तैर् न लज्जामहे पुम्भिर् ये स्वभावम् उपागताः । शेषाः पुरुषनामानो गर्दभा दीर्घबाहवः
पर्वताः खर्वतां यान्ति पुरो ऽद्रेर् इव दन्तिनः । परां कोटिं प्रयातस्य स्वसंवित्त्युन्नतस्थितेः
आदृश्यद्रष्टृसीम्नो ऽन्तस् सूर्यादीन्य् अखिलान्य् अपि । न तेजांस्य् उपकुर्वन्ति स्वसंविद्दिव्यचक्षुषः
अवस्तुतां व्रजन्त्य् एते मध्याह्न इव दीपकाः । अर्कादयो महालोकविधाव् अधिगतात्मनः
तेजोऽंशुषु प्रभावेषु बलेष्व् अतिमहत्स्व् अपि । सर्वेषून्नतियुक्तेषु तत्त्वज्ञः परमोन्नतः
भान्ति भासा यथा सूर्यवह्नीन्दुमणितारकाः । तथा जगति राजन्ते ज्ञातज्ञेया नरोत्तमाः
धराविवरकीटेभ्यो गर्दभेभ्यो ऽपि मानवाः । तिर्यग्भ्यश् चाप्य् अतत्त्वज्ञा राम तुच्छतरास् स्मृताः
तावत् सम्मोहवेतालो देहो यावद् अनात्मवान् । आत्मज्ञ एव संयुक्तश् चेतनेनेति तद्विदः
अनात्मज्ञो हि दुर्देहः प्रस्फुरन्न् अपि भूतले । शव एव भ्रमत्य् उच्चैर् आत्मज्ञस् तु सचेतनः
दूरम् आत्मज्ञता याति चित्ते पीवरतां गते । आलोकलक्ष्मीर् अमला महामेघ इवोत्थिते
भोगाभोगतिरस्कारैः कार्श्यं नेयं मनश् शनैः । रसापहारैस् तज्ज्ञेन कालेनाजीर्णपर्णवत्
अनात्मन्य् आत्मभावेन देहमात्रास्थयानया । पुत्रदारकुटुम्बैश् च चेतो गच्छति पीनताम्
अहङ्कारविकारेण ममतामलहेलया । इदं ममेति भावेन चेतो गच्छति पीनताम्
जरामरणदुःखेन व्यर्थम् उन्नतिम् ईयुषा । दोषाशीविषकोशेन चेतो गच्छति पीनताम्
दुराशाक्षीरपानेन भोगानिलबलेन च । आस्थादानेन चानेन चित्ताहिर् याति पीनताम्
आधिव्याधिविलासेन समाश्वासेन संसृतौ । हेयादेयप्रयत्नेन चेतो गच्छति पीनताम्
आगमापायवपुषा विषवैषम्यशंसिना । भोगाभोगेन पीनेन चित्ताहिर् याति पीनताम्
शरीरदुश्श्वभ्रचिरप्ररूढं चिन्ताचयोच्चाकृतिमञ्जरीकम् । जरामृतिव्याधिफलावनम्रं कामोपभोगौघविकासिपुष्पम्
विचारसारक्रकचेन चित्तविषद्रुमं त्वं द्रुतम् इन्दुकल्प । आशामहाशाखम् अशङ्कम् एव च्छिन्द्धि प्रसह्यार्द्रविकल्पपत्त्रम्
मत्तं क्षणं चैकतटोपवेशविश्रान्तिसौख्येष्व् असमर्थम् उग्रम् । आलोडनोत्कं सुजनक्रमाब्जषण्डस्य चण्डं सुखदुःखगण्डम्
चेतोगजं कायकुकाननस्थं सुतीक्ष्णया धीकरजाग्रपङ्क्त्या । विदारयादीर्घविकारदन्तं क्रियाकरं राघव राजसिंह
रतिं गतं नित्यम् असत्प्रदेशे शरीरमालाग्रसनेन पुष्टम् । धृष्टं क्रियाकर्कशचञ्चुचण्डम् एकेक्षणं पुष्टतमोऽंशकृष्णम्
दूरे समुत्सारय सारभूतं दुश्चेष्टितं कर्कशम् आरटन्तम् । गर्वोद्धतं कायकुलायकोशाद् दोषोपशान्त्यै निजचित्तकाकम्
तृष्णापिशाच्या परिचर्यमाणं विश्रान्तम् अज्ञानमहावटेषु । भ्रान्तं चिरं देहशतेष्व् अटव्यां स्वसंसृतौ चेतनवर्जितेषु
विवेकवैराग्यगुरुप्रयत्नमन्त्रैस् स्वतन्त्रैस् स्वचिदात्मगेहात् । नोत्सारितश् चित्तपिशाचको ऽयं यावत् कुतस् तावद् इहात्मसिद्धिः
शुभासुभाशीर्हतमानवौघं चिन्ताविषं कायकुकञ्चुकं च । अजस्रम् अच्छश्वसनाशनं च सर्वस्य रामाभयनाशनं च
हृदब्जदुश्शल्मलिकोटरस्थं भोगौघगर्हाखगमन्त्रशक्त्या । नीत्वा शमं राम मनोमहाहिं भयं भृशं प्रोज्झ्य भवाभयात्मा
अमङ्गलाकारधरश् शरीरशवावलीसन्ततसेवनेन । दिगावलीसम्भ्रमणश्रमार्तश् श्मशानसेवी वपुषा क्षतेन
भोगामिषे दिक्ष्व् अभिधावमान उत्कन्धरो धीरविवृद्धगर्वः । उड्डीय चेद् गच्छति चित्तगृध्रो देहद्रुमात् तन् निपुणं जयस् ते
भ्रान्तं वनान्तेषु दिगन्तरेषु फलार्थिनं चञ्चलम् आकुलाङ्गम् । जन्मावनेर् जन्ममहीं प्रयान्तं संसारपान्थं जनम् आहसन्तम्