भिर् दृढाभ्यासैः प्रज्ञोत्साहसमन्वितैः । मेरवो ऽपि निगीर्यन्ते कैव प्राक्पौरुषे कथा
शास्त्रनियन्त्रितपौरुषपरमा पुरुषस्य पुरुषता या स्यात् । अभिमतफलभरसिद्ध्यै भवति हि सान्या त्व् अनर्थाय
कस्याञ्चित् स्वयम् आत्मदुस्स्थितिवशात् पुंसो दशायां शनैर् अङ्गुल्यग्रनिपीडितैकचुलुकाद् आचामबिन्दुर् बहुः । कस्याञ्चिज् जलराशिपर्वतपुरद्वीपान्तरालङ्कृता कर्तव्योचितसंविभागकरणे पृथ्वी न पृथ्वी भवेत्
प्रवृत्तिर् एवं प्रथमं यथाशास्त्रं विहारिणाम् । प्रभेव वर्णभेदानां साधनी सर्वकर्मणाम्
मनसा वाञ्छ्यते यत् तु यथाशास्त्रं न कर्मणा । साध्यते मत्तलीलासौ मोहनी नार्थसाधनी
यथा सञ्चेत्यते येन तथा तेनानुभूयते । स्वकर्मैवेति वास्त्व् अन्या व्यतिरिक्ता न दैवदृक्
उच्छास्त्रं शास्त्रितं चेति पौरुषं द्विविधं स्मृतम् । तत्रोच्छास्त्रम् अनर्थाय परमार्थाय शास्त्रितम्
द्वौ हुडाव् इव युध्येते पुरुषार्थौ समासमौ । आत्मीयश् चान्यदीयश् च जयत्य् अतिबलस् तयोः