राज्यसज्जनसम्पर्कपवित्रीकृतधीरधीः । गवलश् चिन्तयाम् आस शोकव्याकुलचेतनः
मदर्थम् अत्यनर्थो ऽयं देशे ऽस्मिन् स्थितिम् आगतः । अकालकल्पान्तसमस् सर्वनायकनाशनः
किं मे दुःखितजीवेन मरणं मे महोत्सवः । लोकनिन्द्यस्य दुर्जन्तोर् जीवितान् मरणं वरम्
इति निश्चित्य गवलो ज्वलिते ज्वलने पुरः । पतङ्गवद् अनुद्वेगम् अकरोद् आहुतिं वपुः
तस्मिन् बलाद् गवलनाम्नि हुताशराशौ देहे पतत्य् अवयवाकुलतां प्रयाते । स्वाङ्गावदाहदहनस्फुरणानुरोधाद् अन्तर्जले झगिति बोधम् अवाप गाधिः
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम
मुहूर्तद्वितयेनाथ गाधेर् आधिभरभ्रमात् । प्रशशामाकुलीभावो वेलावत्त्वम् इवाम्बुधेः
पयोनिर्माणसम्मोहात् तस्मात् स विरराम ह । कल्पान्तसमये ब्रह्मा जगद्विरचनाद् इव
बोधम् आप शनैश् शान्तस् स्वम् एवोन्निद्रधीरधीः । क्षीवतायां प्रशान्तायां यथा परिणतासवः
अयं सो ऽहम् इदं कार्यम् इदं नेति ददर्श ह । निशाव्यपगमे लोको यथा क्षीणतमःपटे
स्मृतस्वरूपो वदनम् उद्दध्रे स जलान्तरात् । शिशिरान्ते प्रबुद्धात्मा सरोजम् इव माधवः
वनवारिककुब्व्योमवतीं वसुमतीम् इमाम् । अन्याम् एव पुरः पश्यन् परं विस्मयम् आययौ
को ऽहं किम् इव पश्यामि किम् अकार्षम् अहं किल । एवं विचारयंश् चित्रं सभ्रूभङ्गम् अभूत् क्षणम्
एतन्मुहूर्तमात्रेण सम्भ्रमं दृष्टवान् अहम् । इति विज्ञाय सलिलाद् उदस्थाद् उदयार्कवत्
चिन्तयाम् आस च तटे क्व मे माता क्व मे प्रिया । यद् अहं मृतिम् आयातो मध्ये मातृमहेलयोः
बालस्य मातापितरौ नष्टौ किल ममामतेः । वातनीतस्य पत्त्रस्य वल्लीवृक्षाव् इवाग्निना
अविवाहो ऽस्मि जानामि न स्वरूपम् अपि स्त्रियः । दुष्टायाः क्षोभकारिण्या मदिराया इव द्विजः
तस्माद् एतद् असद्भूतम् अहं किं नाम दृष्टवान् । विविधारम्भसंरम्भं गन्धर्वो नगरं यथा
तद् आस्ताम् एतद् एषा हि बन्धुमध्यमृतस्थितिः । माया मोहे मनाग् अस्मिन् न सत्यम् उपलभ्यते
नित्यम् एवम् अनन्तासु भ्रमदृष्टिषु देहिनाम् । चेतो भ्रमति शार्दूलो वनराजिष्व् इवोन्मदः
अवधीर्येति तं चित्तमोहं गाधिर् निनाय सः । दिनानि कतिचित् तस्मिन् स्वक एवाश्रमे तदा
एकदा गाधिम् आगच्छत् कश्चिद् अन्नप्रियो ऽतिथिः । ब्रह्माणम् इव दुर्वासास् स विशश्राम सश्रमः
परमां तृप्तिम् आनीतः फलपुष्परसाशनैः । सो ऽतिथिर् गाधिना तेन वसन्तेनेव पादपः
अथ वन्दितसन्ध्यौ तौ कृतजप्याव् उभाव् अपि । क्रमाच् छयनम् आसाद्य तस्थतुर् मृदुपल्लवम्
ततः प्रववृते शान्ता तयोस् तापसयोः कथा । स्वव्यापारोचिता पुष्पश्रीर् इवर्तुस् स्वमासयोः
पप्रच्छाथातिथिं गाधिः प्रसङ्गापतितं वचः । किम् ब्रह्मन् सुकृशाङ्गस् त्वं किम् इति श्रमवान् असि
ममातिकार्श्यश्रमयोर् भगवञ् शृणु कारणम् । कथयामि यथाभूतं वयं नासत्यवादिनः
अस्त्य् अस्मिन् वसुधापीठे उत्तराशानिकुञ्जके । कीरो नामातिविख्यातश् श्रीमाञ् जनपदो महान्
तत्राहम् अवसं मासं पूज्यमानः पुरे जनैः । अनन्तास्वादलोलात्मचित्तवेतालमोहितः
एकदैकेन तत्रोक्तं कथाप्रस्तावतः क्वचित् । इहाभूच् छ्वपचो राजा वर्षाण्य् अष्टौ द्विजेति मे