एवं वदन्तम् आलोक्य हरिं गाधिर् द्विजोत्तमः । अर्चाकुसुमपूरेण पादयोः पर्यपूजयत्
दत्तार्घं कीर्णकुसुमं प्रणम्याशु प्रदक्षिणैः । विष्णुम् आह द्विजो वाक्यम् अम्भोदम् इव चातकः
देव यैषा त्वया माया दर्शितातितमोमयी । महीं प्रातर् इवादित्यस् तां मे प्रकटतां नय
भ्रमं यत् पश्यति मनो वासनामलमालितम् । स्वप्नवत् स कथं देव जाग्रत्य् अपि हि दृश्यते
मुहूर्तम् उपलब्धात्मा जलान्तस् स्वप्नविभ्रमः । कथं प्रत्यक्षतां प्राप्तो ममामलपदास्पद
दैर्घ्यादैर्घ्ये च कालस्य शरीरस्य भवाभवौ । कथम् अत्र स्थितानि स्युर् मदीयश्वपचभ्रमे
गाधे स्वाधिविधूतस्य रूपम् अस्यैतद् आत्मजम् । चेतसो ऽदृष्टतत्त्वस्य यत् पश्यत्य् उरुविभ्रमम्
बहिर् न किञ्चिद् अप्य् अस्ति खाद्रिद्यूर्वीदिगादिकम् । एतत् स्वचित्त एवास्ति पत्त्रपुञ्ज इवाङ्कुरे
फलादि स्फारताम् एति यथैव बहिर् अङ्कुरात् । बहिः प्रकटतां याति तथा पृथ्व्यादि चेतसः
सत्यं पृथ्व्यादि चित्तस्थं न बहिस्स्थं कदाचन । अङ्कुरस्थं फलं वस्तु तस्माद् यस्मात् फलश्रियः
रूपालोकमनस्कारान् सत्ताकालक्रियाक्रमान् । कुम्भकारो घटम् इव चेतो हन्ति करोति च
आबालम् एतत् पुरुषैस् सर्वैर् एवानुभूयते । स्वप्नभ्रमवद् आवेगरागरोगादिदृष्टिषु
चित्ते वृत्तान्तलक्षाणि संस्थितान्य् आत्तवासने । पादपे फलपुष्पाणि मूलाक्रान्तावनाव् इव
त्यक्तावनेर् विटपिनो भूयः पत्त्राणि नो यथा । निर्वासनस्य जीवस्य पुनर् जन्मादि नो तथा
यत्रानन्तं जगज्जालं संस्थितं तेन चेतसा । श्वपचत्वं प्रकटितं यदि तद् विस्मयो ऽत्र किम्
अवबुद्धा श्वपचता प्रतिभासवशात् त्वया । यथैवानल्पसंरम्भा विचित्रापि विकारदा
तथैवातिथिर् आयातो भुक्तवान् सुप्तवान् द्विजः । कथां कथितवांश् चेति दृष्टवान् असि विभ्रमम्
तथैवोत्थाय गच्छामि प्राप्तो ऽहं हूनमण्डलम् । इमे हूना इमे ग्रामा दृष्टवान् इत्य् असि भ्रमम्
तथैवेदं कटञ्जस्य प्राक्तनं लुठितं गृहम् । जनैर् उक्तः कटञ्जश् च दृष्टवान् इत्य् असि भ्रमम्
तथैव कीरनगरं प्राप्तो ऽस्मि कथितं च मे । कीरैश् श्वपचराजत्वं दृष्टवान् इत्य् असि भ्रमम्
एवं सर्वं त्वया दृष्टं मोहजालं द्विजोत्तम । यत् सत्यम् इति जानासि यच् चासत्यम् अवैषि च
वासनावलितं चेतः किं नाम न न पश्यति । साधितं दृश्यते स्वप्ने वर्षसाध्यं प्रयोजनम्
नातिथिर् न च हूनास् ते न कीरास् ते न तत् पुरम् । सर्वम् एव महाबुद्धे व्यामोहाद् दृष्टवान् असि
गच्छता भवता हूनदेशं पान्थेन कन्दरे । कस्मिंश्चिद् विप्र विश्रान्तं कुरङ्गेणेव कानने
तथैव श्रममूढत्वाद् इदं तद् धूनमण्डलम् । इदं तच् छ्वपचागारम् इति दृष्टं न सत्यतः
तथैव कीरनगरं दृष्टवान् असि तत् तथा । तथैव नान्यथा वापि मायार्थी हि भवान् द्विज
सर्वदैव समग्रासु विहरन्न् असि दृष्टवान् । दिक्षु प्रोन्मत्तक इव विभ्रमं मनसा मुने
तद् उत्तिष्ठ निजम् कर्म कुर्वंस् तिष्ठोपशान्तधीः । न स्वकर्म विना श्रेयः प्राप्नुवन्तीह मानवाः
इति निगदितवान् स पद्मनाभो वनगततापसवृन्दपूज्यमानः । विबुधमुनिगणैः पवित्रहस्तैर् वृत उदधिं निजम् आस्पदं जगाम
अथ गाधिर् गते विष्णौ पुनर् हूनादिकाञ् जनान् । स्वसम्मोहविचारार्थं बभ्रामाभ्रम् इवाम्बरे