स्मृतस्वरूपो वदनम् उद्दध्रे स जलान्तरात् । शिशिरान्ते प्रबुद्धात्मा सरोजम् इव माधवः
वनवारिककुब्व्योमवतीं वसुमतीम् इमाम् । अन्याम् एव पुरः पश्यन् परं विस्मयम् आययौ
को ऽहं किम् इव पश्यामि किम् अकार्षम् अहं किल । एवं विचारयंश् चित्रं सभ्रूभङ्गम् अभूत् क्षणम्
एतन्मुहूर्तमात्रेण सम्भ्रमं दृष्टवान् अहम् । इति विज्ञाय सलिलाद् उदस्थाद् उदयार्कवत्
चिन्तयाम् आस च तटे क्व मे माता क्व मे प्रिया । यद् अहं मृतिम् आयातो मध्ये मातृमहेलयोः
बालस्य मातापितरौ नष्टौ किल ममामतेः । वातनीतस्य पत्त्रस्य वल्लीवृक्षाव् इवाग्निना
अविवाहो ऽस्मि जानामि न स्वरूपम् अपि स्त्रियः । दुष्टायाः क्षोभकारिण्या मदिराया इव द्विजः
तस्माद् एतद् असद्भूतम् अहं किं नाम दृष्टवान् । विविधारम्भसंरम्भं गन्धर्वो नगरं यथा
तद् आस्ताम् एतद् एषा हि बन्धुमध्यमृतस्थितिः । माया मोहे मनाग् अस्मिन् न सत्यम् उपलभ्यते
नित्यम् एवम् अनन्तासु भ्रमदृष्टिषु देहिनाम् । चेतो भ्रमति शार्दूलो वनराजिष्व् इवोन्मदः
अवधीर्येति तं चित्तमोहं गाधिर् निनाय सः । दिनानि कतिचित् तस्मिन् स्वक एवाश्रमे तदा
एकदा गाधिम् आगच्छत् कश्चिद् अन्नप्रियो ऽतिथिः । ब्रह्माणम् इव दुर्वासास् स विशश्राम सश्रमः
परमां तृप्तिम् आनीतः फलपुष्परसाशनैः । सो ऽतिथिर् गाधिना तेन वसन्तेनेव पादपः
अथ वन्दितसन्ध्यौ तौ कृतजप्याव् उभाव् अपि । क्रमाच् छयनम् आसाद्य तस्थतुर् मृदुपल्लवम्
ततः प्रववृते शान्ता तयोस् तापसयोः कथा । स्वव्यापारोचिता पुष्पश्रीर् इवर्तुस् स्वमासयोः
पप्रच्छाथातिथिं गाधिः प्रसङ्गापतितं वचः । किम् ब्रह्मन् सुकृशाङ्गस् त्वं किम् इति श्रमवान् असि
ममातिकार्श्यश्रमयोर् भगवञ् शृणु कारणम् । कथयामि यथाभूतं वयं नासत्यवादिनः
अस्त्य् अस्मिन् वसुधापीठे उत्तराशानिकुञ्जके । कीरो नामातिविख्यातश् श्रीमाञ् जनपदो महान्
तत्राहम् अवसं मासं पूज्यमानः पुरे जनैः । अनन्तास्वादलोलात्मचित्तवेतालमोहितः
एकदैकेन तत्रोक्तं कथाप्रस्तावतः क्वचित् । इहाभूच् छ्वपचो राजा वर्षाण्य् अष्टौ द्विजेति मे
ततो ग्रामेषु मत्पृष्टैः प्रोक्तं सकलजन्तुभिः । राजा बभूव श्वपचो वर्षाण्य् अष्टाव् इहेति तैः
स एवान्ते परिज्ञातः प्रविष्टो ज्वलनं जवात् । ततो द्विजशतानीह प्रविष्टानि हुताशनम्
इति तेषां मुखाच् छ्रुत्वा तस्मान् निर्गत्य मण्डलात् । प्रयागे ऽकरवं शुद्ध्यै प्रायश्चित्तम् अहं द्विज
कृत्वा चान्द्रायणस्यान्ते तृतीयस्याद्य पारणम् । इहाहम् आगतस् तेन श्रान्तो ऽस्म्य् अतिकृशो ऽस्मि च
इति श्रुतवता तेन गाधिना स तदा द्विजः । भूयः पृष्टो ऽप्य् एतद् एव कथयाम् आस नान्यथा
अथ विस्मयवान् गाधिस् तां नीत्वा तत्र शर्वरीम् । जगद्गेहमहादीपे रवाव् उदयम् आगते
कृते प्रातस्तनविधाव् आपृच्छ्याश्व् अतिथौ गते । इदं सञ्चिन्तयाम् आस विस्मयोद्धुरया धिया
यन् मया सम्भ्रमे दृष्टं सत्यं भूतं द्विजेन तत् । उक्तं ममेति किं नाम स्यान् मायाशम्बरे क्रमः
यद् बन्धुमध्ये मरणं मया तद् दृष्टम् आत्मनः । सा मायैव न सन्देहश् शेषे पश्यामि सत्यताम्
तद् आत्मश्वपचोदन्तं द्रष्टुं तावद् अखिन्नधीः । हूनमण्डलपर्यन्तग्रामं गच्छामि सत्वरम्