भोगाभोगतिरस्कारैः कार्श्यं नेयं मनश् शनैः । रसापहारैस् तज्ज्ञेन कालेनाजीर्णपर्णवत्
अनात्मन्य् आत्मभावेन देहमात्रास्थयानया । पुत्रदारकुटुम्बैश् च चेतो गच्छति पीनताम्
अहङ्कारविकारेण ममतामलहेलया । इदं ममेति भावेन चेतो गच्छति पीनताम्
जरामरणदुःखेन व्यर्थम् उन्नतिम् ईयुषा । दोषाशीविषकोशेन चेतो गच्छति पीनताम्
दुराशाक्षीरपानेन भोगानिलबलेन च । आस्थादानेन चानेन चित्ताहिर् याति पीनताम्
आधिव्याधिविलासेन समाश्वासेन संसृतौ । हेयादेयप्रयत्नेन चेतो गच्छति पीनताम्
आगमापायवपुषा विषवैषम्यशंसिना । भोगाभोगेन पीनेन चित्ताहिर् याति पीनताम्
शरीरदुश्श्वभ्रचिरप्ररूढं चिन्ताचयोच्चाकृतिमञ्जरीकम् । जरामृतिव्याधिफलावनम्रं कामोपभोगौघविकासिपुष्पम्
विचारसारक्रकचेन चित्तविषद्रुमं त्वं द्रुतम् इन्दुकल्प । आशामहाशाखम् अशङ्कम् एव च्छिन्द्धि प्रसह्यार्द्रविकल्पपत्त्रम्
मत्तं क्षणं चैकतटोपवेशविश्रान्तिसौख्येष्व् असमर्थम् उग्रम् । आलोडनोत्कं सुजनक्रमाब्जषण्डस्य चण्डं सुखदुःखगण्डम्
चेतोगजं कायकुकाननस्थं सुतीक्ष्णया धीकरजाग्रपङ्क्त्या । विदारयादीर्घविकारदन्तं क्रियाकरं राघव राजसिंह
रतिं गतं नित्यम् असत्प्रदेशे शरीरमालाग्रसनेन पुष्टम् । धृष्टं क्रियाकर्कशचञ्चुचण्डम् एकेक्षणं पुष्टतमोऽंशकृष्णम्
दूरे समुत्सारय सारभूतं दुश्चेष्टितं कर्कशम् आरटन्तम् । गर्वोद्धतं कायकुलायकोशाद् दोषोपशान्त्यै निजचित्तकाकम्
तृष्णापिशाच्या परिचर्यमाणं विश्रान्तम् अज्ञानमहावटेषु । भ्रान्तं चिरं देहशतेष्व् अटव्यां स्वसंसृतौ चेतनवर्जितेषु
विवेकवैराग्यगुरुप्रयत्नमन्त्रैस् स्वतन्त्रैस् स्वचिदात्मगेहात् । नोत्सारितश् चित्तपिशाचको ऽयं यावत् कुतस् तावद् इहात्मसिद्धिः
शुभासुभाशीर्हतमानवौघं चिन्ताविषं कायकुकञ्चुकं च । अजस्रम् अच्छश्वसनाशनं च सर्वस्य रामाभयनाशनं च
हृदब्जदुश्शल्मलिकोटरस्थं भोगौघगर्हाखगमन्त्रशक्त्या । नीत्वा शमं राम मनोमहाहिं भयं भृशं प्रोज्झ्य भवाभयात्मा
अमङ्गलाकारधरश् शरीरशवावलीसन्ततसेवनेन । दिगावलीसम्भ्रमणश्रमार्तश् श्मशानसेवी वपुषा क्षतेन
भोगामिषे दिक्ष्व् अभिधावमान उत्कन्धरो धीरविवृद्धगर्वः । उड्डीय चेद् गच्छति चित्तगृध्रो देहद्रुमात् तन् निपुणं जयस् ते
भ्रान्तं वनान्तेषु दिगन्तरेषु फलार्थिनं चञ्चलम् आकुलाङ्गम् । जन्मावनेर् जन्ममहीं प्रयान्तं संसारपान्थं जनम् आहसन्तम्
द्रुमे ऽक्षिनासाकुसुमे भुजादिशाखे विलोलाङ्गुलिजालपत्त्रे । समुल्लसन्तं परिमारयैनं मनोमहामर्कटम् अङ्ग सिद्ध्यै
अभ्युत्थितं सत्फलसङ्क्षयाय लसत्सुखासङ्गतडित्प्रकाशम् । वर्षन्तम् आसारम् अनर्थसार्थम् आन्दोलितं वासनवात्ययान्तः
सङ्कल्प्यसङ्कल्पनवर्जनोग्रमन्त्रप्रभावाद् धृदयाम्बरात् त्वम् । सोत्साहम् उत्सादय चित्तमेघं महत् फलं प्राप्य भवालम् आढ्यः
ग्रन्थीकृतं कर्मभिर् आत्मसृष्टैश् शस्त्रैर् अभेद्यं ज्वलनैर् अदग्धम् । पीडां पराम् आत्मनि कल्पयन्तं समस्तजात्यन्तरदीर्घदाम
सम्प्रोतनिस्सङ्ख्यशरीरमालं बलाद् असङ्कल्पनमात्रशस्त्रैः । छित्त्वा स्वयं राघव चित्तपाशं यथासुखं त्वं विहरास्तशङ्कः
फूत्कारदग्धाखिलमार्गलोकम् अत्यन्तदुष्प्रापपरप्रबोधम् । आशाविषाशोषितलोकषण्डं वातामिषोच्छूनशरीरदण्डम्
आमन्थरं देहगुहाप्रसुप्तं सङ्कल्पघोराजगरं जवेन । अकामनानाममहानलेन बलेन दग्ध्वा विभयो भव त्वम्
चित्तेन चेतश् शमम् आशु नीत्वा शुद्धेन घोरास्त्रम् इवास्त्रयुक्त्या । चिराय साधो त्यज चञ्चलत्वं विमर्कटो वृक्ष इवाक्षतश्रीः
अलम् अलम् इति कृत्वा चेतसा वीतशङ्कं व्युपशमितमलो ऽन्तस् सर्वम् आदेहम् एव । तृणलवलघु पश्यंल् लीलयाहेयदृष्ट्या पिब विहर रमस्व प्राप्तसंसारपारः
परिदीर्घासु तन्वीषु कचन्तीष्व् असितासु च । क्षुरधारोपमानासु चित्तवृत्तिषु तिष्ठ मा