एवं मृता म्रियन्ते च मरिष्यन्ति च कोटयः । भूतानां या जगन्त्य् आसाम् उदितानि पृथक् पृथक्
दुर्वातभूकम्प इव पिशाचत्रस्तबालवत् । मुक्तालीवामले व्योम्नि नौस्पन्दतरुयानवत्
स्वप्नसंवित्तिपुरवत् स्मृतिजातखवृक्षवत् । जगत्संसरणं स्वान्तर् मृतो ऽनुभवति स्वयम्
तत्रातिपरिणामेन तद् एव घनतां गतम् । इह लोको ऽयम् इत्य् एव जीवाकाशे विजृम्भते
पुनस् तत्रैव जन्मेहामरणाद्यनुभूतिमान् । परलोकं कल्पयति मृतस् तत्र तथा पुनः
तदन्तर् अन्ये पुरुषास् तेषाम् अन्तस् तथा परे । संसारा इति भान्तीमे कदलीदलपीठवत्
न पृथ्व्यादिमहाभूतगणा न च जगत्क्रमाः । मृतानां सन्ति तत्रापि तथाप्य् एषां जगद्भ्रमाः
अविद्यैवम् अनन्तेयं नानाप्रसवशालिनी । जडानां सरिद् आदीर्घा जगत्सर्गतरङ्गिणी
परमार्थाम्बुधौ स्फारे राम सर्गतरङ्गकाः । भूयो भूयो विवर्तन्ते त एवान्ये च भूरिशः
सर्वतस् सदृशाः केचित् कुलक्रममनोगुणैः । केचिद् अर्धेन सदृशाः केचिच् चातिविलक्षणाः
इमं व्यासमुनिं तत्र द्वात्रिंशं संस्मराम्य् अहम् । यथासम्भवया ज्ञानदृशा दर्शसमानया
द्वादशान्यधियस् तत्र कुलाकारेहितैस् समाः । दश सर्वसमाकाराश् शिष्टाः कुलविलक्षणाः
अद्याप्य् अन्ये भविष्यन्ति व्यासवाल्मीकयस् तथा । भृग्वङ्गिरःपुलस्त्याश् च तथैवाथान्य एव च
नानासुरर्षिदेवानां गणास् सम्भूय भूरिशः । उत्पद्यन्ते विलीयन्ते कदाचिच् च पृथक् पृथक्
ब्रह्मद्वासप्ततेस् त्रेता आसीद् अस्ति भविष्यति । स एवान्यश् च लोकश् च त्वं चाहं चेति वेद्म्य् अहम्
क्रमेणास्य मुनेर् इत्थं व्यासस्याद्भुतकर्मणः । संलक्ष्यते ऽवतारो ऽयं दशमो दीर्घदर्शिनः
अभूम व्यासवाल्मीकियुक्ता वयम् अनेकशः । अभूम वयम् एवेमे नानाकारास् समाशयाः
भाव्यम् अद्याप्य् अनेनेह ननु वाराष्टकं पुनः । भूयो ऽपि भारतं नाम स्वेतिहासं करिष्यति
कृत्वा वेदविभागं च नीत्वानेन कुलं प्रथाम् । ब्रह्मत्वं च ततो गत्वा भाव्यं वैदेहमोक्षिणा
वीतशोकभयश् शान्तो निर्वाणो गतकल्पनः । जीवन्मुक्तो जितमना व्यासो ऽयम् इति वर्णितः
वित्तबन्धुवयःकर्मविद्याविज्ञानचेष्टितैः । समानि सन्ति भूतानि सर्गे सर्गे पुनः पुनः
क्वचित् सर्गशतैस् तानि भवन्ति न भवन्ति वा । कदाचिद् अपि मायेयम् इत्थम् अन्तविवर्जिता
गच्छतीयं विपर्यासं भूरिभूतपरम्परा । बीजराशिर् इवाजस्रम् उप्यमानः पुनः पुनः
तेनैव सन्निवेशेन तथान्येन पुनः पुनः । सर्गाकाराः प्रवर्तन्ते तरङ्गाः कालवारिधेः
आश्वस्तान्तःकरणः क्षीणविकल्पस् स्वरूपसारमयः । परमशमामृततृप्तस् तिष्ठति विद्वान् निरावरणः
सौम्याम्बुत्वे तरङ्गत्वे सलिलस्याम्बुता यथा । समैवाब्धौ तथादेहसदेहत्वविमुक्तता
सदेहा वास्त्व् अदेहा वा मुक्तता विषयेन वः । अनास्वादितभोज्यस्य कुतो भोज्यानुभूतयः
जीवन्मुक्तं मुनिश्रेष्ठ केवलं हि पदार्थवत् । पश्यामः पुरतो नास्य पुनर् विद्मो ऽन्तराशयम्
सदेहादेहमुक्तानां भेदः को ऽभेदरूपिणाम् । यद् एवाम्बु तरङ्गत्वे सौम्यत्वे ऽपि तद् एव तत्
न मनाग् अपि भेदो ऽस्ति सदेहादेहमुक्तयोः । सस्पन्दो ऽस्त्व् अथ वास्पन्दो वायुर् एव किलानिलः