चित्तसंसारणाकाशकोटरे चित्तकुम्भखम् । विनाश्यातुलिताकाशरूपं स्वं रूपम् आविश
वर्तमानं क्रमायातं भजद् बाह्यधिया क्षणम् । भूतं भविष्यद् अभजद् याति चित्तम् अचित्तताम्
सङ्कल्पं सानुसन्धानवर्जनं चेत् प्रतिक्षणम् । करोषि तद् अचित्तत्वं प्राप्त एवासि पावनम्
यावत् सङ्कल्पकलनं तावच् चित्तविभूतयः । यावज् जलदविस्तारस् तावत् खे जलबिन्दवः
सचित्तं चेतनं यावत् तावत् सङ्कल्पकल्पनम् । सचन्द्रांशु जगद् यावत् तावत् प्रालेयलेशकाः
चेतनश् चित्तरिक्तश् चेद् भावितस् तत् कुसंसृतेः । आमूलम् एव दग्धानि विद्धि मूलानि सिद्धिमन्
चेतनं चित्तरिक्तं हि प्रत्यक्चेतनम् उच्यते । निर्मनस्कस्वभावं तन् न तत्र कलनामलः
सा सत्यता सा शिवता सा सत्ता पारमात्मिकी । सर्वज्ञता सा सा तृप्तिर् ननु यत्र मनः क्षतम्
मनो यत्र तु तत्रास्थास् तत्र दुःखसुखानि च । सदा सन्निधिम् आयान्ति श्मशान इव वायसाः
अवस्तुत्वावबोधेन सर्वभावव्यवस्थितेः । संसृतिव्रततेर् बीजं सङ्कल्पे नोपजायते
शास्त्रसज्जनसम्पर्कसन्तताभ्यासयोगतः । जागतानाम् अवस्तुत्वं भावानाम् अधिगम्यते
अविवेकाद् उपाहृत्य चेतस् स्वैर् यत्ननिश्चयैः । बलात्कारेण संयोज्यं शास्त्रसत्पुरुषक्रमे
मुख्यं कारणम् आत्मैव परमात्मावलोकने । अगाधे पतितं रत्नं रत्नेनैवावकृष्यते
स्वानुभूतानि दुःखानि स्वात्मैव त्यक्तुम् अर्हति । तेनात्मैवात्मविज्ञाने हेतुर् एकः परस् स्मृतः
प्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि । निरस्तमननानन्तसंविन्मात्रपरो भव
ममेदं तद् अयं सो ऽहम् इति सन्त्यज्य वासनाः । एकनिष्ठतयान्तस्स्थसंविन्मात्रपरो भव
वर्तमानभविष्यन्त्योस् स्थित्योर् आदेहम् एकधीः । स्वसंवित्त्यनुसन्धानात् समाधानपरो भव
पलायनेषु युद्धेषु दुःखेषु च सुखेषु च । जाग्रत्स्वप्नसुषुप्तेषु स्वसंवित्तिपरो भव
मलं संवेद्यम् उत्सृज्य मनो निर्मथ्य मन्थरम् । आशापाशान् अलं छित्त्वा स्वसंवित्तिपरो भव
अशुभाशुभसङ्केतस् संशान्ताशाविषूचिकः । नष्टेष्टानिष्टदृष्टिस् त्वं संवित्सारपरो भव
सकर्तृकर्मकरणान् स्वान् स्पर्शान् अन्तर् अस्पृशन् । निर्विकल्पनिरालम्बस् स्वचिन्मात्रपरो भव
जाग्रत्य् एव हि सौषुप्तीं भावयन् सुस्थिरां स्थितिम् । सर्वम् अस्तीति सञ्चिन्त्य सत्तैकात्मवपुर् भव
नानानानादशामुक्तो युक्तो मुक्ततयाशये । समग्रकलनादीपस् स्वचिन्मात्रपरो भव
आत्मतापरते त्यक्त्वा निर्विभागो जगत्स्थितौ । वज्रस्तम्भवद् आत्मानम् अवलम्ब्य स्थिरो भव
छित्त्वान्तर् मानसान् पाशान् आशारूपान् उदारया । धिया धैर्यैकधारिण्या निर्धर्माधर्मतां व्रज
समासादयतस् तत्त्वं स्वसंवेदनम् इत्य् अलम् । विषं हालाहलम् अपि यास्यत्य् अमृततां तव
तदोदेति महामोहस् संसृतिभ्रमकारणम् । निर्मलाया निरंशायास् स्वसंवित्तेश् च्युतिर् यदा
तदा सङ्क्षीयते मोहस् संसृतिभ्रमकारणम् । निर्मलायां निरंशायां स्वसंवित्तौ स्थितिर् यदा
स्वरूपम् अनुयातस्य तीर्णस्याशामहार्णवम् । प्रसरिष्यति ते संवित् सूर्यांशुर् इव सर्वतः
स्वभावम् आलोकयत आनन्दमयसंस्थितेः । रसायनम् अपि स्वादु राम प्रतिविषायते