उपलभ्य तथैवात्मवृत्तान्तं जनतस् ततः । हरिम् आराधयाम् आस पुनर् अद्रिगुहागतः
आजगामैनम् अल्पेन कालेनाथ जनार्दनः । सकृदाराधनेनैव माधवो याति बन्धुताम्
उवाच गाधिं भगवान् मयूरम् इव वारिदः । किं त्वं प्रार्थयसे भूयस् तपसेति प्रसादवान्
भ्रान्तो ऽस्मि देव षण्मासान् हूनकीरजनास्पदम् । तत्र व्यभिचरत्य् अस्मद्वृत्तान्तो न कथास्व् अपि
मायया हूनभूर् दृष्टा त्वयेत्य् उक्तो ऽस्मि किं प्रभो । मोहनाशाय महतां वचो नो मोहवृद्धये
काकतालीययोगेन चेतसि श्वपचस्थितिः । सर्वेषां हूनकीराणां तथैव प्रतिबिम्बिता
तेनाङ्ग तव वृत्तान्तं सत्यं यत् कथयन्ति ते । प्रतिभासो हि नायाति पुनर् अप्रतिभासताम्
केनचिच् छ्वपचेनान्ते ग्रामस्य रचितं गृहं । तत् तथा यत् त्वया दृष्टम् इष्टकाखण्डतां गतम्
कदाचित् प्रतिभैकैव बहूनाम् अपि जायते । काकतालीयगतिवद् विचित्रा हि मनोगतिः
तथा हि बहवस् स्वप्नम् एकं पश्यन्ति मानवाः । स्वापभ्रमदमैरेयमदमन्थरचित्तवत्
एकस्याम् एव लीलायां वनस्थल्याम् इवैणकाः
बहवस् तुल्यकालं च प्रतिभातेन कर्मणा । जना यतन्ते स्वफलपाकेनेव द्रुमा ऋतौ
प्रतिबन्धाभ्यनुज्ञानां कालो दातेति या श्रुतिः । विप्र सङ्कल्पमात्रो ऽसौ कालो ह्य् आत्मनि तिष्ठति
अमूर्तो भगवान् कालो ब्रह्मैव तम् अजं विदुः । न जहाति न चादत्ते किञ्चित् कस्यचिद् एव सः
लौकिको यस् त्व् अयं कालो वर्षकल्पयुगात्मकः । सङ्कल्प्यते पदार्थौघैः पदार्थौघाश् च तेन ते
समानप्रतिभासोत्थसम्भ्रमभ्रान्तचेतसः । तथा तद् दृष्टवन्तस् ते हूनकीरजनोच्चयाः
स्वव्यापारपरो भूत्वा धियात्मानं विचारयन् । साधो गतमनोमोहम् इहैवास्स्व व्रजाम्य् अहम्
इत्य् उक्त्वा भगवान् विष्णुर् जगामान्तर्धिम् ईश्वरः । अतिष्ठत् कन्दरे गाधिर् आधिपीवरया धिया
ततः कतिपयेष्व् अद्रौ मासेष्व् अपि गतेषु सः । पुनर् आराधयाम् आस पुण्डरीककरं द्विजः
ददर्श चैकदा नाथम् आगतं प्रणनाम तम् । पूजयाम् आस मनसा सोत्केनोवाच चेश्वरम्
भगवन् संस्मरंश् चित्रां ताम् आत्मश्वपचस्थितिम् । इमां संसारमायां च परिमुह्यामि चेतसा
तद् उक्त्वाशु यथावस्तु महामोहनिवृत्तये । एतस्मिन्न् एव विमले मां नियोजय कर्मणि
ब्रह्मञ् जगद् इदं मायामहाशम्बरडम्बरम् । सर्वा आश्चर्यकलनास् सम्भवन्तीह विस्तृते
हूनकीरपुरे मोहाद् दृष्टवांस् तत् तथा भवान् । इत्य् एतत् सम्भवत्य् एव दृश्यते हि जनैर् भ्रमः
हूनास् त्वम् इव कीराश् च दृष्टवन्तस् तथा भ्रमम् । मुधैवेत्य् अपि सत्याभं समकालादिसम्भवात्
इदं तु शृणु वक्ष्यामि यथाभूतम् अनिन्दित । येनैति तनुतां चिन्ता मार्गशीर्षलतेव ते
यो ऽसौ कटञ्जको नाम श्वपचो हूनमण्डले । तेनैव सन्निवेशेन स तथैवाभवत् पुरा
तथैव विकलत्रत्वं प्राप्य देशान्तरं गतः । बभूव कीरनृपतिः प्रविवेशानलं ततः
भवतः केवलं चित्ते जलान्तर्वर्तिनस् तदा । प्रतिभाता तथाभूता कटञ्जाचारसंस्थितिः
दृष्टानुभूतम् अत्यर्थं कदाचिद् विस्मरत्य् अलम् । कदाचिद् अप्य् अदृष्टं तु चेतः पश्यति दृष्टवत्