इति सञ्चिन्तयन् गन्तुं मण्डलान्तरम् आदरात् । उत्तस्थौ भास्करः पार्श्वं मेरोर् द्रष्टुम् इवोद्यतः
विनिर्गत्यावहन् मार्गे प्रावृडोघजवेन सः । देशान् उल्लङ्घयाम् आस बहून् वाततरङ्गवत्
तुच्छदेशजनाचारं हूनमण्डलम् आसदत् । करभः कण्टकौघार्थी कारञ्जम् इव काननम्
तत्र संवित्स्थितेनैव सन्निवेशेन वै पुरः । अपश्यद् ग्रामकं कञ्चिद् गन्धर्व इव पत्तनम्
ददर्श तस्य पर्यन्ते तम् एव श्वपचालयम् । अधस् त्रिभुवनस्येव पाताले नरकव्रजम्
चित्रचिन्तितविस्तारिसन्निवेशमयं पुरम् । गन्धर्ववद् असाव् आत्मश्वपचेशस्य दृष्टवान्
तेनैव सन्निवेशेन प्राग् दृष्टं श्वपचास्पदम् । तस्य काम् अपि वैराग्यपदवीम् अनयन् मनः
प्रावृडासारलुठितं भित्तिजातयवाङ्कुरम् । पर्यस्तच्छादनार्धाङ्कं किञ्चिदादृष्टकन्दरम्
दारिद्र्यं तं दृढम् इव दौर्भाग्यम् इव कुट्टितम् । भ्रष्टाङ्गम् इव दौरात्म्यं दौस्स्थित्यम् इव खण्डितम्
गाधिदन्तावदलितैर् गवाश्वमहिषास्थिभिः । धवलैर् व्याप्तपर्यन्तं साक्ष्यं कर्तुम् इव स्थितैः
भुक्तं पीतं पुरा तेन येषु कर्परकेषु च । तैर् असन्मात्रमलिनैः परिपूर्णैर् इवावृतम्
ताभिर् एवान्त्रतन्त्रीभिस् संशुष्काभिर् ऋताव् ऋतौ । तृष्णाभिर् इव दीर्घाभिः परितः परिवेष्टितम्
चिरम् आलोकयाम् आस स तद् आत्मगृहं स्मयात् । प्राक्तनं शुष्कशवतां यातं देहम् इवात्मवान्
अथ विस्मयवान् एष ग्रामकं समुपाययौ । उल्लङ्घ्य म्लेच्छनगरम् आर्यदेशम् इवाध्वगः
तत्रापृच्छज् जनं साधो कच्चित् स्मरति भो भवान् । प्राग् वृत्तम् अस्य ग्रामस्य पर्यन्ते श्वपचक्रमम्
सर्व एव हि धीमन्तश् चिरवृत्तम् अपि स्फुटम् । करस्थम् इव पश्यन्ति मयेति सुजनाच् छ्रुतम्
अत्र श्वपचम् एकान्तवासिनं वृद्धम् उन्नतम् । स्मरस्य् एकं किल तमोदुःखानाम् इव देहकम्
यदि जानासि भोस् साधो तन् मे कथय तं जनम् । पान्थसंशयविच्छेदे महत् पुण्यफलं स्मृतम्
भूयो भूय इति ग्राम्याः पृष्टा गाधिद्विजन्मना । अनल्पस्मयसंरम्भा आर्तेनेव चिकित्सकाः
यथा कथयसि ब्रह्मंस् तत् तथा न तद् अन्यथा । कटञ्जनामा श्वपच इहाभूद् दारुणाकृतिः
पुत्रपौत्रसुहृद्भृत्यबन्धुस्वजनपेटकम् । यस्यातिविस्तीर्णम् अभूत् पत्त्रवृन्दं तरोर् इव
तस्य वृद्धस्य तत् सर्वं कलत्रं मृत्युर् आच्छिनत् । अद्रेः पुष्पफलोपेतं महावनम् इवानिलः
यस् ततो देशम् उत्सृज्य ययौ कीरपुरान्तरम् । वर्षाण्य् अष्टाव् अनुद्वेगं तत्र राजा बभूव यः
यस् तत्राथ परिज्ञाय जनैर् दूरे तिरस्कृतः । यथा राशिर् अमेध्यस्य यथा ग्रामे विषद्रुमः
ततो जने ऽग्निं प्रविशत्य् आत्मना यो हुताशनम् । आर्यताम् आर्यसंसर्गाद् आर्यतः प्रविवेश ह
किं त्वम् एकं प्रयत्नेन श्वपचं पृच्छसि प्रभो । किं ते बन्धुर् असौ कश्चिद् अभवत् संस्तुतो ऽथ वा
एवं कथयतो ग्राम्यान् गाधिः पृच्छन् पुनः पुनः । सर्वेषु तत्र ग्रामेषु मासम् एकम् उवास सः
यथा तेनानुभूतं तच् छ्वपचत्वं तथैव तैः । ग्रामीणैस् तस्य कथितं सर्वैर् एवाविखण्डितम्
अव्याहतं सकलहूनमुखाद् अथैतद् आकर्ण्य सम्यग् अवलोक्य यथानुभूतम् । गाधिश् शशाङ्कमलवद् धृदये विरूढं गूढाकृतिः परमविस्मयम् आजगाम
लुठितं श्वपचागारं पुनर् विस्मयवान् ययौ । गाधिर् मनो हि नायाति तृप्तिम् आश्चर्यदर्शने