तत्रावलोकयाम् आस स्थानानि सदनानि च । कल्पक्षोभविवृत्तानि जगन्तीवाम्बुजोद्भवः
उवाच स्वात्मनैवेदम् अरण्ये लुठितालये । शुष्कास्थिमालावलिते पिशाचक इव भ्रमन्
इमास् ता मृतमातङ्गदन्तमाला वृतौ कृताः । अद्यापि संस्थिताः कल्पं प्रति मेरुशिखा इव
इह तद् वानरीमांसं पक्वं वंशाङ्कुरैस् सह । भुक्तं सुरासवोन्मत्तैस् सह श्वपचबन्धुभिः
आलिङ्ग्य श्वपचीं श्यामाम् इह केसरिचर्मणि । सुप्तम् आपीय मैरेयं तिक्तं गजमदैर् नवैः
कौलेयककुटुम्बिन्यः पिण्याकपरिवर्धिताः । इह बद्धा वरत्राभिर् मृतेभरदकाष्ठके
इह वारणमुक्तानां तद् आसीत् पिठिरत्रयम् । पिनद्धं माहिषेणोग्रचर्मणाम्बुदशोभिना
स्थलीष्व् एतासु तास्व् अत्र सह श्वपचबालकैः । चिरं विलुलितं चूतपत्त्रपुञ्जे पिकैर् इव
रूढतद्बालनिश्श्वासरणद्वंशानुवृत्तिमत् । गीतं पीतं शुनीरक्तसाधितासवतोषितैः
अत्र सार्धं कुटुम्बेन जन्यत्रेषु कुटुम्बिना । नृत्तं तत् कृतम् उन्नादं कल्लोलैर् जलधाव् इव
अत्रोड्डयनलोलानां काकभासपतत्रिणाम् । धृतानाम् अन्यघातार्थं ग्रथितं वंशपञ्जरम्
एवम्प्रायास् स्मरन् गाधिः प्राक्तनीश् श्वपचक्रियाः । विस्मयोत्कम्पितशिरा धातुश् चेष्टाः परामृशन्
चचाल तस्माद् दीर्घेण देशात् कालेन कार्यवित् । हूनमण्डलम् उत्सृज्य प्राप देशान्तरं क्रमात्
समुल्लङ्घ्य नदीशैलमण्डलारण्यसन्ततिम् । आससाद तुषाराद्रिलग्नं कीरजनास्पदम्
तत्र प्राप महीपालनगरं नगसन्निभम् । जगद्भ्रमणखिन्नात्मा स्वर्लोकम् इव नारदः
अथात्मनानुभूतानि दृष्टान्य् आसेवितानि च । स्थानानि नगरे पश्यन् पप्रच्छ जनम् आदृतः
साधो स्मरसि कच्चित् त्वम् इह श्वपचम् ईश्वरम् । यदि जानासि तत् तन् मे कथयाशु यथाविधि
अभूद् इहाष्टौ वर्षाणि श्वपचो भूमिपो द्विज । राजत्वम् अर्पितं यस्य नवमङ्गलहस्तिना
अन्ते स सम्परिज्ञातस् सम्प्रविष्टो हुताशनम् । अत्र द्वादशवर्षाणि समतीतानि तापस
यं यं पृच्छत्य् असौ गाधिर् जनं जातकुतूहलः । तस्य तस्य मुखाद् एवं शृणोत्य् अनुभवत्य् अपि
अथापश्यत् पुरे तस्मिन् नृपं सबलवाहनम् । देवं चक्रधरं द्रष्टुं मन्दिरान् निर्गतं बहिः
तं दृष्ट्वा स्थगिताकाशं बलरेणुपयोधरैः । प्राक्तनीं राजताम् स्मृत्वा स्वाम् उवाचातिविस्मितः
इमास् ताः कीरकामिन्यः पद्मगर्भोपमत्वचः । कनकद्रववर्णिन्यो लोलनीलोत्पलेक्षणाः
चामरौघा इमे चन्द्रकरसम्पिण्डपाण्डुराः । स्थिरनिर्झरसङ्काशाः काशपुष्पचया इव
कान्ताभिर् अवधूयन्ते वालव्यजनराशयः । इमास् ता नववल्लीभिः कुसुमानाम् इवर्द्धयः
इमास् ता मत्तमातङ्गघटा घटितमन्दिराः । सकल्पपादपा मेरोर् इव श्र्ङ्गपरम्पराः
एते ते यमशर्वेन्द्रकुबेरप्रतिमौजसः । सामन्ता वासवस्येव लोकपाला महीभृतः
इमास् तास् सर्वरत्नाढ्यास् सर्वाभिमतदास् तताः । कल्पवृक्षलताकुञ्जसुन्दर्यो गृहपङ्क्तयः
इदं तत् कीरजनताराज्यं प्राग् भुक्तम् अद्य मे । आत्मजन्मान्तराचार इव प्रत्यक्षतां गतम्
सत्यस्वप्न इवेदं मे जाग्रतो ऽपि पुरस् स्थितम् । न जाने किं कृतोत्थाना मायेयं प्रविजृम्भते