यथा स्वप्नमनोराज्यधातुसंस्थितिषु भ्रमः । जाग्रत्य् अपि तथैवाङ्ग दृश्यते मनसा स्वयम्
भविष्यद्भूतकालस्थं यथा त्रैकाल्यदर्शिनः । प्रतिभाम् एति ते गाधे कटञ्जचरितं तथा
अयं सो ऽहम् इदं तन् मे इति मज्जति नात्मवान् । अयं सो ऽहम् इदं तन् मे इति पश्यत्य् अनात्मवान्
सर्वम् एवाहम् एवेति तत्त्वज्ञो नावसीदति । न गृह्णाति पदार्थेषु विभागानर्थभावनाम्
तेनासौ भ्रममोहेषु सुखदुःखविलासिषु । न निमज्जति मग्नो ऽपि तुम्बीपात्रम् इवाम्भसि
त्वं तावद् वासनाजालग्रस्तचित्तो विचेतनः । किञ्चिच्छेषमहाव्याधिर् इव न स्वास्थ्यम् आगतः
ज्ञानस्यापरिपूर्णत्वान् न शक्नोषि मनोभ्रमम् । विनिवारयितुं मेघम् असम्यङ्मन्त्रवान् इव
यद् एव ते मनोमात्रे सहसा प्रतिबिम्बते । तरुर् ओघजवेनेव तेनैवाक्रम्यसे क्षणात्
चित्तनाभेः कलास्येह मायाचक्रस्य सर्वतः । स्थीयते चेत् तद् आक्रम्य तन् न किञ्चित् प्रबाधते
त्वम् उत्तिष्ठ गिरेः कुञ्जे दशवर्षाण्य् अखिन्नधीः । तपः कुरु ततो ज्ञानम् अनन्ताभावम् आप्स्यसि
इत्य् उक्त्वा पुण्डरीकाक्षस् तत्रैवान्तरधीयत । वाताभ्रवद् दीपकवद् यमुनोत्पीडवत् क्षणात्
गाधिर् विवेकवशजं वैराग्यं परम् आगतः । शरत्समयपर्यन्ते वैरस्यम् इव पादपः
विचित्रं चेष्टितं धातुर् असमञ्जसम् आततम् । बृहद्भ्रमभरोन्मुक्तमतिर् मन्दम् अगर्हयत्
जगाम करुणार्द्रात्मा नियमायोत्तमश्रिये । विश्रान्त्यै वृष्टमूकात्मा पयोधर इवाचलम्
निरस्ताशेषसङ्कल्पस् तपस् तत्र चकार ह । दशवर्षाणि तेनासाव् आत्मज्ञानम् अवाप ह
अरमत तदनु स्वां प्राप्य सत्तां महात्मा व्यपगतभयमोहो भोगभूमाव् अनिच्छः । सततमुदितजीवन्मुक्तरूपः प्रशान्तस् सकल इव शशाङ्को घूर्णितापूर्णचेताः
एवम् एषातिवितता दुर्ज्ञाना रघुनन्दन । महामोहकरी माया विषमा पारमात्मिकी
क्व मुहूर्तद्वयस्वप्नसम्भ्रमालोकदृष्टता । क्वानेकवर्षसम्भुक्तश्वपचावनिपभ्रमः
क्व सम्भ्रमोपलब्धत्वं क्व प्रत्यक्षनिदर्शनम् । क्वासत्यत्वम् असन्दिग्धं क्व सत्यपरिणामिता
अतो वच्मि महाबाहो मायेयं विततेत्य् अलम् । असावधानमनसं योजयत्य् अतिसङ्कटे
एवम् अस्य कथं ब्रह्मन् मायाचक्रस्य रोधनम् । कुर्मः प्रबलिनो वेगात् सर्वाङ्गच्छेदकारिणः
अस्य संसाररूपस्य मायाचक्रस्य राघव । चित्तं विद्धि महानाभिं भ्रमतो भ्रमदायिनः
तस्मिन् नूनम् अवष्टब्धे धिया पुरुषयत्नतः । गृहीतनाभि वहनान् मायाचक्रं निरुध्यते
अवष्टब्धमनोनाभि मोहचक्रं न चोपति । यथा रज्ज्वां निरुद्धायां कीलकं रज्जुवेष्टितम्
चक्रयुद्धैकतज्ज्ञो ऽपि कस्माज् जानासि नानघ । चक्रं नाभाव् अवष्टब्धं वशम् आयाति नान्यथा
चित्तनाभाव् अवष्टभ्य तस्माद् यत्नेन राघव । संसारचक्रं वहनाद् आत्मनः परिरोधय
एतां युक्तिं विना दुःखम् अनन्तम् इदम् आत्मनः । अस्यां युक्तौ क्षणात् त्व् अन्तं गतम् एवावलोकय
चित्ताक्रमणमात्राख्यात् परमाद् औषधाद् ऋते । प्रयत्नेनापि संसारमहारोगो न शाम्यति
तस्माद् राघव सन्त्यज्य तीर्थदानतपःक्रियाः । श्रेयसे परमायान्तश् चित्तम् एव वशीकुरु
चित्तान्तर् एव संसारः कुम्भान्तः कुम्भखं यथा । चित्तनाशे न संसारः कुम्भनाशे न कुम्भखम्