एवं सर्वं त्वया दृष्टं मोहजालं द्विजोत्तम । यत् सत्यम् इति जानासि यच् चासत्यम् अवैषि च
वासनावलितं चेतः किं नाम न न पश्यति । साधितं दृश्यते स्वप्ने वर्षसाध्यं प्रयोजनम्
नातिथिर् न च हूनास् ते न कीरास् ते न तत् पुरम् । सर्वम् एव महाबुद्धे व्यामोहाद् दृष्टवान् असि
गच्छता भवता हूनदेशं पान्थेन कन्दरे । कस्मिंश्चिद् विप्र विश्रान्तं कुरङ्गेणेव कानने
तथैव श्रममूढत्वाद् इदं तद् धूनमण्डलम् । इदं तच् छ्वपचागारम् इति दृष्टं न सत्यतः
तथैव कीरनगरं दृष्टवान् असि तत् तथा । तथैव नान्यथा वापि मायार्थी हि भवान् द्विज
सर्वदैव समग्रासु विहरन्न् असि दृष्टवान् । दिक्षु प्रोन्मत्तक इव विभ्रमं मनसा मुने
तद् उत्तिष्ठ निजम् कर्म कुर्वंस् तिष्ठोपशान्तधीः । न स्वकर्म विना श्रेयः प्राप्नुवन्तीह मानवाः
इति निगदितवान् स पद्मनाभो वनगततापसवृन्दपूज्यमानः । विबुधमुनिगणैः पवित्रहस्तैर् वृत उदधिं निजम् आस्पदं जगाम
अथ गाधिर् गते विष्णौ पुनर् हूनादिकाञ् जनान् । स्वसम्मोहविचारार्थं बभ्रामाभ्रम् इवाम्बरे
उपलभ्य तथैवात्मवृत्तान्तं जनतस् ततः । हरिम् आराधयाम् आस पुनर् अद्रिगुहागतः
आजगामैनम् अल्पेन कालेनाथ जनार्दनः । सकृदाराधनेनैव माधवो याति बन्धुताम्
उवाच गाधिं भगवान् मयूरम् इव वारिदः । किं त्वं प्रार्थयसे भूयस् तपसेति प्रसादवान्
भ्रान्तो ऽस्मि देव षण्मासान् हूनकीरजनास्पदम् । तत्र व्यभिचरत्य् अस्मद्वृत्तान्तो न कथास्व् अपि
मायया हूनभूर् दृष्टा त्वयेत्य् उक्तो ऽस्मि किं प्रभो । मोहनाशाय महतां वचो नो मोहवृद्धये
काकतालीययोगेन चेतसि श्वपचस्थितिः । सर्वेषां हूनकीराणां तथैव प्रतिबिम्बिता
तेनाङ्ग तव वृत्तान्तं सत्यं यत् कथयन्ति ते । प्रतिभासो हि नायाति पुनर् अप्रतिभासताम्
केनचिच् छ्वपचेनान्ते ग्रामस्य रचितं गृहं । तत् तथा यत् त्वया दृष्टम् इष्टकाखण्डतां गतम्
कदाचित् प्रतिभैकैव बहूनाम् अपि जायते । काकतालीयगतिवद् विचित्रा हि मनोगतिः
तथा हि बहवस् स्वप्नम् एकं पश्यन्ति मानवाः । स्वापभ्रमदमैरेयमदमन्थरचित्तवत्
एकस्याम् एव लीलायां वनस्थल्याम् इवैणकाः
बहवस् तुल्यकालं च प्रतिभातेन कर्मणा । जना यतन्ते स्वफलपाकेनेव द्रुमा ऋतौ
प्रतिबन्धाभ्यनुज्ञानां कालो दातेति या श्रुतिः । विप्र सङ्कल्पमात्रो ऽसौ कालो ह्य् आत्मनि तिष्ठति
अमूर्तो भगवान् कालो ब्रह्मैव तम् अजं विदुः । न जहाति न चादत्ते किञ्चित् कस्यचिद् एव सः
लौकिको यस् त्व् अयं कालो वर्षकल्पयुगात्मकः । सङ्कल्प्यते पदार्थौघैः पदार्थौघाश् च तेन ते
समानप्रतिभासोत्थसम्भ्रमभ्रान्तचेतसः । तथा तद् दृष्टवन्तस् ते हूनकीरजनोच्चयाः
स्वव्यापारपरो भूत्वा धियात्मानं विचारयन् । साधो गतमनोमोहम् इहैवास्स्व व्रजाम्य् अहम्
इत्य् उक्त्वा भगवान् विष्णुर् जगामान्तर्धिम् ईश्वरः । अतिष्ठत् कन्दरे गाधिर् आधिपीवरया धिया
ततः कतिपयेष्व् अद्रौ मासेष्व् अपि गतेषु सः । पुनर् आराधयाम् आस पुण्डरीककरं द्विजः
ददर्श चैकदा नाथम् आगतं प्रणनाम तम् । पूजयाम् आस मनसा सोत्केनोवाच चेश्वरम्