कालेन च महाक्षेत्रे जातेयं बुद्धिवल्लरी । वृद्धिं विवेकसेकेन नयैनां नयकोविद
यावन् म्लायति नो कायकलिका कलिभस्मना । भूतले पतितां तावद् एनाम् उद्धृत्य धारय
मद्वाक्यार्थैकतत्त्वज्ञ मद्वाक्यार्थैकभावनात् । सुखम् आप्नोषि सर्पारिर् यथाभ्ररवभावनात्
उद्दालकवद् आलूनविशीर्णं भूतपञ्चकम् । कृत्वा कृत्वा धिया धीर धीरयान्तर् विचारय
केन क्रमेण भगवन् मुनिनोद्दालकेन तत् । भूतपञ्चकम् आलूनं कृत्वान्तः प्रविचारितम्
शृणु राम यथा पूर्वं भूतवृन्दविचारणात् । उद्दालकेन सम्प्राप्ता परमा दृष्टिर् अक्षता
जगज्जीर्णगृहस्यास्य कोणे कस्मिंश्चिद् आतते । भूमेर् अनिलदिङ्नाम्नि भूभृद्भाण्डभराकुले
गन्धमादनशैलेन्द्रनाम्नी काचित् किल स्थली । विद्यते कीर्णकुसुमा कर्पूरद्रुमधूसरा
विचित्रवर्णविहगा नानावनविलासिनी । वनेचरव्याप्ततटी पुष्पकेसरहासिनी
क्वचित् स्थितमहारत्ना क्वचिन् नीलाम्बुदोत्पला । क्वचिन् नीहारकवरी सरसीदर्पणा क्वचित्
तत्र कस्मिंश्चिद् उदिते सानौ सफलपादपे । आगुल्फकीर्णकुसुमे स्निग्धच्छायामहाद्रुमे
उद्दालको नाम मुनिर् मौनी मानी महामतिः । अप्राप्तयौवनः पूर्वम् उवासोद्दामतापसः
प्रथमं तु बभूवासाव् अल्पप्रज्ञाविचारवान् । अप्राप्तपदविश्रान्तिर् अप्रबुद्धशुभाशयः
ततः क्रमेण तपसा शास्त्रार्थनियमैर् यमैः । विवेक आजगामैनं नवर्तुर् इव भूतलम्
अथेदं चिन्तयाम् आस संसारभयभीतधीः । एकान्त एव निवसन् कदाचित् क्लान्तमानसः
किं तत् प्राप्यं प्रधानं स्याद् यद् विश्रान्तौ न शोच्यते । यत् प्राप्य जन्मना भूयस् सम्बन्धो नोपजायते
कदाहं त्यक्तमननः पदे परमपावने । विश्रान्तिं चिरम् एष्यामि मेरुशृङ्ग इवाम्बुदः
कदा शमम् उपेष्यन्ति ममान्तर् भोगवासनाः । आलोलकल्लोलरवा ऊर्मयो ऽम्बुनिधाव् इव
इदं कृत्वेदम् अप्य् अन्यत् कर्तव्यम् इति कल्पनाम् । कदान्तर् विहसिष्यामि पदविश्रान्तया धिया
कदा विकल्पजालं मे न लगिष्यति चेतसि । स्थितम् अप्य् उज्झितासङ्गं पयः पद्मदले यथा
कदा बहलकल्लोलां नावा परमया धिया । परितीर्णो भविष्यामि तृष्णामत्ततरङ्गिणीम्
कदेमां जागतैर् भूतैः क्रियमाणाम् असन्मयीम् । क्रियाम् उपहसिष्यामि बाललीलाम् इवाफलाम्
कदा विकल्पपर्यस्तमनोदोलावदोलनम् । प्रशमिष्यति मे शान्तपानौजस इव भ्रमः
कदोदितवपुर्भास्वान् विहसञ् जागतीर् गतीः । अन्तस् सन्तोषम् एष्यामि विराडात्मेव पूर्णधीः
शान्तश् समसमाचारस् सोम्यस् सर्वार्थनिस्स्पृहः । कदोपशमम् एष्यामि मन्थोन्मुक्तमहाब्धिवत्
कदेमाम् अखिलां दृश्यश्रियम् आशाशतात्मिकाम् । सर्वां सुषुप्तवत् पश्यन् भविष्याम्य् अन्तराततः
सबाह्याभ्यन्तरं सर्वं शान्तकल्पनया धिया । पश्यंश् चिन्मात्रम् अखिलं भावयिष्याम्य् अहं कदा
कदोपशान्तचित्तात्मा चित्ताम् उपगतः पराम् । परमालोकम् एष्यामि जात्यान्ध्यविगमाद् इव
कदाभ्यासोपलब्धेन चित्प्रकाशेन चारुणा । दूराद् आलोकयिष्यामि तन्वीं कालकलाम् इमाम्
ईहितानीहितोन्मुक्तो हेयोपादेयवर्जितः । कदान्तस् तोषम् एष्यामि स्वप्रकाशपदस्थितः