अथापश्यत् पुरे तस्मिन् नृपं सबलवाहनम् । देवं चक्रधरं द्रष्टुं मन्दिरान् निर्गतं बहिः
तं दृष्ट्वा स्थगिताकाशं बलरेणुपयोधरैः । प्राक्तनीं राजताम् स्मृत्वा स्वाम् उवाचातिविस्मितः
इमास् ताः कीरकामिन्यः पद्मगर्भोपमत्वचः । कनकद्रववर्णिन्यो लोलनीलोत्पलेक्षणाः
चामरौघा इमे चन्द्रकरसम्पिण्डपाण्डुराः । स्थिरनिर्झरसङ्काशाः काशपुष्पचया इव
कान्ताभिर् अवधूयन्ते वालव्यजनराशयः । इमास् ता नववल्लीभिः कुसुमानाम् इवर्द्धयः
इमास् ता मत्तमातङ्गघटा घटितमन्दिराः । सकल्पपादपा मेरोर् इव श्र्ङ्गपरम्पराः
एते ते यमशर्वेन्द्रकुबेरप्रतिमौजसः । सामन्ता वासवस्येव लोकपाला महीभृतः
इमास् तास् सर्वरत्नाढ्यास् सर्वाभिमतदास् तताः । कल्पवृक्षलताकुञ्जसुन्दर्यो गृहपङ्क्तयः
इदं तत् कीरजनताराज्यं प्राग् भुक्तम् अद्य मे । आत्मजन्मान्तराचार इव प्रत्यक्षतां गतम्
सत्यस्वप्न इवेदं मे जाग्रतो ऽपि पुरस् स्थितम् । न जाने किं कृतोत्थाना मायेयं प्रविजृम्भते
अहो नु खलु दीर्घेण मनोमोहेन जृम्भता । वैवश्यम् उपनीतो ऽहं जालेनेव शकुन्तकः
हा धिक् कष्टम् अबुद्धं मे मनो वासनया हतम् । पश्यतो भ्रमजालानि वितनोति शिशोर् इव
एषा हि माया महती तेन मे चक्रपाणिना । दर्शितेत्य् अधुना साधु मया स्मृतम् अखण्डितम्
तद् इदानीं तथा यत्नं करिष्ये गिरिकन्दरे । यथातिसम्भ्रमस्यास्य जाने मर्म यथास्थितम्
इति सञ्चिन्त्य नगराद् गाधिस् तप्तुं जगाम ह । कन्दरं प्राप्य शैलस्य तस्थौ सुश्रान्तसिंहवत्
तत्र संवत्सरं सार्धं पयश्चुलकभोजनः । तपश् चक्रे महातेजास् तुष्टये शार्ङ्गधन्वनः
अथास्य पुण्डरीकाक्षः पयोमूर्तिर् उपाययौ । प्रसादम् उत्पलश्यामश् शरदीव महाह्रदः
तम् आजगाम शैलेन्द्रकन्दरं द्विजमन्दिरम् । पयोधरवद् आत्माच्छच्छविर् व्योमन्य् अथावसत्
गाधे कच्चित् त्वया दृष्टा माया मम गरीयसी । दृष्टं त्वया जगज्जालचेष्टितं वेष्टितात्मकम्
चित्ताभिमत एतस्मिन् प्राप्ते सम्यग् अनिन्दित । तपो गिरितटे कुर्वन् किम् अन्यद् अभिवाञ्छसि
एवं वदन्तम् आलोक्य हरिं गाधिर् द्विजोत्तमः । अर्चाकुसुमपूरेण पादयोः पर्यपूजयत्
दत्तार्घं कीर्णकुसुमं प्रणम्याशु प्रदक्षिणैः । विष्णुम् आह द्विजो वाक्यम् अम्भोदम् इव चातकः
देव यैषा त्वया माया दर्शितातितमोमयी । महीं प्रातर् इवादित्यस् तां मे प्रकटतां नय
भ्रमं यत् पश्यति मनो वासनामलमालितम् । स्वप्नवत् स कथं देव जाग्रत्य् अपि हि दृश्यते
मुहूर्तम् उपलब्धात्मा जलान्तस् स्वप्नविभ्रमः । कथं प्रत्यक्षतां प्राप्तो ममामलपदास्पद
दैर्घ्यादैर्घ्ये च कालस्य शरीरस्य भवाभवौ । कथम् अत्र स्थितानि स्युर् मदीयश्वपचभ्रमे
गाधे स्वाधिविधूतस्य रूपम् अस्यैतद् आत्मजम् । चेतसो ऽदृष्टतत्त्वस्य यत् पश्यत्य् उरुविभ्रमम्
बहिर् न किञ्चिद् अप्य् अस्ति खाद्रिद्यूर्वीदिगादिकम् । एतत् स्वचित्त एवास्ति पत्त्रपुञ्ज इवाङ्कुरे
फलादि स्फारताम् एति यथैव बहिर् अङ्कुरात् । बहिः प्रकटतां याति तथा पृथ्व्यादि चेतसः
सत्यं पृथ्व्यादि चित्तस्थं न बहिस्स्थं कदाचन । अङ्कुरस्थं फलं वस्तु तस्माद् यस्मात् फलश्रियः