इह राजा भवन्तं वा कच्चिद् गेयकलाविदम् । रक्तकण्ठं मानयति रागवान् इव कोकिलम्
आपूरयति वा कच्चिद् गृहवस्त्राशनार्पणैः । मधुस् तमालविटपं फलपत्त्ररसैर् इव
दर्शनेन तवाद्याहं परां निर्वृतिम् आगतः । पद्मस् सूर्योदयेनेव चन्द्रोदय इवोदधिः
आनन्दानाम् अशेषाणां लाभानां महताम् अपि । विश्रामाणाम् अनन्तानां सीमान्तो बन्धुदर्शनम्
श्वपचे प्रवदत्य् एवं राजा तावत् तया तया । चकार तत्कालजया चेष्टयैवावधीरणम्
तावद् वातायनगताः कान्ताः प्रकृतयस् तथा । श्वपचो ऽयम् इति ज्ञात्वा म्लानताम् अलम् आययुः
पद्मास् तुषारवृष्ट्येव ग्रामास् सावग्रहा इव । दाववन्त इवाद्रीन्द्रा नागरा न विरेजिरे
नृपो ऽवधीरयाम् आस स तां स्वजनसङ्कथाम् । वृक्षाग्रगतमार्जारफेक्कारं मृगराड् इव
सत्वरं प्रविवेशान्तःपुरम् आम्लानमानवम् । राजहंस इवावर्षसीदत्सरसिजं सरः
सर्वावयवविश्रान्तां म्लानताम् अलम् आययौ । जानुस्तम्भान्तरमहारन्ध्रस्थाग्निर् इव द्रुमः
तत्रापश्यद् असौ सर्वं विषण्णवदनं जनम् । जालं कुङ्कुमपुष्पाणां भुक्तमूलम् इवाखुना
मन्त्रिणो नागरा नार्यस् ततस् ते तं महीपतिम् । नास्प्राक्षुर् अपि तिष्ठन्तं गृह एव शवं यथा
भृत्याश् चाकृतसत्कारं दूर एव तम् अत्यजन् । दुःखयुक्ता घनस्नेहा अपि बालशवं यथा
अनानन्दमुखं श्यामशरीरं श्रीविवर्जितम् । दग्धं स्थलम् इवैनं ते बह्व् अमन्यन्त नाकुलाः
धूमायमानदेहस्य परितापदशावती । नाढौकतास्य जनता पार्श्वम् अग्निगिरेर् इव
मन्दोत्साहसमुद्भूतास् तन्व्यस् सङ्घातवर्जिताः । एतदाज्ञाः परं प्रापुर् भस्मनीवाम्बुविप्रुषः
क्रूरकर्मकराकारात् सङ्गतो ऽशुभदायिनः । तस्माद् विशेषेण जना राक्षसाद् इव दुद्रुवुः
एक एव बभूवासौ जनमध्यगतो ऽपि सन् । अर्थादिगुणनिर्मुक्तः परदेश इवाध्वगः
भृशम् आरटते ऽप्य् अस्मै नालापं नागरा ददुः । मुक्ताजालयुतायापि कीचकायाध्वगा इव
अथ सर्वे वयं दीर्घं कालं श्वपचदूषिताः । प्रायश्चित्तैर् न शुद्धास् स्मः प्रविशामो हुताशनम्
इति निर्णीय नगरे नागरा मन्त्रिणस् तथा । अभितो ज्वलयाम् आसुश् चिताश् शतसहस्रशः
ज्वलितास्व् अभितस् तासु तारकास्व् इव खे तदा । बभूव नगरं सर्वम् आक्रन्दपरमानवम्
करुणारावमुखरैः कलत्रैर् बाष्पवर्षिभिः । अवष्टब्धज्वलत्कुण्डपातसज्जजनव्रजम्
अग्निकुण्डप्रविष्टानां मन्त्रिणां भृत्यरोदनैः । क्रन्दद्रथ्यं ध्वनद्गर्तम् अरण्यम् इव मारुतैः
चितिदीपितविप्रेन्द्रमांसमांसलगन्धया । जातनीहारम् उत्पातवात्ययावकरैर् धुतैः
वातदीर्घवसागन्धधूतानीतखगोम्भितैः । अन्त्रैर् व्योमगतैश् छन्नं भास्करं जलदैर् इव
वातोद्धूतचितावह्निप्रज्वलत्पुरमण्डलम् । उड्डीनाग्निकणव्रातताराक्रान्तदिगन्तरम्
प्रमत्ततस्करं क्रन्दद्बालकान्तकुमारकम् । सन्त्रस्तनागरापास्तजीवितास्थम् असंस्थिति
अरक्षितगृहं चौरलुण्ठिताखिलसञ्चयम् । त्यक्तपुत्रकलत्रं च मरणव्यग्रनागरम्
तस्मिंस् तथा वर्तमाने कष्टे विधिविपर्यये । अशेषजनतानाशे कल्पान्तसदृशस्थितौ